सञ्जय़ उवाच:
विहृत्य च ततो राजन्सहिताः कुरुपाण्डवाः |
१ क
सञ्जय़ उवाच:
व्यतीताय़ां तु शर्वर्यां पुनर्युद्धाय़ निर्ययुः ||
१ ख
सञ्जय़ उवाच:
तत्र शव्दो महानासीत्तव तेषां च भारत |
२ क
सञ्जय़ उवाच:
युज्यतां रथमुख्यानां कल्प्यतां चैव दन्तिनाम् ||
२ ख
सञ्जय़ उवाच:
संनह्यतां पदातीनां हय़ानां चैव भारत |
३ क
सञ्जय़ उवाच:
शङ्खदुन्दुभिनादश्च तुमुलः सर्वतोऽभवत् ||
३ ख
सञ्जय़ उवाच:
ततो युधिष्ठिरो राजा धृष्टद्युम्नमभाषत |
४ क
सञ्जय़ उवाच:
व्यूहं व्यूह महावाहो मकरं शत्रुतापनम् ||
४ ख
सञ्जय़ उवाच:
एवमुक्तस्तु पार्थेन धृष्टद्युम्नो महारथः |
५ क
सञ्जय़ उवाच:
व्यादिदेश महाराज रथिनो रथिनां वरः ||
५ ख
सञ्जय़ उवाच:
शिरोऽभूद्द्रुपदस्तस्य पाण्डवश्च धनञ्जय़ः |
६ क
सञ्जय़ उवाच:
चक्षुषी सहदेवश्च नकुलश्च महारथः |
६ ख
सञ्जय़ उवाच:
तुण्डमासीन्महाराज भीमसेनो महावलः ||
६ ग
सञ्जय़ उवाच:
सौभद्रो द्रौपदेय़ाश्च राक्षसश्च घटोत्कचः |
७ क
सञ्जय़ उवाच:
सात्यकिर्धर्मराजश्च व्यूहग्रीवां समास्थिताः ||
७ ख
सञ्जय़ उवाच:
पृष्ठमासीन्महाराज विराटो वाहिनीपतिः |
८ क
सञ्जय़ उवाच:
धृष्टद्युम्नेन सहितो महत्या सेनय़ा वृतः ||
८ ख
सञ्जय़ उवाच:
केकय़ा भ्रातरः पञ्च वामं पार्श्वं समाश्रिताः |
९ क
सञ्जय़ उवाच:
धृष्टकेतुर्नरव्याघ्रः करकर्षश्च वीर्यवान् |
९ ख
सञ्जय़ उवाच:
दक्षिणं पक्षमाश्रित्य स्थिता व्यूहस्य रक्षणे ||
९ ग
सञ्जय़ उवाच:
पादय़ोस्तु महाराज स्थितः श्रीमान्महारथः |
१० क
सञ्जय़ उवाच:
कुन्तिभोजः शतानीको महत्या सेनय़ा वृतः ||
१० ख
सञ्जय़ उवाच:
शिखण्डी तु महेष्वासः सोमकैः संवृतो वली |
११ क
सञ्जय़ उवाच:
इरावांश्च ततः पुच्छे मकरस्य व्यवस्थितौ ||
११ ख
सञ्जय़ उवाच:
एवमेतन्महाव्यूहं व्यूह्य भारत पाण्डवाः |
१२ क
सञ्जय़ उवाच:
सूर्योदय़े महाराज पुनर्युद्धाय़ दंशिताः ||
१२ ख
सञ्जय़ उवाच:
कौरवानभ्ययुस्तूर्णं हस्त्यश्वरथपत्तिभिः |
१३ क
सञ्जय़ उवाच:
समुच्छ्रितैर्ध्वजैश्चित्रैः शस्त्रैश्च विमलैः शितैः ||
१३ ख
सञ्जय़ उवाच:
व्यूहं दृष्ट्वा तु तत्सैन्यं पिता देवव्रतस्तव |
१४ क
सञ्जय़ उवाच:
क्रौञ्चेन महता राजन्प्रत्यव्यूहत वाहिनीम् ||
१४ ख
सञ्जय़ उवाच:
तस्य तुण्डे महेष्वासो भारद्वाजो व्यरोचत |
१५ क
सञ्जय़ उवाच:
अश्वत्थामा कृपश्चैव चक्षुरास्तां नरेश्वर ||
१५ ख
सञ्जय़ उवाच:
कृतवर्मा तु सहितः काम्वोजारट्टवाह्लिकैः |
१६ क
सञ्जय़ उवाच:
शिरस्यासीन्नरश्रेष्ठः श्रेष्ठः सर्वधनुष्मताम् ||
१६ ख
सञ्जय़ उवाच:
ग्रीवाय़ां शूरसेनस्तु तव पुत्रश्च मारिष |
१७ क
सञ्जय़ उवाच:
दुर्योधनो महाराज राजभिर्वहुभिर्वृतः ||
१७ ख
सञ्जय़ उवाच:
प्राग्ज्योतिषस्तु सहितः मद्रसौवीरकेकय़ैः |
