chevron_left भीष्म पर्व अध्याय ८७
धृतराष्ट्र उवाच:
इरावन्तं तु निहतं दृष्ट्वा पार्था महारथाः |
१ क
धृतराष्ट्र उवाच:
सङ्ग्रामे किमकुर्वन्त तन्ममाचक्ष्व सञ्जय़ ||
१ ख
सञ्जय़ उवाच:
इरावन्तं तु निहतं सङ्ग्रामे वीक्ष्य राक्षसः |
२ क
सञ्जय़ उवाच:
व्यनदत्सुमहानादं भैमसेनिर्घटोत्कचः ||
२ ख
सञ्जय़ उवाच:
नदतस्तस्य शव्देन पृथिवी सागराम्वरा |
३ क
सञ्जय़ उवाच:
सपर्वतवना राजंश्चचाल सुभृशं तदा |
३ ख
सञ्जय़ उवाच:
अन्तरिक्षं दिशश्चैव सर्वाश्च प्रदिशस्तथा ||
३ ग
सञ्जय़ उवाच:
तं श्रुत्वा सुमहानादं तव सैन्यस्य भारत |
४ क
सञ्जय़ उवाच:
ऊरुस्तम्भः समभवद्वेपथुः स्वेद एव च ||
४ ख
सञ्जय़ उवाच:
सर्व एव च राजेन्द्र तावका दीनचेतसः |
५ क
सञ्जय़ उवाच:
सर्पवत्समवेष्टन्त सिंहभीता गजा इव ||
५ ख
सञ्जय़ उवाच:
निनदत्सुमहानादं निर्घातमिव राक्षसः |
६ क
सञ्जय़ उवाच:
ज्वलितं शूलमुद्यम्य रूपं कृत्वा विभीषणम् ||
६ ख
सञ्जय़ उवाच:
नानाप्रहरणैर्घोरैर्वृतो राक्षसपुङ्गवैः |
७ क
सञ्जय़ उवाच:
आजगाम सुसङ्क्रुद्धः कालान्तकय़मोपमः ||
७ ख
सञ्जय़ उवाच:
तमापतन्तं सम्प्रेक्ष्य सङ्क्रुद्धं भीमदर्शनम् |
८ क
सञ्जय़ उवाच:
स्ववलं च भय़ात्तस्य प्राय़शो विमुखीकृतम् ||
८ ख
सञ्जय़ उवाच:
ततो दुर्योधनो राजा घटोत्कचमुपाद्रवत् |
९ क
सञ्जय़ उवाच:
प्रगृह्य विपुलं चापं सिंहवद्विनदन्मुहुः ||
९ ख
सञ्जय़ उवाच:
पृष्ठतोऽनुय़यौ चैनं स्रवद्भिः पर्वतोपमैः |
१० क
सञ्जय़ उवाच:
कुञ्जरैर्दशसाहस्रैर्वङ्गानामधिपः स्वय़म् ||
१० ख
सञ्जय़ उवाच:
तमापतन्तं सम्प्रेक्ष्य गजानीकेन संवृतम् |
११ क
सञ्जय़ उवाच:
पुत्रं तव महाराज चुकोप स निशाचरः ||
११ ख
सञ्जय़ उवाच:
ततः प्रववृते युद्धं तुमुलं लोमहर्षणम् |
१२ क
सञ्जय़ उवाच:
राक्षसानां च राजेन्द्र दुर्योधनवलस्य च ||
१२ ख
सञ्जय़ उवाच:
गजानीकं च सम्प्रेक्ष्य मेघवृन्दमिवोद्यतम् |
१३ क
सञ्जय़ उवाच:
अभ्यधावन्त सङ्क्रुद्धा राक्षसाः शस्त्रपाणय़ः ||
१३ ख
सञ्जय़ उवाच:
नदन्तो विविधान्नादान्मेघा इव सविद्युतः |
१४ क
सञ्जय़ उवाच:
शरशक्त्यृष्टिनाराचैर्निघ्नन्तो गजय़ोधिनः ||
१४ ख
सञ्जय़ उवाच:
भिण्डिपालैस्तथा शूलैर्मुद्गरैः सपरश्वधैः |
१५ क
सञ्जय़ उवाच:
पर्वताग्रैश्च वृक्षैश्च निजघ्नुस्ते महागजान् ||
