वसिष्ठ उवाच:
शतं वर्षसहस्राणां तपस्तप्तं सुदुश्चरम् |
१ क
वसिष्ठ उवाच:
गोभिः पूर्वविसृष्टाभिर्गच्छेम श्रेष्ठतामिति ||
१ ख
वसिष्ठ उवाच:
लोकेऽस्मिन्दक्षिणानां च सर्वासां वय़मुत्तमाः |
२ क
वसिष्ठ उवाच:
भवेम न च लिप्येम दोषेणेति परन्तप ||
२ ख
वसिष्ठ उवाच:
स एव चेतसा तेन हतो लिप्येत सर्वदा |
३ क
वसिष्ठ उवाच:
शकृता च पवित्रार्थं कुर्वीरन्देवमानुषाः ||
३ ख
वसिष्ठ उवाच:
तथा सर्वाणि भूतानि स्थावराणि चराणि च |
४ क
वसिष्ठ उवाच:
प्रदातारश्च गोलोकान्गच्छेय़ुरिति मानद ||
४ ख
वसिष्ठ उवाच:
ताभ्यो वरं ददौ व्रह्मा तपसोऽन्ते स्वय़ं प्रभुः |
५ क
वसिष्ठ उवाच:
एवं भवत्विति विभुर्लोकांस्तारय़तेति च ||
५ ख
वसिष्ठ उवाच:
उत्तस्थुः सिद्धिकामास्ता भूतभव्यस्य मातरः |
६ क
वसिष्ठ उवाच:
तपसोऽन्ते महाराज गावो लोकपराय़णाः ||
६ ख
वसिष्ठ उवाच:
तस्माद्गावो महाभागाः पवित्रं परमुच्यते |
७ क
वसिष्ठ उवाच:
तथैव सर्वभूतानां गावस्तिष्ठन्ति मूर्धनि ||
७ ख
वसिष्ठ उवाच:
समानवत्सां कपिलां धेनुं दत्त्वा पय़स्विनीम् |
८ क
वसिष्ठ उवाच:
सुव्रतां वस्त्रसंवीतां व्रह्मलोके महीय़ते ||
८ ख
वसिष्ठ उवाच:
रोहिणीं तुल्यवत्सां तु धेनुं दत्त्वा पय़स्विनीम् |
९ क
वसिष्ठ उवाच:
सुव्रतां वस्त्रसंवीतां सूर्यलोके महीय़ते ||
९ ख
वसिष्ठ उवाच:
समानवत्सां शवलां धेनुं दत्त्वा पय़स्विनीम् |
१० क
वसिष्ठ उवाच:
सुव्रतां वस्त्रसंवीतां सोमलोके महीय़ते ||
१० ख
वसिष्ठ उवाच:
समानवत्सां श्वेतां तु धेनुं दत्त्वा पय़स्विनीम् |
११ क
वसिष्ठ उवाच:
सुव्रतां वस्त्रसंवीतामिन्द्रलोके महीय़ते ||
११ ख
वसिष्ठ उवाच:
समानवत्सां कृष्णां तु धेनुं दत्त्वा पय़स्विनीम् |
१२ क
वसिष्ठ उवाच:
सुव्रतां वस्त्रसंवीतामग्निलोके महीय़ते ||
१२ ख
वसिष्ठ उवाच:
समानवत्सां धूम्रां तु धेनुं दत्त्वा पय़स्विनीम् |
१३ क
वसिष्ठ उवाच:
सुव्रतां वस्त्रसंवीतां याम्यलोके महीय़ते ||
१३ ख
वसिष्ठ उवाच:
अपां फेनसवर्णां तु सवत्सां कांस्यदोहनाम् |
१४ क
वसिष्ठ उवाच:
प्रदाय़ वस्त्रसंवीतां वारुणं लोकमश्नुते ||
१४ ख
वसिष्ठ उवाच:
वातरेणुसवर्णां तु सवत्सां कांस्यदोहनाम् |
१५ क
वसिष्ठ उवाच:
प्रदाय़ वस्त्रसंवीतां वाय़ुलोके महीय़ते ||
१५ ख
वसिष्ठ उवाच:
हिरण्यवर्णां पिङ्गाक्षीं सवत्सां कांस्यदोहनाम् |
१६ क
वसिष्ठ उवाच:
प्रदाय़ वस्त्रसंवीतां कौवेरं लोकमश्नुते ||
१६ ख
वसिष्ठ उवाच:
पलालधूम्रवर्णां तु सवत्सां कांस्यदोहनाम् |
१७ क
वसिष्ठ उवाच:
प्रदाय़ वस्त्रसंवीतां पितृलोके महीय़ते ||
१७ ख
वसिष्ठ उवाच:
सवत्सां पीवरीं दत्त्वा शितिकण्ठामलङ्कृताम् |
१८ क
वसिष्ठ उवाच:
वैश्वदेवमसम्वाधं स्थानं श्रेष्ठं प्रपद्यते ||
१८ ख
वसिष्ठ उवाच:
समानवत्सां गौरीं तु धेनुं दत्त्वा पय़स्विनीम् |
१९ क
वसिष्ठ उवाच:
सुव्रतां वस्त्रसंवीतां वसूनां लोकमश्नुते ||
१९ ख
वसिष्ठ उवाच:
पाण्डुकम्वलवर्णां तु सवत्सां कांस्यदोहनाम् |
२० क
वसिष्ठ उवाच:
प्रदाय़ वस्त्रसंवीतां साध्यानां लोकमश्नुते ||
२० ख
वसिष्ठ उवाच:
वैराटपृष्ठमुक्षाणं सर्वरत्नैरलङ्कृतम् |
२१ क
वसिष्ठ उवाच:
प्रदाय़ मरुतां लोकानजरान्प्रतिपद्यते ||
२१ ख
वसिष्ठ उवाच:
वत्सोपपन्नां नीलाङ्गां सर्वरत्नसमन्विताम् |
२२ क
वसिष्ठ उवाच:
गन्धर्वाप्सरसां लोकान्दत्त्वा प्राप्नोति मानवः ||
२२ ख
वसिष्ठ उवाच:
शितिकण्ठमनड्वाहं सर्वरत्नैरलङ्कृतम् |
२३ क
वसिष्ठ उवाच:
दत्त्वा प्रजापतेर्लोकान्विशोकः प्रतिपद्यते ||
२३ ख
वसिष्ठ उवाच:
गोप्रदानरतो याति भित्त्वा जलदसञ्चय़ान् |
२४ क
वसिष्ठ उवाच:
विमानेनार्कवर्णेन दिवि राजन्विराजता ||
२४ ख
वसिष्ठ उवाच:
तं चारुवेषाः सुश्रोण्यः सहस्रं वरय़ोषितः |
२५ क
वसिष्ठ उवाच:
रमय़न्ति नरश्रेष्ठ गोप्रदानरतं नरम् ||
२५ ख
वसिष्ठ उवाच:
वीणानां वल्लकीनां च नूपुराणां च शिञ्जितैः |
२६ क
वसिष्ठ उवाच:
हासैश्च हरिणाक्षीणां प्रसुप्तः प्रतिवोध्यते ||
२६ ख
वसिष्ठ उवाच:
यावन्ति लोमानि भवन्ति धेन्वा; स्तावन्ति वर्षाणि महीय़ते सः |
२७ क
वसिष्ठ उवाच:
स्वर्गाच्च्युतश्चापि ततो नृलोके; कुले समुत्पत्स्यति गोमिनां सः ||
२७ ख