१८ क
सञ्जय़ उवाच:
उरस्यभून्नरश्रेष्ठ महत्या सेनय़ा वृतः ||
१८ ख
सञ्जय़ उवाच:
स्वसेनय़ा च सहितः सुशर्मा प्रस्थलाधिपः |
१९ क
सञ्जय़ उवाच:
वामं पक्षं समाश्रित्य दंशितः समवस्थितः ||
१९ ख
सञ्जय़ उवाच:
तुषारा यवनाश्चैव शकाश्च सह चूचुपैः |
२० क
सञ्जय़ उवाच:
दक्षिणं पक्षमाश्रित्य स्थिता व्यूहस्य भारत ||
२० ख
सञ्जय़ उवाच:
श्रुताय़ुश्च शताय़ुश्च सौमदत्तिश्च मारिष |
२१ क
सञ्जय़ उवाच:
व्यूहस्य जघने तस्थू रक्षमाणाः परस्परम् ||
२१ ख
सञ्जय़ उवाच:
ततो युद्धाय़ सञ्जग्मुः पाण्डवाः कौरवैः सह |
२२ क
सञ्जय़ उवाच:
सूर्योदय़े महाराज ततो युद्धमभून्महत् ||
२२ ख
सञ्जय़ उवाच:
प्रतीय़ू रथिनो नागान्नागाश्च रथिनो यय़ुः |
२३ क
सञ्जय़ उवाच:
हय़ारोहा हय़ारोहान्रथिनश्चापि सादिनः ||
२३ ख
सञ्जय़ उवाच:
सारथिं च रथी राजन्कुञ्जरांश्च महारणे |
२४ क
सञ्जय़ उवाच:
हस्त्यारोहा रथारोहान्रथिनश्चापि सादिनः ||
२४ ख
सञ्जय़ उवाच:
रथिनः पत्तिभिः सार्धं सादिनश्चापि पत्तिभिः |
२५ क
सञ्जय़ उवाच:
अन्योन्यं समरे राजन्प्रत्यधावन्नमर्षिताः ||
२५ ख
सञ्जय़ उवाच:
भीमसेनार्जुनय़मैर्गुप्ता चान्यैर्महारथैः |
२६ क
सञ्जय़ उवाच:
शुशुभे पाण्डवी सेना नक्षत्रैरिव शर्वरी ||
२६ ख
सञ्जय़ उवाच:
तथा भीष्मकृपद्रोणशल्यदुर्योधनादिभिः |
२७ क
सञ्जय़ उवाच:
तवापि विवभौ सेना ग्रहैर्द्यौरिव संवृता ||
२७ ख
सञ्जय़ उवाच:
भीमसेनस्तु कौन्तेय़ो द्रोणं दृष्ट्वा पराक्रमी |
२८ क
सञ्जय़ उवाच:
अभ्ययाज्जवनैरश्वैर्भारद्वाजस्य वाहिनीम् ||
२८ ख
सञ्जय़ उवाच:
द्रोणस्तु समरे क्रुद्धो भीमं नवभिराय़सैः |
२९ क
सञ्जय़ उवाच:
विव्याध समरे राजन्मर्माण्युद्दिश्य वीर्यवान् ||
२९ ख
सञ्जय़ उवाच:
दृढाहतस्ततो भीमो भारद्वाजस्य संय़ुगे |
३० क
सञ्जय़ उवाच:
सारथिं प्रेषय़ामास यमस्य सदनं प्रति ||
३० ख
सञ्जय़ उवाच:
स सङ्गृह्य स्वय़ं वाहान्भारद्वाजः प्रतापवान् |
३१ क
सञ्जय़ उवाच:
व्यधमत्पाण्डवीं सेनां तूलराशिमिवानलः ||
३१ ख
सञ्जय़ उवाच:
ते वध्यमाना द्रोणेन भीष्मेण च नरोत्तम |
३२ क
सञ्जय़ उवाच:
सृञ्जय़ाः केकय़ैः सार्धं पलाय़नपराभवन् ||
३२ ख
सञ्जय़ उवाच:
तथैव तावकं सैन्यं भीमार्जुनपरिक्षतम् |
३३ क
सञ्जय़ उवाच:
मुह्यते तत्र तत्रैव समदेव वराङ्गना ||
३३ ख
सञ्जय़ उवाच:
अभिद्येतां ततो व्यूहौ तस्मिन्वीरवरक्षय़े |
३४ क
सञ्जय़ उवाच:
आसीद्व्यतिकरो घोरस्तव तेषां च भारत ||
३४ ख
सञ्जय़ उवाच:
तदद्भुतमपश्याम तावकानां परैः सह |
३५ क
सञ्जय़ उवाच:
एकाय़नगताः सर्वे यदय़ुध्यन्त भारत ||
३५ ख
सञ्जय़ उवाच:
प्रतिसंवार्य चास्त्राणि तेऽन्योन्यस्य विशां पते |
३६ क
सञ्जय़ उवाच:
युय़ुधुः पाण्डवाश्चैव कौरवाश्च महारथाः ||
३६ ख