chevron_left भीष्म पर्व अध्याय ७४
सञ्जय़ उवाच:
ततो दुर्योधनो राजा मोहात्प्रत्यागतस्तदा |
१ क
सञ्जय़ उवाच:
शरवर्षैः पुनर्भीमं प्रत्यवारय़दच्युतम् ||
१ ख
सञ्जय़ उवाच:
एकीभूताः पुनश्चैव तव पुत्रा महारथाः |
२ क
सञ्जय़ उवाच:
समेत्य समरे भीमं योधय़ामासुरुद्यताः ||
२ ख
सञ्जय़ उवाच:
भीमसेनोऽपि समरे सम्प्राप्य स्वरथं पुनः |
३ क
सञ्जय़ उवाच:
समारुह्य महावाहुर्ययौ येन तवात्मजः ||
३ ख
सञ्जय़ उवाच:
प्रगृह्य च महावेगं परासुकरणं दृढम् |
४ क
सञ्जय़ उवाच:
चित्रं शरासनं सङ्ख्ये शरैर्विव्याध ते सुतान् ||
४ ख
सञ्जय़ उवाच:
ततो दुर्योधनो राजा भीमसेनं महावलम् |
५ क
सञ्जय़ उवाच:
नाराचेन सुतीक्ष्णेन भृशं मर्मण्यताडय़त् ||
५ ख
सञ्जय़ उवाच:
सोऽतिविद्धो महेष्वासस्तव पुत्रेण धन्विना |
६ क
सञ्जय़ उवाच:
क्रोधसंरक्तनय़नो वेगेनोत्क्षिप्य कार्मुकम् ||
६ ख
सञ्जय़ उवाच:
दुर्योधनं त्रिभिर्वाणैर्वाह्वोरुरसि चार्पय़त् |
७ क
सञ्जय़ उवाच:
स तथाभिहतो राजा नाचलद्गिरिराडिव ||
७ ख
सञ्जय़ उवाच:
तौ दृष्ट्वा समरे क्रुद्धौ विनिघ्नन्तौ परस्परम् |
८ क
सञ्जय़ उवाच:
दुर्योधनानुजाः सर्वे शूराः सन्त्यक्तजीविताः ||
८ ख
सञ्जय़ उवाच:
संस्मृत्य मन्त्रितं पूर्वं निग्रहे भीमकर्मणः |
९ क
सञ्जय़ उवाच:
निश्चय़ं मनसा कृत्वा निग्रहीतुं प्रचक्रमुः ||
९ ख
सञ्जय़ उवाच:
तानापतत एवाजौ भीमसेनो महावलः |
१० क
सञ्जय़ उवाच:
प्रत्युद्ययौ महाराज गजः प्रतिगजानिव ||
१० ख
सञ्जय़ उवाच:
भृशं क्रुद्धश्च तेजस्वी नाराचेन समर्पय़त् |
११ क
सञ्जय़ उवाच:
चित्रसेनं महाराज तव पुत्रं महाय़शाः ||
११ ख
सञ्जय़ उवाच:
तथेतरांस्तव सुतांस्ताडय़ामास भारत |
१२ क
सञ्जय़ उवाच:
शरैर्वहुविधैः सङ्ख्ये रुक्मपुङ्खैः सुवेगितैः ||
१२ ख
सञ्जय़ उवाच:
ततः संस्थाप्य समरे स्वान्यनीकानि सर्वशः |
१३ क
सञ्जय़ उवाच:
अभिमन्युप्रभृतय़स्ते द्वादश महारथाः ||
१३ ख
सञ्जय़ उवाच:
प्रेषिता धर्मराजेन भीमसेनपदानुगाः |
१४ क
सञ्जय़ उवाच:
प्रत्युद्ययुर्महाराज तव पुत्रान्महावलान् ||
१४ ख
सञ्जय़ उवाच:
दृष्ट्वा रथस्थांस्ताञ्शूरान्सूर्याग्निसमतेजसः |
१५ क
सञ्जय़ उवाच:
सर्वानेव महेष्वासान्भ्राजमानाञ्श्रिय़ा वृतान् ||
१५ ख
सञ्जय़ उवाच:
महाहवे दीप्यमानान्सुवर्णकवचोज्ज्वलान् |
१६ क
सञ्जय़ उवाच:
तत्यजुः समरे भीमं तव पुत्रा महावलाः ||
१६ ख
सञ्जय़ उवाच:
तान्नामृष्यत कौन्तेय़ो जीवमाना गता इति |
१७ क
सञ्जय़ उवाच:
अन्वीय़ च पुनः सर्वांस्तव पुत्रानपीडय़त् ||
१७ ख
सञ्जय़ उवाच:
अथाभिमन्युं समरे भीमसेनेन सङ्गतम् |
१८ क
सञ्जय़ उवाच:
पार्षतेन च सम्प्रेक्ष्य तव सैन्ये महारथाः ||
