भीष्म उवाच:
य एव तु सतो रक्षेदसतश्च निवर्हय़ेत् |
१ क
भीष्म उवाच:
स एव राज्ञा कर्तव्यो राजन्राजपुरोहितः ||
१ ख
भीष्म उवाच:
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
२ क
भीष्म उवाच:
पुरूरवस ऐलस्य संवादं मातरिश्वनः ||
२ ख
ऐल उवाच:
कुतः स्विद्व्राह्मणो जातो वर्णाश्चापि कुतस्त्रय़ः |
३ क
ऐल उवाच:
कस्माच्च भवति श्रेय़ानेतद्वाय़ो विचक्ष्व मे ||
३ ख
वाय़ुरु उवाच:
व्रह्मणो मुखतः सृष्टो व्राह्मणो राजसत्तम |
४ क
वाय़ुरु उवाच:
वाहुभ्यां क्षत्रिय़ः सृष्ट ऊरुभ्यां वैश्य उच्यते ||
४ ख
वाय़ुरु उवाच:
वर्णानां परिचर्यार्थं त्रय़ाणां पुरुषर्षभ |
५ क
वाय़ुरु उवाच:
वर्णश्चतुर्थः पश्चात्तु पद्भ्यां शूद्रो विनिर्मितः ||
५ ख
वाय़ुरु उवाच:
व्राह्मणो जातमात्रस्तु पृथिवीमन्वजाय़त |
६ क
वाय़ुरु उवाच:
ईश्वरः सर्वभूतानां धर्मकोशस्य गुप्तय़े ||
६ ख
वाय़ुरु उवाच:
ततः पृथिव्या गोप्तारं क्षत्रिय़ं दण्डधारिणम् |
७ क
वाय़ुरु उवाच:
द्वितीय़ं वर्णमकरोत्प्रजानामनुगुप्तय़े ||
७ ख
वाय़ुरु उवाच:
वैश्यस्तु धनधान्येन त्रीन्वर्णान्विभृय़ादिमान् |
८ क
वाय़ुरु उवाच:
शूद्रो ह्येनान्परिचरेदिति व्रह्मानुशासनम् ||
८ ख
ऐल उवाच:
द्विजस्य क्षत्रवन्धोर्वा कस्येय़ं पृथिवी भवेत् |
९ क
ऐल उवाच:
धर्मतः सह वित्तेन सम्यग्वाय़ो प्रचक्ष्व मे ||
९ ख
वाय़ुरु उवाच:
विप्रस्य सर्वमेवैतद्यत्किञ्चिज्जगतीगतम् |
१० क
वाय़ुरु उवाच:
ज्येष्ठेनाभिजनेनेह तद्धर्मकुशला विदुः ||
१० ख
वाय़ुरु उवाच:
स्वमेव व्राह्मणो भुङ्क्ते स्वं वस्ते स्वं ददाति च |
११ क
वाय़ुरु उवाच:
गुरुर्हि सर्ववर्णानां ज्येष्ठः श्रेष्ठश्च वै द्विजः ||
११ ख
वाय़ुरु उवाच:
पत्यभावे यथा स्त्री हि देवरं कुरुते पतिम् |
१२ क
वाय़ुरु उवाच:
आनन्तर्यात्तथा क्षत्रं पृथिवी कुरुते पतिम् ||
१२ ख
वाय़ुरु उवाच:
एष ते प्रथमः कल्प आपद्यन्यो भवेदतः |
१३ क
वाय़ुरु उवाच:
यदि स्वर्गे परं स्थानं धर्मतः परिमार्गसि ||
१३ ख
वाय़ुरु उवाच:
यः कश्चिद्विजय़ेद्भूमिं व्राह्मणाय़ निवेदय़ेत् |
१४ क
वाय़ुरु उवाच:
श्रुतवृत्तोपपन्नाय़ धर्मज्ञाय़ तपस्विने ||
१४ ख
वाय़ुरु उवाच:
स्वधर्मपरितृप्ताय़ यो न वित्तपरो भवेत् |
१५ क
वाय़ुरु उवाच:
यो राजानं नय़ेद्वुद्ध्या सर्वतः परिपूर्णय़ा ||
१५ ख
वाय़ुरु उवाच:
व्राह्मणो हि कुले जातः कृतप्रज्ञो विनीतवाक् |
१६ क
वाय़ुरु उवाच:
श्रेय़ो नय़ति राजानं व्रुवंश्चित्रां सरस्वतीम् ||
१६ ख
वाय़ुरु उवाच:
राजा चरति यं धर्मं व्राह्मणेन निदर्शितम् |
१७ क
वाय़ुरु उवाच:
शुश्रूषुरनहंवादी क्षत्रधर्मव्रते स्थितः ||
१७ ख
वाय़ुरु उवाच:
तावता स कृतप्रज्ञश्चिरं यशसि तिष्ठति |
१८ क
वाय़ुरु उवाच:
तस्य धर्मस्य सर्वस्य भागी राजपुरोहितः ||
१८ ख
वाय़ुरु उवाच:
एवमेव प्रजाः सर्वा राजानमभिसंश्रिताः |
१९ क
वाय़ुरु उवाच:
सम्यग्वृत्ताः स्वधर्मस्था न कुतश्चिद्भय़ान्विताः ||
१९ ख
वाय़ुरु उवाच:
राष्ट्रे चरन्ति यं धर्मं राज्ञा साध्वभिरक्षिताः |
२० क
वाय़ुरु उवाच:
चतुर्थं तस्य धर्मस्य राजा भागं स विन्दति ||
२० ख
वाय़ुरु उवाच:
देवा मनुष्याः पितरो गन्धर्वोरगराक्षसाः |
२१ क
वाय़ुरु उवाच:
यज्ञमेवोपजीवन्ति नास्ति चेष्टमराजके ||
२१ ख
वाय़ुरु उवाच:
इतो दत्तेन जीवन्ति देवताः पितरस्तथा |
२२ क
वाय़ुरु उवाच:
राजन्येवास्य धर्मस्य योगक्षेमः प्रतिष्ठितः ||
२२ ख
वाय़ुरु उवाच:
छाय़ाय़ामप्सु वाय़ौ च सुखमुष्णेऽधिगच्छति |
२३ क
वाय़ुरु उवाच:
अग्नौ वाससि सूर्ये च सुखं शीतेऽधिगच्छति ||
२३ ख
वाय़ुरु उवाच:
शव्दे स्पर्शे रसे रूपे गन्धे च रमते मनः |
२४ क
वाय़ुरु उवाच:
तेषु भोगेषु सर्वेषु नभीतो लभते सुखम् ||
२४ ख
वाय़ुरु उवाच:
अभय़स्यैव यो दाता तस्यैव सुमहत्फलम् |
२५ क
वाय़ुरु उवाच:
न हि प्राणसमं दानं त्रिषु लोकेषु विद्यते ||
२५ ख
वाय़ुरु उवाच:
इन्द्रो राजा यमो राजा धर्मो राजा तथैव च |
२६ क
वाय़ुरु उवाच:
राजा विभर्ति रूपाणि राज्ञा सर्वमिदं धृतम् ||
२६ ख