उतथ्य उवाच:
अप्रमत्तो भवेद्राजा छिद्रदर्शी परात्मनोः |
५१ क
उतथ्य उवाच:
नास्य छिद्रं परः पश्येच्छिद्रेषु परमन्विय़ात् ||
५१ ख
उतथ्य उवाच:
एतद्वृत्तं वासवस्य यमस्य वरुणस्य च |
५२ क
उतथ्य उवाच:
राजर्षीणां च सर्वेषां तत्त्वमप्यनुपालय़ ||
५२ ख
उतथ्य उवाच:
तत्कुरुष्व महाराज वृत्तं राजर्षिसेवितम् |
५३ क
उतथ्य उवाच:
आतिष्ठ दिव्यं पन्थानमह्नाय़ भरतर्षभ ||
५३ ख
उतथ्य उवाच:
धर्मवृत्तं हि राजानं प्रेत्य चेह च भारत |
५४ क
उतथ्य उवाच:
देवर्षिपितृगन्धर्वाः कीर्तय़न्त्यमितौजसः ||
५४ ख
भीष्म उवाच:
स एवमुक्तो मान्धाता तेनोतथ्येन भारत |
५५ क
भीष्म उवाच:
कृतवानविशङ्कस्तदेकः प्राप च मेदिनीम् ||
५५ ख
भीष्म उवाच:
भवानपि तथा सम्यङ्मान्धातेव महीपतिः |
५६ क
भीष्म उवाच:
धर्मं कृत्वा महीं रक्षन्स्वर्गे स्थानमवाप्स्यसि ||
५६ ख