chevron_left कर्ण पर्व अध्याय ६
सञ्जय़ उवाच:
हते द्रोणे महेष्वासे तस्मिन्नहनि भारत |
१ क
सञ्जय़ उवाच:
कृते च मोघसङ्कल्पे द्रोणपुत्रे महारथे ||
१ ख
सञ्जय़ उवाच:
द्रवमाणे महाराज कौरवाणां वले तथा |
२ क
सञ्जय़ उवाच:
व्यूह्य पार्थः स्वकं सैन्यमतिष्ठद्भ्रातृभिः सह ||
२ ख
सञ्जय़ उवाच:
तमवस्थितमाज्ञाय़ पुत्रस्ते भरतर्षभ |
३ क
सञ्जय़ उवाच:
द्रवच्च स्ववलं दृष्ट्वा पौरुषेण न्यवारय़त् ||
३ ख
सञ्जय़ उवाच:
स्वमनीकमवस्थाप्य वाहुवीर्ये व्यवस्थितः |
४ क
सञ्जय़ उवाच:
युद्ध्वा च सुचिरं कालं पाण्डवैः सह भारत ||
४ ख
सञ्जय़ उवाच:
लव्धलक्षैः परैर्हृष्टैर्व्याय़च्छद्भिश्चिरं तदा |
५ क
सञ्जय़ उवाच:
सन्ध्याकालं समासाद्य प्रत्याहारमकारय़त् ||
५ ख
सञ्जय़ उवाच:
कृत्वावहारं सैन्यानां प्रविश्य शिविरं स्वकम् |
६ क
सञ्जय़ उवाच:
कुरवोऽऽत्महितं मन्त्रं मन्त्रय़ां चक्रिरे तदा ||
६ ख
सञ्जय़ उवाच:
पर्यङ्केषु परार्ध्येषु स्पर्ध्यास्तरणवत्सु च |
७ क
सञ्जय़ उवाच:
वरासनेषूपविष्टाः सुखशय़्यास्विवामराः ||
७ ख
सञ्जय़ उवाच:
ततो दुर्योधनो राजा साम्ना परमवल्गुना |
८ क
सञ्जय़ उवाच:
तानाभाष्य महेष्वासान्प्राप्तकालमभाषत ||
८ ख
सञ्जय़ उवाच:
मतिं मतिमतां श्रेष्ठाः सर्वे प्रव्रूत माचिरम् |
९ क
सञ्जय़ उवाच:
एवं गते तु यत्कार्यं भवेत्कार्यकरं नृपाः ||
९ ख
सञ्जय़ उवाच:
एवमुक्ते नरेन्द्रेण नरसिंहा युय़ुत्सवः |
१० क
सञ्जय़ उवाच:
चक्रुर्नानाविधाश्चेष्टाः सिंहासनगतास्तदा ||
१० ख
सञ्जय़ उवाच:
तेषां निशम्येङ्गितानि युद्धे प्राणाञ्जुहूषताम् |
११ क
सञ्जय़ उवाच:
समुद्वीक्ष्य मुखं राज्ञो वालार्कसमवर्चसः |
११ ख
सञ्जय़ उवाच:
आचार्यपुत्रो मेधावी वाक्यज्ञो वाक्यमाददे ||
११ ग
सञ्जय़ उवाच:
रागो योगस्तथा दाक्ष्यं नय़श्चेत्यर्थसाधकाः |
१२ क
सञ्जय़ उवाच:
उपाय़ाः पण्डितैः प्रोक्ताः सर्वे दैवसमाश्रिताः ||
१२ ख
सञ्जय़ उवाच:
लोकप्रवीरा येऽस्माकं देवकल्पा महारथाः |
१३ क
सञ्जय़ उवाच:
नीतिमन्तस्तथा युक्ता दक्षा रक्ताश्च ते हताः ||
१३ ख
सञ्जय़ उवाच:
न त्वेव कार्यं नैराश्यमस्माभिर्विजय़ं प्रति |
१४ क
सञ्जय़ उवाच:
सुनीतैरिह सर्वार्थैर्दैवमप्यनुलोम्यते ||
१४ ख
सञ्जय़ उवाच:
ते वय़ं प्रवरं नॄणां सर्वैर्गुणगणैर्युतम् |
१५ क
सञ्जय़ उवाच:
कर्णं सेनापतिं कृत्वा प्रमथिष्यामहे रिपून् ||
१५ ख
सञ्जय़ उवाच:
ततो दुर्योधनः प्रीतः प्रिय़ं श्रुत्वा वचस्तदा |
१६ क
सञ्जय़ उवाच:
प्रीतिसंस्कारसंय़ुक्तं तथ्यमात्महितं शुभम् ||
१६ ख
