chevron_left वन पर्व अध्याय ९
व्यास उवाच:
धृतराष्ट्र महाप्राज्ञ निवोध वचनं मम |
१ क
व्यास उवाच:
वक्ष्यामि त्वा कौरवाणां सर्वेषां हितमुत्तमम् ||
१ ख
व्यास उवाच:
न मे प्रिय़ं महावाहो यद्गताः पाण्डवा वनम् |
२ क
व्यास उवाच:
निकृत्या निर्जिताश्चैव दुर्योधनवशानुगैः ||
२ ख
व्यास उवाच:
ते स्मरन्तः परिक्लेशान्वर्षे पूर्णे त्रय़ोदशे |
३ क
व्यास उवाच:
विमोक्ष्यन्ति विषं क्रुद्धाः करवेय़ेषु भारत ||
३ ख
व्यास उवाच:
तदय़ं किं नु पापात्मा तव पुत्रः सुमन्दधीः |
४ क
व्यास उवाच:
पाण्डवान्नित्यसङ्क्रुद्धो राज्यहेतोर्जिघांसति ||
४ ख
व्यास उवाच:
वार्यतां साध्वय़ं मूढः शमं गच्छतु ते सुतः |
५ क
व्यास उवाच:
वनस्थांस्तानय़ं हन्तुमिच्छन्प्राणैर्विमोक्ष्यते ||
५ ख
व्यास उवाच:
यथाह विदुरः प्राज्ञो यथा भीष्मो यथा वय़म् |
६ क
व्यास उवाच:
यथा कृपश्च द्रोणश्च तथा साधु विधीय़ताम् ||
६ ख
व्यास उवाच:
विग्रहो हि महाप्राज्ञ स्वजनेन विगर्हितः |
७ क
व्यास उवाच:
अधर्म्यमय़शस्यं च मा राजन्प्रतिपद्यथाः ||
७ ख
व्यास उवाच:
समीक्षा यादृशी ह्यस्य पाण्डवान्प्रति भारत |
८ क
व्यास उवाच:
उपेक्ष्यमाणा सा राजन्महान्तमनय़ं स्पृशेत् ||
८ ख
व्यास उवाच:
अथ वाय़ं सुमन्दात्मा वनं गच्छतु ते सुतः |
९ क
व्यास उवाच:
पाण्डवैः सहितो राजन्नेक एवासहाय़वान् ||
९ ख
व्यास उवाच:
ततः संसर्गजः स्नेहः पुत्रस्य तव पाण्डवैः |
१० क
व्यास उवाच:
यदि स्यात्कृतकार्योऽद्य भवेस्त्वं मनुजेश्वर ||
१० ख
व्यास उवाच:
अथ वा जाय़मानस्य यच्छीलमनुजाय़ते |
११ क
व्यास उवाच:
श्रूय़ते तन्महाराज नामृतस्यापसर्पति ||
११ ख
व्यास उवाच:
कथं वा मन्यते भीष्मो द्रोणो वा विदुरोऽपि वा |
१२ क
व्यास उवाच:
भवान्वात्र क्षमं कार्यं पुरा चार्थोऽतिवर्तते ||
१२ ख