धृतराष्ट्र उवाच:
भूय़ो मे पुण्डरीकाक्षं सञ्जय़ाचक्ष्व पृच्छते |
१ क
धृतराष्ट्र उवाच:
नामकर्मार्थवित्तात प्राप्नुय़ां पुरुषोत्तमम् ||
१ ख
सञ्जय़ उवाच:
श्रुतं मे तस्य देवस्य नामनिर्वचनं शुभम् |
२ क
सञ्जय़ उवाच:
यावत्तत्राभिजानेऽहमप्रमेय़ो हि केशवः ||
२ ख
सञ्जय़ उवाच:
वसनात्सर्वभूतानां वसुत्वाद्देवय़ोनितः |
३ क
सञ्जय़ उवाच:
वासुदेवस्ततो वेद्यो वृषत्वाद्वृष्णिरुच्यते ||
३ ख
सञ्जय़ उवाच:
मौनाद्ध्यानाच्च योगाच्च विद्धि भारत माधवम् |
४ क
सञ्जय़ उवाच:
सर्वतत्त्वलय़ाच्चैव मधुहा मधुसूदनः ||
४ ख
सञ्जय़ उवाच:
कृषिर्भूवाचकः शव्दो णश्च निर्वृतिवाचकः |
५ क
सञ्जय़ उवाच:
कृष्णस्तद्भावय़ोगाच्च कृष्णो भवति शाश्वतः ||
५ ख
सञ्जय़ उवाच:
पुण्डरीकं परं धाम नित्यमक्षय़मक्षरम् |
६ क
सञ्जय़ उवाच:
तद्भावात्पुण्डरीकाक्षो दस्युत्रासाज्जनार्दनः ||
६ ख
सञ्जय़ उवाच:
यतः सत्त्वं न च्यवते यच्च सत्त्वान्न हीय़ते |
७ क
सञ्जय़ उवाच:
सत्त्वतः सात्वतस्तस्मादार्षभाद्वृषभेक्षणः ||
७ ख
सञ्जय़ उवाच:
न जाय़ते जनित्र्यां यदजस्तस्मादनीकजित् |
८ क
सञ्जय़ उवाच:
देवानां स्वप्रकाशत्वाद्दमाद्दामोदरं विदुः ||
८ ख
सञ्जय़ उवाच:
हर्षात्सौख्यात्सुखैश्वर्याद्धृषीकेशत्वमश्नुते |
९ क
सञ्जय़ उवाच:
वाहुभ्यां रोदसी विभ्रन्महावाहुरिति स्मृतः ||
९ ख
सञ्जय़ उवाच:
अधो न क्षीय़ते जातु यस्मात्तस्मादधोक्षजः |
१० क
सञ्जय़ उवाच:
नराणामय़नाच्चापि तेन नाराय़णः स्मृतः |
१० ख
सञ्जय़ उवाच:
पूरणात्सदनाच्चैव ततोऽसौ पुरुषोत्तमः ||
१० ग
सञ्जय़ उवाच:
असतश्च सतश्चैव सर्वस्य प्रभवाप्ययात् |
११ क
सञ्जय़ उवाच:
सर्वस्य च सदा ज्ञानात्सर्वमेनं प्रचक्षते ||
११ ख
सञ्जय़ उवाच:
सत्ये प्रतिष्ठितः कृष्णः सत्यमत्र प्रतिष्ठितम् |
१२ क
सञ्जय़ उवाच:
सत्यात्सत्यं च गोविन्दस्तस्मात्सत्योऽपि नामतः ||
१२ ख
सञ्जय़ उवाच:
विष्णुर्विक्रमणादेव जय़नाज्जिष्णुरुच्यते |
१३ क
सञ्जय़ उवाच:
शाश्वतत्वादनन्तश्च गोविन्दो वेदनाद्गवाम् ||
१३ ख
सञ्जय़ उवाच:
अतत्त्वं कुरुते तत्त्वं तेन मोहय़ते प्रजाः |
१४ क
सञ्जय़ उवाच:
एवंविधो धर्मनित्यो भगवान्मुनिभिः सह |
१४ ख
सञ्जय़ उवाच:
आगन्ता हि महावाहुरानृशंस्यार्थमच्युतः ||
१४ ग