१८ ख
सञ्जय़ उवाच:
दुर्योधनप्रभृतय़ः प्रगृहीतशरासनाः |
१९ क
सञ्जय़ उवाच:
भृशमश्वैः प्रजवितैः प्रय़युर्यत्र ते रथाः ||
१९ ख
सञ्जय़ उवाच:
अपराह्णे ततो राजन्प्रावर्तत महान्रणः |
२० क
सञ्जय़ उवाच:
तावकानां च वलिनां परेषां चैव भारत ||
२० ख
सञ्जय़ उवाच:
अभिमन्युर्विकर्णस्य हय़ान्हत्वा महाजवान् |
२१ क
सञ्जय़ उवाच:
अथैनं पञ्चविंशत्या क्षुद्रकाणां समाचिनोत् ||
२१ ख
सञ्जय़ उवाच:
हताश्वं रथमुत्सृज्य विकर्णस्तु महारथः |
२२ क
सञ्जय़ उवाच:
आरुरोह रथं राजंश्चित्रसेनस्य भास्वरम् ||
२२ ख
सञ्जय़ उवाच:
स्थितावेकरथे तौ तु भ्रातरौ कुरुवर्धनौ |
२३ क
सञ्जय़ उवाच:
आर्जुनिः शरजालेन छादय़ामास भारत ||
२३ ख
सञ्जय़ उवाच:
दुर्जय़ोऽथ विकर्णश्च कार्ष्णिं पञ्चभिराय़सैः |
२४ क
सञ्जय़ उवाच:
विव्यधाते न चाकम्पत्कार्ष्णिर्मेरुरिवाचलः ||
२४ ख
सञ्जय़ उवाच:
दुःशासनस्तु समरे केकय़ान्पञ्च मारिष |
२५ क
सञ्जय़ उवाच:
योधय़ामास राजेन्द्र तदद्भुतमिवाभवत् ||
२५ ख
सञ्जय़ उवाच:
द्रौपदेय़ा रणे क्रुद्धा दुर्योधनमवारय़न् |
२६ क
सञ्जय़ उवाच:
एकैकस्त्रिभिरानर्छत्पुत्रं तव विशां पते ||
२६ ख
सञ्जय़ उवाच:
पुत्रोऽपि तव दुर्धर्षो द्रौपद्यास्तनय़ान्रणे |
२७ क
सञ्जय़ उवाच:
साय़कैर्निशितै राजन्नाजघान पृथक्पृथक् ||
२७ ख
सञ्जय़ उवाच:
तैश्चापि विद्धः शुशुभे रुधिरेण समुक्षितः |
२८ क
सञ्जय़ उवाच:
गिरिप्रस्रवणैर्यद्वद्गिरिर्धातुविमिश्रितैः ||
२८ ख
सञ्जय़ उवाच:
भीष्मोऽपि समरे राजन्पाण्डवानामनीकिनीम् |
२९ क
सञ्जय़ उवाच:
कालय़ामास वलवान्पालः पशुगणानिव ||
२९ ख
सञ्जय़ उवाच:
ततो गाण्डीवनिर्घोषः प्रादुरासीद्विशां पते |
३० क
सञ्जय़ उवाच:
दक्षिणेन वरूथिन्याः पार्थस्यारीन्विनिघ्नतः ||
३० ख
सञ्जय़ उवाच:
उत्तस्थुः समरे तत्र कवन्धानि समन्ततः |
३१ क
सञ्जय़ उवाच:
कुरूणां चापि सैन्येषु पाण्डवानां च भारत ||
३१ ख
सञ्जय़ उवाच:
शोणितोदं रथावर्तं गजद्वीपं हय़ोर्मिणम् |
३२ क
सञ्जय़ उवाच:
रथनौभिर्नरव्याघ्राः प्रतेरुः सैन्यसागरम् ||
३२ ख
सञ्जय़ उवाच:
छिन्नहस्ता विकवचा विदेहाश्च नरोत्तमाः |
३३ क
सञ्जय़ उवाच:
पतितास्तत्र दृश्यन्ते शतशोऽथ सहस्रशः ||
३३ ख
सञ्जय़ उवाच:
निहतैर्मत्तमातङ्गैः शोणितौघपरिप्लुतैः |
३४ क
सञ्जय़ उवाच:
भूर्भाति भरतश्रेष्ठ पर्वतैराचिता यथा ||
३४ ख
सञ्जय़ उवाच:
तत्राद्भुतमपश्याम तव तेषां च भारत |
३५ क
सञ्जय़ उवाच:
न तत्रासीत्पुमान्कश्चिद्यो योद्धुं नाभिकाङ्क्षति ||
३५ ख
सञ्जय़ उवाच:
एवं युय़ुधिरे वीराः प्रार्थय़ाना महद्यशः |
३६ क
सञ्जय़ उवाच:
तावकाः पाण्डवैः सार्धं काङ्क्षमाणा जय़ं युधि ||
३६ ख