१५ ख
सञ्जय़ उवाच:
भिन्नकुम्भान्विरुधिरान्भिन्नगात्रांश्च वारणान् |
१६ क
सञ्जय़ उवाच:
अपश्याम महाराज वध्यमानान्निशाचरैः ||
१६ ख
सञ्जय़ उवाच:
तेषु प्रक्षीय़माणेषु भग्नेषु गजय़ोधिषु |
१७ क
सञ्जय़ उवाच:
दुर्योधनो महाराज राक्षसान्समुपाद्रवत् ||
१७ ख
सञ्जय़ उवाच:
अमर्षवशमापन्नस्त्यक्त्वा जीवितमात्मनः |
१८ क
सञ्जय़ उवाच:
मुमोच निशितान्वाणान्राक्षसेषु महावलः ||
१८ ख
सञ्जय़ उवाच:
जघान च महेष्वासः प्रधानांस्तत्र राक्षसान् |
१९ क
सञ्जय़ उवाच:
सङ्क्रुद्धो भरतश्रेष्ठ पुत्रो दुर्योधनस्तव ||
१९ ख
सञ्जय़ उवाच:
वेगवन्तं महारौद्रं विद्युज्जिह्वं प्रमाथिनम् |
२० क
सञ्जय़ उवाच:
शरैश्चतुर्भिश्चतुरो निजघान महारथः ||
२० ख
सञ्जय़ उवाच:
ततः पुनरमेय़ात्मा शरवर्षं दुरासदम् |
२१ क
सञ्जय़ उवाच:
मुमोच भरतश्रेष्ठ निशाचरवलं प्रति ||
२१ ख
सञ्जय़ उवाच:
तत्तु दृष्ट्वा महत्कर्म पुत्रस्य तव मारिष |
२२ क
सञ्जय़ उवाच:
क्रोधेनाभिप्रजज्वाल भैमसेनिर्महावलः ||
२२ ख
सञ्जय़ उवाच:
विस्फार्य च महच्चापमिन्द्राशनिसमस्वनम् |
२३ क
सञ्जय़ उवाच:
अभिदुद्राव वेगेन दुर्योधनमरिन्दमम् ||
२३ ख
सञ्जय़ उवाच:
तमापतन्तमुद्वीक्ष्य कालसृष्टमिवान्तकम् |
२४ क
सञ्जय़ उवाच:
न विव्यथे महाराज पुत्रो दुर्योधनस्तव ||
२४ ख
सञ्जय़ उवाच:
अथैनमव्रवीत्क्रुद्धः क्रूरः संरक्तलोचनः |
२५ क
सञ्जय़ उवाच:
ये त्वय़ा सुनृशंसेन दीर्घकालं प्रवासिताः |
२५ ख
सञ्जय़ उवाच:
यच्च ते पाण्डवा राजंश्छलद्यूते पराजिताः ||
२५ ग
सञ्जय़ उवाच:
यच्चैव द्रौपदी कृष्णा एकवस्त्रा रजस्वला |
२६ क
सञ्जय़ उवाच:
सभामानीय़ दुर्वुद्धे वहुधा क्लेशिता त्वय़ा ||
२६ ख
सञ्जय़ उवाच:
तव च प्रिय़कामेन आश्रमस्था दुरात्मना |
२७ क
सञ्जय़ उवाच:
सैन्धवेन परिक्लिष्टा परिभूय़ पितॄन्मम ||
२७ ख
सञ्जय़ उवाच:
एतेषामवमानानामन्येषां च कुलाधम |
२८ क
सञ्जय़ उवाच:
अन्तमद्य गमिष्यामि यदि नोत्सृजसे रणम् ||
२८ ख
सञ्जय़ उवाच:
एवमुक्त्वा तु हैडिम्वो महद्विस्फार्य कार्मुकम् |
२९ क
सञ्जय़ उवाच:
सन्दश्य दशनैरोष्ठं सृक्किणी परिसंलिहन् ||
२९ ख
सञ्जय़ उवाच:
शरवर्षेण महता दुर्योधनमवाकिरत् |
३० क
सञ्जय़ उवाच:
पर्वतं वारिधाराभिः प्रावृषीव वलाहकः ||
३० ख