सञ्जय़ उवाच:
तथा तस्मिन्प्रवृत्ते तु सङ्ग्रामे लोमहर्षणे |
१ क
सञ्जय़ उवाच:
कौरवेय़ांस्त्रिधाभूतान्पाण्डवाः समुपाद्रवन् ||
१ ख
सञ्जय़ उवाच:
जलसन्धं महावाहुर्भीमसेनो न्यवारय़त् |
२ क
सञ्जय़ उवाच:
युधिष्ठिरः सहानीकः कृतवर्माणमाहवे ||
२ ख
सञ्जय़ उवाच:
किरन्तं शरवर्षाणि रोचमान इवांशुमान् |
३ क
सञ्जय़ उवाच:
धृष्टद्युम्नो महाराज द्रोणमभ्यद्रवद्रणे ||
३ ख
सञ्जय़ उवाच:
ततः प्रववृते युद्धं त्वरतां सर्वधन्विनाम् |
४ क
सञ्जय़ उवाच:
कुरूणां सोमकानां च सङ्क्रुद्धानां परस्परम् ||
४ ख
सञ्जय़ उवाच:
सङ्क्षय़े तु तथा भूते वर्तमाने महाभय़े |
५ क
सञ्जय़ उवाच:
द्वन्द्वीभूतेषु सैन्येषु युध्यमानेष्वभीतवत् ||
५ ख
सञ्जय़ उवाच:
द्रोणः पाञ्चालपुत्रेण वली वलवता सह |
६ क
सञ्जय़ उवाच:
विचिक्षेप पृषत्कौघांस्तदद्भुतमिवाभवत् ||
६ ख
सञ्जय़ उवाच:
पुण्डरीकवनानीव विध्वस्तानि समन्ततः |
७ क
सञ्जय़ उवाच:
चक्राते द्रोणपाञ्चाल्यौ नृणां शीर्षाण्यनेकशः ||
७ ख
सञ्जय़ उवाच:
विनिकीर्णानि वीराणामनीकेषु समन्ततः |
८ क
सञ्जय़ उवाच:
वस्त्राभरणशस्त्राणि ध्वजवर्माय़ुधानि च ||
८ ख
सञ्जय़ उवाच:
तपनीय़विचित्राङ्गाः संसिक्ता रुधिरेण च |
९ क
सञ्जय़ उवाच:
संसक्ता इव दृश्यन्ते मेघसङ्घाः सविद्युतः ||
९ ख
सञ्जय़ उवाच:
कुञ्जराश्वनरान्सङ्ख्ये पातय़न्तः पतत्रिभिः |
१० क
सञ्जय़ उवाच:
तालमात्राणि चापानि विकर्षन्तो महारथाः ||
१० ख
सञ्जय़ उवाच:
असिचर्माणि चापानि शिरांसि कवचानि च |
११ क
सञ्जय़ उवाच:
विप्रकीर्यन्त शूराणां सम्प्रहारे महात्मनाम् ||
११ ख
सञ्जय़ उवाच:
उत्थितान्यगणेय़ानि कवन्धानि समन्ततः |
१२ क
सञ्जय़ उवाच:
अदृश्यन्त महाराज तस्मिन्परमसङ्कुले ||
१२ ख
सञ्जय़ उवाच:
गृध्राः कङ्का वडाः श्येना वाय़सा जम्वुकास्तथा |
१३ क
सञ्जय़ उवाच:
वहवः पिशिताशाश्च तत्रादृश्यन्त मारिष ||
१३ ख
सञ्जय़ उवाच:
भक्षय़न्तः स्म मांसानि पिवन्तश्चापि शोणितम् |
१४ क
सञ्जय़ उवाच:
विलुम्पन्तः स्म केशांश्च मज्जाश्च वहुधा नृप ||
१४ ख
सञ्जय़ उवाच:
आकर्षन्तः शरीराणि शरीरावय़वांस्तथा |
१५ क
सञ्जय़ उवाच:
नराश्वगजसङ्घानां शिरांसि च ततस्ततः ||
१५ ख
सञ्जय़ उवाच:
कृतास्त्रा रणदीक्षाभिर्दीक्षिताः शरधारिणः |
१६ क
सञ्जय़ उवाच:
रणे जय़ं प्रार्थय़न्तो भृशं युय़ुधिरे तदा ||
१६ ख
सञ्जय़ उवाच:
असिमार्गान्वहुविधान्विचेरुस्तावका रणे |
१७ क
सञ्जय़ उवाच:
ऋष्टिभिः शक्तिभिः प्रासैः शूलतोमरपट्टिशैः ||
१७ ख
सञ्जय़ उवाच:
गदाभिः परिघैश्चान्ये व्याय़ुधाश्च भुजैरपि |
१८ क
सञ्जय़ उवाच:
अन्योन्यं जघ्निरे क्रुद्धा युद्धरङ्गगता नराः ||
