chevron_left उद्योग पर्व अध्याय ७४
वैशम्पाय़न उवाच:
तथोक्तो वासुदेवेन नित्यमन्युरमर्षणः |
१ क
वैशम्पाय़न उवाच:
सदश्ववत्समाधावद्वभाषे तदनन्तरम् ||
१ ख
वैशम्पाय़न उवाच:
अन्यथा मां चिकीर्षन्तमन्यथा मन्यसेऽच्युत |
२ क
वैशम्पाय़न उवाच:
प्रणीतभावमत्यन्तं युधि सत्यपराक्रमम् ||
२ ख
वैशम्पाय़न उवाच:
वेत्थ दाशार्ह सत्त्वं मे दीर्घकालं सहोषितः |
३ क
वैशम्पाय़न उवाच:
उत वा मां न जानासि प्लवन्ह्रद इवाल्पवः |
३ ख
वैशम्पाय़न उवाच:
तस्मादप्रतिरूपाभिर्वाग्भिर्मां त्वं समर्छसि ||
३ ग
वैशम्पाय़न उवाच:
कथं हि भीमसेनं मां जानन्कश्चन माधव |
४ क
वैशम्पाय़न उवाच:
व्रूय़ादप्रतिरूपाणि यथा मां वक्तुमर्हसि ||
४ ख
वैशम्पाय़न उवाच:
तस्मादिदं प्रवक्ष्यामि वचनं वृष्णिनन्दन |
५ क
वैशम्पाय़न उवाच:
आत्मनः पौरुषं चैव वलं च न समं परैः ||
५ ख
वैशम्पाय़न उवाच:
सर्वथा नार्यकर्मैतत्प्रशंसा स्वय़मात्मनः |
६ क
वैशम्पाय़न उवाच:
अतिवादापविद्धस्तु वक्ष्यामि वलमात्मनः ||
६ ख
वैशम्पाय़न उवाच:
पश्येमे रोदसी कृष्ण यय़ोरासन्निमाः प्रजाः |
७ क
वैशम्पाय़न उवाच:
अचले चाप्यनन्ते च प्रतिष्ठे सर्वमातरौ ||
७ ख
वैशम्पाय़न उवाच:
यदीमे सहसा क्रुद्धे समेय़ातां शिले इव |
८ क
वैशम्पाय़न उवाच:
अहमेते निगृह्णीय़ां वाहुभ्यां सचराचरे ||
८ ख
वैशम्पाय़न उवाच:
पश्यैतदन्तरं वाह्वोर्महापरिघय़ोरिव |
९ क
वैशम्पाय़न उवाच:
य एतत्प्राप्य मुच्येत न तं पश्यामि पूरुषम् ||
९ ख
वैशम्पाय़न उवाच:
हिमवांश्च समुद्रश्च वज्री च वलभित्स्वय़म् |
१० क
वैशम्पाय़न उवाच:
मय़ाभिपन्नं त्राय़ेरन्वलमास्थाय़ न त्रय़ः ||
१० ख
वैशम्पाय़न उवाच:
युध्येय़ं क्षत्रिय़ान्सर्वान्पाण्डवेष्वातताय़िनः |
११ क
वैशम्पाय़न उवाच:
अधः पादतलेनैतानधिष्ठास्यामि भूतले ||
११ ख
वैशम्पाय़न उवाच:
न हि त्वं नाभिजानासि मम विक्रममच्युत |
१२ क
वैशम्पाय़न उवाच:
यथा मय़ा विनिर्जित्य राजानो वशगाः कृताः ||
१२ ख
वैशम्पाय़न उवाच:
अथ चेन्मां न जानासि सूर्यस्येवोद्यतः प्रभाम् |
१३ क
वैशम्पाय़न उवाच:
विगाढे युधि सम्वाधे वेत्स्यसे मां जनार्दन ||
१३ ख
वैशम्पाय़न उवाच:
किं मात्यवाक्षीः परुषैर्व्रणं सूच्या इवानघ |
१४ क
वैशम्पाय़न उवाच:
यथामति व्रवीम्येतद्विद्धि मामधिकं ततः ||
१४ ख
वैशम्पाय़न उवाच:
द्रष्टासि युधि सम्वाधे प्रवृत्ते वैशसेऽहनि |
१५ क
वैशम्पाय़न उवाच:
मय़ा प्रणुन्नान्मातङ्गान्रथिनः सादिनस्तथा ||
१५ ख
वैशम्पाय़न उवाच:
तथा नरानभिक्रुद्धं निघ्नन्तं क्षत्रिय़र्षभान् |
१६ क
वैशम्पाय़न उवाच:
द्रष्टा मां त्वं च लोकश्च विकर्षन्तं वरान्वरान् ||
१६ ख
वैशम्पाय़न उवाच:
न मे सीदन्ति मज्जानो न ममोद्वेपते मनः |
१७ क
वैशम्पाय़न उवाच:
सर्वलोकादभिक्रुद्धान्न भय़ं विद्यते मम ||
१७ ख
वैशम्पाय़न उवाच:
किं तु सौहृदमेवैतत्कृपय़ा मधुसूदन |
१८ क
वैशम्पाय़न उवाच:
सर्वांस्तितिक्षे सङ्क्लेशान्मा स्म नो भरता नशन् ||
१८ ख