सञ्जय़ उवाच:
यथा स्थलं च निम्नं च न स्याद्वर्षति वासवे |
४९ क
सञ्जय़ उवाच:
तथासीत्पृथिवी सर्वा शोणितेन परिप्लुता ||
४९ ख
सञ्जय़ उवाच:
षट्सहस्रान्वरान्वीरान्पुनर्दशशतान्वरान् |
५० क
सञ्जय़ उवाच:
प्राहिणोन्मृत्युलोकाय़ क्षत्रिय़ान्क्षत्रिय़र्षभः ||
५० ख
सञ्जय़ उवाच:
शरैः सहस्रशो विद्धा विधिवत्कल्पिता द्विपाः |
५१ क
सञ्जय़ उवाच:
शेरते भूमिमासाद्य शैला वज्रहता इव ||
५१ ख
सञ्जय़ उवाच:
स वाजिरथमातङ्गान्निघ्नन्व्यचरदर्जुनः |
५२ क
सञ्जय़ उवाच:
प्रभिन्न इव मातङ्गो मृद्नन्नडवनं यथा ||
५२ ख
सञ्जय़ उवाच:
भूरिद्रुमलतागुल्मं शुष्केन्धनतृणोलपम् |
५३ क
सञ्जय़ उवाच:
निर्दहेदनलोऽरण्यं यथा वाय़ुसमीरितः ||
५३ ख
सञ्जय़ उवाच:
सैन्यारण्यं तव तथा कृष्णानिलसमीरितः |
५४ क
सञ्जय़ उवाच:
शरार्चिरदहत्क्रुद्धः पाण्डवाग्निर्धनञ्जय़ः ||
५४ ख
सञ्जय़ उवाच:
शून्यान्कुर्वन्रथोपस्थान्मानवैः संस्तरन्महीम् |
५५ क
सञ्जय़ उवाच:
प्रानृत्यदिव सम्वाधे चापहस्तो धनञ्जय़ः ||
५५ ख
सञ्जय़ उवाच:
वज्रकल्पैः शरैर्भूमिं कुर्वन्नुत्तरशोणिताम् |
५६ क
सञ्जय़ उवाच:
प्राविशद्भारतीं सेनां सङ्क्रुद्धो वै धनञ्जय़ः |
५६ ख
सञ्जय़ उवाच:
तं श्रुताय़ुस्तथाम्वष्ठो व्रजमानं न्यवारय़त् ||
५६ ग
सञ्जय़ उवाच:
तस्यार्जुनः शरैस्तीक्ष्णैः कङ्कपत्रपरिच्छदैः |
५७ क
सञ्जय़ उवाच:
न्यपातय़द्धय़ाञ्शीघ्रं यतमानस्य मारिष |
५७ ख
सञ्जय़ उवाच:
धनुश्चास्यापरैश्छित्त्वा शरैः पार्थो विचक्रमे ||
५७ ग
सञ्जय़ उवाच:
अम्वष्ठस्तु गदां गृह्य क्रोधपर्याकुलेक्षणः |
५८ क
सञ्जय़ उवाच:
आससाद रणे पार्थं केशवं च महारथम् ||
५८ ख
सञ्जय़ उवाच:
ततः स प्रहसन्वीरो गदामुद्यम्य भारत |
५९ क
सञ्जय़ उवाच:
रथमावार्य गदय़ा केशवं समताडय़त् ||
५९ ख
सञ्जय़ उवाच:
गदय़ा ताडितं दृष्ट्वा केशवं परवीरहा |
६० क
सञ्जय़ उवाच:
अर्जुनो भृशसङ्क्रुद्धः सोऽम्वष्ठं प्रति भारत ||
६० ख
सञ्जय़ उवाच:
ततः शरैर्हेमपुङ्खैः सगदं रथिनां वरम् |
६१ क
सञ्जय़ उवाच:
छादय़ामास समरे मेघः सूर्यमिवोदितम् ||
६१ ख
सञ्जय़ उवाच:
ततोऽपरैः शरैश्चापि गदां तस्य महात्मनः |
६२ क
सञ्जय़ उवाच:
अचूर्णय़त्तदा पार्थस्तदद्भुतमिवाभवत् ||
६२ ख
सञ्जय़ उवाच:
अथ तां पतितां दृष्ट्वा गृह्यान्यां महतीं गदाम् |
६३ क
सञ्जय़ उवाच:
अर्जुनं वासुदेवं च पुनः पुनरताडय़त् ||
६३ ख
सञ्जय़ उवाच:
तस्यार्जुनः क्षुरप्राभ्यां सगदावुद्यतौ भुजौ |
६४ क
सञ्जय़ उवाच:
चिच्छेदेन्द्रध्वजाकारौ शिरश्चान्येन पत्रिणा ||
६४ ख
सञ्जय़ उवाच:
स पपात हतो राजन्वसुधामनुनादय़न् |
६५ क
सञ्जय़ उवाच:
इन्द्रध्वज इवोत्सृष्टो यन्त्रनिर्मुक्तवन्धनः ||
६५ ख
सञ्जय़ उवाच:
रथानीकावगाढश्च वारणाश्वशतैर्वृतः |
६६ क
सञ्जय़ उवाच:
सोऽदृश्यत तदा पार्थो घनैः सूर्य इवावृतः ||
६६ ख