वृहदश्व उवाच:
उत्सृज्य दमय़न्तीं तु नलो राजा विशां पते |
१ क
वृहदश्व उवाच:
ददर्श दावं दह्यन्तं महान्तं गहने वने ||
१ ख
वृहदश्व उवाच:
तत्र शुश्राव मध्येऽग्नौ शव्दं भूतस्य कस्यचित् |
२ क
वृहदश्व उवाच:
अभिधाव नलेत्युच्चैः पुण्यश्लोकेति चासकृत् ||
२ ख
वृहदश्व उवाच:
मा भैरिति नलश्चोक्त्वा मध्यमग्नेः प्रविश्य तम् |
३ क
वृहदश्व उवाच:
ददर्श नागराजानं शय़ानं कुण्डलीकृतम् ||
३ ख
वृहदश्व उवाच:
स नागः प्राञ्जलिर्भूत्वा वेपमानो नलं तदा |
४ क
वृहदश्व उवाच:
उवाच विद्धि मां राजन्नागं कर्कोटकं नृप ||
४ ख
वृहदश्व उवाच:
मय़ा प्रलव्धो व्रह्मर्षिरनागाः सुमहातपाः |
५ क
वृहदश्व उवाच:
तेन मन्युपरीतेन शप्तोऽस्मि मनुजाधिप ||
५ ख
वृहदश्व उवाच:
तस्य शापान्न शक्नोमि पदाद्विचलितुं पदम् |
६ क
वृहदश्व उवाच:
उपदेक्ष्यामि ते श्रेय़स्त्रातुमर्हति मां भवान् ||
६ ख
वृहदश्व उवाच:
सखा च ते भविष्यामि मत्समो नास्ति पन्नगः |
७ क
वृहदश्व उवाच:
लघुश्च ते भविष्यामि शीघ्रमादाय़ गच्छ माम् ||
७ ख
वृहदश्व उवाच:
एवमुक्त्वा स नागेन्द्रो वभूवाङ्गुष्ठमात्रकः |
८ क
वृहदश्व उवाच:
तं गृहीत्वा नलः प्राय़ादुद्देशं दाववर्जितम् ||
८ ख
वृहदश्व उवाच:
आकाशदेशमासाद्य विमुक्तं कृष्णवर्त्मना |
९ क
वृहदश्व उवाच:
उत्स्रष्टुकामं तं नागः पुनः कर्कोटकोऽव्रवीत् ||
९ ख
वृहदश्व उवाच:
पदानि गणय़न्गच्छ स्वानि नैषध कानिचित् |
१० क
वृहदश्व उवाच:
तत्र तेऽहं महाराज श्रेय़ो धास्यामि यत्परम् ||
१० ख
वृहदश्व उवाच:
ततः सङ्ख्यातुमारव्धमदशद्दशमे पदे |
११ क
वृहदश्व उवाच:
तस्य दष्टस्य तद्रूपं क्षिप्रमन्तरधीय़त ||
११ ख
वृहदश्व उवाच:
स दृष्ट्वा विस्मितस्तस्थावात्मानं विकृतं नलः |
१२ क
वृहदश्व उवाच:
स्वरूपधारिणं नागं ददर्श च महीपतिः ||
१२ ख
वृहदश्व उवाच:
ततः कर्कोटको नागः सान्त्वय़न्नलमव्रवीत् |
१३ क
वृहदश्व उवाच:
मय़ा तेऽन्तर्हितं रूपं न त्वा विद्युर्जना इति ||
१३ ख
वृहदश्व उवाच:
यत्कृते चासि विकृतो दुःखेन महता नल |
१४ क
वृहदश्व उवाच:
विषेण स मदीय़ेन त्वय़ि दुःखं निवत्स्यति ||
१४ ख
वृहदश्व उवाच:
विषेण संवृतैर्गात्रैर्यावत्त्वां न विमोक्ष्यति |
१५ क
वृहदश्व उवाच:
तावत्त्वय़ि महाराज दुःखं वै स निवत्स्यति ||
१५ ख
वृहदश्व उवाच:
अनागा येन निकृतस्त्वमनर्हो जनाधिप |
१६ क
वृहदश्व उवाच:
क्रोधादसूय़यित्वा तं रक्षा मे भवतः कृता ||
१६ ख
वृहदश्व उवाच:
न ते भय़ं नरव्याघ्र दंष्ट्रिभ्यः शत्रुतोऽपि वा |
१७ क
वृहदश्व उवाच:
व्रह्मविद्भ्यश्च भविता मत्प्रसादान्नराधिप ||
१७ ख
वृहदश्व उवाच:
राजन्विषनिमित्ता च न ते पीडा भविष्यति |
१८ क
वृहदश्व उवाच:
सङ्ग्रामेषु च राजेन्द्र शश्वज्जय़मवाप्स्यसि ||
१८ ख
वृहदश्व उवाच:
गच्छ राजन्नितः सूतो वाहुकोऽहमिति व्रुवन् |
१९ क
वृहदश्व उवाच:
समीपमृतुपर्णस्य स हि वेदाक्षनैपुणम् |
१९ ख
वृहदश्व उवाच:
अय़ोध्यां नगरीं रम्यामद्यैव निषधेश्वर ||
१९ ग
वृहदश्व उवाच:
स तेऽक्षहृदय़ं दाता राजाश्वहृदय़ेन वै |
२० क
वृहदश्व उवाच:
इक्ष्वाकुकुलजः श्रीमान्मित्रं चैव भविष्यति ||
२० ख
वृहदश्व उवाच:
भविष्यसि यदाक्षज्ञः श्रेय़सा योक्ष्यसे तदा |
२१ क
वृहदश्व उवाच:
समेष्यसि च दारैस्त्वं मा स्म शोके मनः कृथाः |
२१ ख
वृहदश्व उवाच:
राज्येन तनय़ाभ्यां च सत्यमेतद्व्रवीमि ते ||
२१ ग
वृहदश्व उवाच:
स्वरूपं च यदा द्रष्टुमिच्छेथास्त्वं नराधिप |
२२ क
वृहदश्व उवाच:
संस्मर्तव्यस्तदा तेऽहं वासश्चेदं निवासय़ेः ||
२२ ख
वृहदश्व उवाच:
अनेन वाससाच्छन्नः स्वरूपं प्रतिपत्स्यसे |
२३ क
वृहदश्व उवाच:
इत्युक्त्वा प्रददावस्मै दिव्यं वासोय़ुगं तदा ||
२३ ख
वृहदश्व उवाच:
एवं नलं समादिश्य वासो दत्त्वा च कौरव |
२४ क
वृहदश्व उवाच:
नागराजस्ततो राजंस्तत्रैवान्तरधीय़त ||
२४ ख