chevron_left उद्योग पर्व अध्याय ७३
वैशम्पाय़न उवाच:
एतच्छ्रुत्वा महावाहुः केशवः प्रहसन्निव |
१ क
वैशम्पाय़न उवाच:
अभूतपूर्वं भीमस्य मार्दवोपगतं वचः ||
१ ख
वैशम्पाय़न उवाच:
गिरेरिव लघुत्वं तच्छीतत्वमिव पावके |
२ क
वैशम्पाय़न उवाच:
मत्वा रामानुजः शौरिः शार्ङ्गधन्वा वृकोदरम् ||
२ ख
वैशम्पाय़न उवाच:
सन्तेजय़ंस्तदा वाग्भिर्मातरिश्वेव पावकम् |
३ क
वैशम्पाय़न उवाच:
उवाच भीममासीनं कृपय़ाभिपरिप्लुतम् ||
३ ख
वैशम्पाय़न उवाच:
त्वमन्यदा भीमसेन युद्धमेव प्रशंससि |
४ क
वैशम्पाय़न उवाच:
वधाभिनन्दिनः क्रूरान्धार्तराष्ट्रान्मिमर्दिषुः ||
४ ख
वैशम्पाय़न उवाच:
न च स्वपिषि जागर्षि न्युव्जः शेषे परन्तप |
५ क
वैशम्पाय़न उवाच:
घोरामशान्तां रुशतीं सदा वाचं प्रभाषसे ||
५ ख
वैशम्पाय़न उवाच:
निःश्वसन्नग्निवर्णेन सन्तप्तः स्वेन मन्युना |
६ क
वैशम्पाय़न उवाच:
अप्रशान्तमना भीम सधूम इव पावकः ||
६ ख
वैशम्पाय़न उवाच:
एकान्ते निष्टनञ्शेषे भारार्त इव दुर्वलः |
७ क
वैशम्पाय़न उवाच:
अपि त्वां केचिदुन्मत्तं मन्यन्तेऽतद्विदो जनाः ||
७ ख
वैशम्पाय़न उवाच:
आरुज्य वृक्षान्निर्मूलान्गजः परिभुजन्निव |
८ क
वैशम्पाय़न उवाच:
निघ्नन्पद्भिः क्षितिं भीम निष्टनन्परिधावसि ||
८ ख
वैशम्पाय़न उवाच:
नास्मिञ्जनेऽभिरमसे रहः क्षिय़सि पाण्डव |
९ क
वैशम्पाय़न उवाच:
नान्यं निशि दिवा वापि कदाचिदभिनन्दसि ||
९ ख
वैशम्पाय़न उवाच:
अकस्मात्स्मय़मानश्च रहस्यास्से रुदन्निव |
१० क
वैशम्पाय़न उवाच:
जान्वोर्मूर्धानमाधाय़ चिरमास्से प्रमीलितः ||
१० ख
वैशम्पाय़न उवाच:
भ्रुकुटिं च पुनः कुर्वन्नोष्ठौ च विलिहन्निव |
११ क
वैशम्पाय़न उवाच:
अभीक्ष्णं दृश्यसे भीम सर्वं तन्मन्युकारितम् ||
११ ख
वैशम्पाय़न उवाच:
यथा पुरस्तात्सविता दृश्यते शुक्रमुच्चरन् |
१२ क
वैशम्पाय़न उवाच:
यथा च पश्चान्निर्मुक्तो ध्रुवं पर्येति रश्मिवान् ||
१२ ख
वैशम्पाय़न उवाच:
तथा सत्यं व्रवीम्येतन्नास्ति तस्य व्यतिक्रमः |
१३ क
वैशम्पाय़न उवाच:
हन्ताहं गदय़ाभ्येत्य दुर्योधनममर्षणम् ||
१३ ख
वैशम्पाय़न उवाच:
इति स्म मध्ये भ्रातॄणां सत्येनालभसे गदाम् |
१४ क
वैशम्पाय़न उवाच:
तस्य ते प्रशमे वुद्धिर्धीय़तेऽद्य परन्तप ||
१४ ख
वैशम्पाय़न उवाच:
अहो युद्धप्रतीपानि युद्धकाल उपस्थिते |
१५ क
वैशम्पाय़न उवाच:
पश्यसीवाप्रतीपानि किं त्वां भीर्भीम विन्दति ||
१५ ख
वैशम्पाय़न उवाच:
अहो पार्थ निमित्तानि विपरीतानि पश्यसि |
१६ क
वैशम्पाय़न उवाच:
स्वप्नान्ते जागरान्ते च तस्मात्प्रशममिच्छसि ||
१६ ख
वैशम्पाय़न उवाच:
अहो नाशंससे किञ्चित्पुंस्त्वं क्लीव इवात्मनि |
१७ क
वैशम्पाय़न उवाच:
कश्मलेनाभिपन्नोऽसि तेन ते विकृतं मनः ||
१७ ख
वैशम्पाय़न उवाच:
उद्वेपते ते हृदय़ं मनस्ते प्रविषीदति |
१८ क
वैशम्पाय़न उवाच:
ऊरुस्तम्भगृहीतोऽसि तस्मात्प्रशममिच्छसि ||
१८ ख
वैशम्पाय़न उवाच:
अनित्यं किल मर्त्यस्य चित्तं पार्थ चलाचलम् |
१९ क
वैशम्पाय़न उवाच:
वातवेगप्रचलिता अष्ठीला शाल्मलेरिव ||
१९ ख
वैशम्पाय़न उवाच:
तवैषा विकृता वुद्धिर्गवां वागिव मानुषी |
२० क
वैशम्पाय़न उवाच:
मनांसि पाण्डुपुत्राणां मज्जय़त्यप्लवानिव ||
२० ख
वैशम्पाय़न उवाच:
इदं मे महदाश्चर्यं पर्वतस्येव सर्पणम् |
२१ क
वैशम्पाय़न उवाच:
यदीदृशं प्रभाषेथा भीमसेनासमं वचः ||
२१ ख
वैशम्पाय़न उवाच:
स दृष्ट्वा स्वानि कर्माणि कुले जन्म च भारत |
२२ क
वैशम्पाय़न उवाच:
उत्तिष्ठस्व विषादं मा कृथा वीर स्थिरो भव ||
२२ ख
वैशम्पाय़न उवाच:
न चैतदनुरूपं ते यत्ते ग्लानिररिन्दम |
२३ क
वैशम्पाय़न उवाच:
यदोजसा न लभते क्षत्रिय़ो न तदश्नुते ||
२३ ख