१८ ख
सञ्जय़ उवाच:
रथिनो रथिभिः सार्धमश्वारोहाश्च सादिभिः |
१९ क
सञ्जय़ उवाच:
मातङ्गा वरमातङ्गैः पदाताश्च पदातिभिः ||
१९ ख
सञ्जय़ उवाच:
क्षीवा इवान्ये चोन्मत्ता रङ्गेष्विव च चारणाः |
२० क
सञ्जय़ उवाच:
उच्चुक्रुशुस्तथान्योन्यं जघ्नुरन्योन्यमाहवे ||
२० ख
सञ्जय़ उवाच:
वर्तमाने तथा युद्धे निर्मर्यादे विशां पते |
२१ क
सञ्जय़ उवाच:
धृष्टद्युम्नो हय़ानश्वैर्द्रोणस्य व्यत्यमिश्रय़त् ||
२१ ख
सञ्जय़ उवाच:
ते हय़ा साध्वशोभन्त विमिश्रा वातरंहसः |
२२ क
सञ्जय़ उवाच:
पारावतसवर्णाश्च रक्तशोणाश्च संय़ुगे |
२२ ख
सञ्जय़ उवाच:
हय़ाः शुशुभिरे राजन्मेघा इव सविद्युतः ||
२२ ग
सञ्जय़ उवाच:
धृष्टद्युम्नश्च सम्प्रेक्ष्य द्रोणमभ्याशमागतम् |
२३ क
सञ्जय़ उवाच:
असिचर्माददे वीरो धनुरुत्सृज्य भारत ||
२३ ख
सञ्जय़ उवाच:
चिकीर्षुर्दुष्करं कर्म पार्षतः परवीरहा |
२४ क
सञ्जय़ उवाच:
ईषय़ा समतिक्रम्य द्रोणस्य रथमाविशत् ||
२४ ख
सञ्जय़ उवाच:
अतिष्ठद्युगमध्ये स युगसंनहनेषु च |
२५ क
सञ्जय़ उवाच:
जघानार्धेषु चाश्वानां तत्सैन्यान्यभ्यपूजय़न् ||
२५ ख
सञ्जय़ उवाच:
खड्गेन चरतस्तस्य शोणाश्वानधितिष्ठतः |
२६ क
सञ्जय़ उवाच:
न ददर्शान्तरं द्रोणस्तदद्भुतमिवाभवत् ||
२६ ख
सञ्जय़ उवाच:
यथा श्येनस्य पतनं वनेष्वामिषगृद्धिनः |
२७ क
सञ्जय़ उवाच:
तथैवासीदभीसारस्तस्य द्रोणं जिघांसतः ||
२७ ख
सञ्जय़ उवाच:
ततः शरशतेनास्य शतचन्द्रं समाक्षिपत् |
२८ क
सञ्जय़ उवाच:
द्रोणो द्रुपदपुत्रस्य खड्गं च दशभिः शरैः ||
२८ ख
सञ्जय़ उवाच:
हय़ांश्चैव चतुःषष्ट्या शराणां जघ्निवान्वली |
२९ क
सञ्जय़ उवाच:
ध्वजं छत्रं च भल्लाभ्यां तथोभौ पार्ष्णिसारथी ||
२९ ख
सञ्जय़ उवाच:
अथास्मै त्वरितो वाणमपरं जीवितान्तकम् |
३० क
सञ्जय़ उवाच:
आकर्णपूर्णं चिक्षेप वज्रं वज्रधरो यथा ||
३० ख
सञ्जय़ उवाच:
तं चतुर्दशभिर्वाणैर्वाणं चिच्छेद सात्यकिः |
३१ क
सञ्जय़ उवाच:
ग्रस्तमाचार्यमुख्येन धृष्टद्युम्नममोचय़त् ||
३१ ख
सञ्जय़ उवाच:
सिंहेनेव मृगं ग्रस्तं नरसिंहेन मारिष |
३२ क
सञ्जय़ उवाच:
द्रोणेन मोचय़ामास पाञ्चाल्यं शिनिपुङ्गवः ||
३२ ख
सञ्जय़ उवाच:
सात्यकिं प्रेक्ष्य गोप्तारं पाञ्चाल्यस्य महाहवे |
३३ क
सञ्जय़ उवाच:
शराणां त्वरितो द्रोणः षड्विंशत्या समर्पय़त् ||
३३ ख
सञ्जय़ उवाच:
ततो द्रोणं शिनेः पौत्रो ग्रसन्तमिव सृञ्जय़ान् |
३४ क
सञ्जय़ उवाच:
प्रत्यविध्यच्छितैर्वाणैः षड्विंशत्या स्तनान्तरे ||
३४ ख
सञ्जय़ उवाच:
ततः सर्वे रथास्तूर्णं पाञ्चाला जय़गृद्धिनः |
३५ क
सञ्जय़ उवाच:
सात्वताभिसृते द्रोणे धृष्टद्युम्नममोचय़न् ||
३५ ख