सञ्जय़ उवाच:
स्वं मनः समवस्थाप्य वाहुवीर्यमुपाश्रितः |
१७ क
सञ्जय़ उवाच:
दुर्योधनो महाराज राधेय़मिदमव्रवीत् ||
१७ ख
सञ्जय़ उवाच:
कर्ण जानामि ते वीर्यं सौहृदं च परं मय़ि |
१८ क
सञ्जय़ उवाच:
तथापि त्वां महावाहो प्रवक्ष्यामि हितं वचः ||
१८ ख
सञ्जय़ उवाच:
श्रुत्वा यथेष्टं च कुरु वीर यत्तव रोचते |
१९ क
सञ्जय़ उवाच:
भवान्प्राज्ञतमो नित्यं मम चैव परा गतिः ||
१९ ख
सञ्जय़ उवाच:
भीष्मद्रोणावतिरथौ हतौ सेनापती मम |
२० क
सञ्जय़ उवाच:
सेनापतिर्भवानस्तु ताभ्यां द्रविणवत्तरः ||
२० ख
सञ्जय़ उवाच:
वृद्धौ च तौ महेष्वासौ सापेक्षौ च धनञ्जय़े |
२१ क
सञ्जय़ उवाच:
मानितौ च मय़ा वीरौ राधेय़ वचनात्तव ||
२१ ख
सञ्जय़ उवाच:
पितामहत्वं सम्प्रेक्ष्य पाण्डुपुत्रा महारणे |
२२ क
सञ्जय़ उवाच:
रक्षितास्तात भीष्मेण दिवसानि दशैव ह ||
२२ ख
सञ्जय़ उवाच:
न्यस्तशस्त्रे च भवति हतो भीष्मः पितामहः |
२३ क
सञ्जय़ उवाच:
शिखण्डिनं पुरस्कृत्य फल्गुनेन महाहवे ||
२३ ख
सञ्जय़ उवाच:
हते तस्मिन्महाभागे शरतल्पगते तदा |
२४ क
सञ्जय़ उवाच:
त्वय़ोक्ते पुरुषव्याघ्र द्रोणो ह्यासीत्पुरःसरः ||
२४ ख
सञ्जय़ उवाच:
तेनापि रक्षिताः पार्थाः शिष्यत्वादिह संय़ुगे |
२५ क
सञ्जय़ उवाच:
स चापि निहतो वृद्धो धृष्टद्युम्नेन सत्वरम् ||
२५ ख
सञ्जय़ उवाच:
निहताभ्यां प्रधानाभ्यां ताभ्याममितविक्रम |
२६ क
सञ्जय़ उवाच:
त्वत्समं समरे योधं नान्यं पश्यामि चिन्तय़न् ||
२६ ख
सञ्जय़ उवाच:
भवानेव तु नः शक्तो विजय़ाय़ न संशय़ः |
२७ क
सञ्जय़ उवाच:
पूर्वं मध्ये च पश्चाच्च तवैव विदितं हि तत् ||
२७ ख
सञ्जय़ उवाच:
स भवान्धुर्यवत्सङ्ख्ये धुरमुद्वोढुमर्हसि |
२८ क
सञ्जय़ उवाच:
अभिषेचय़ सेनान्ये स्वय़मात्मानमात्मना ||
२८ ख
सञ्जय़ उवाच:
देवतानां यथा स्कन्दः सेनानीः प्रभुरव्ययः |
२९ क
सञ्जय़ उवाच:
तथा भवानिमां सेनां धार्तराष्ट्रीं विभर्तु मे |
२९ ख
सञ्जय़ उवाच:
जहि शत्रुगणान्सर्वान्महेन्द्र इव दानवान् ||
२९ ग
सञ्जय़ उवाच:
अवस्थितं रणे ज्ञात्वा पाण्डवास्त्वां महारथम् |
३० क
सञ्जय़ उवाच:
द्रविष्यन्ति सपाञ्चाला विष्णुं दृष्ट्वेव दानवाः |
३० ख
सञ्जय़ उवाच:
तस्मात्त्वं पुरुषव्याघ्र प्रकर्षेथा महाचमूम् ||
३० ग
सञ्जय़ उवाच:
भवत्यवस्थिते यत्ते पाण्डवा गतचेतसः |
३१ क
सञ्जय़ उवाच:
भविष्यन्ति सहामात्याः पाञ्चालैः सृञ्जय़ैः सह ||
३१ ख
सञ्जय़ उवाच:
यथा ह्यभ्युदितः सूर्यः प्रतपन्स्वेन तेजसा |
३२ क
सञ्जय़ उवाच:
व्यपोहति तमस्तीव्रं तथा शत्रून्व्यपोह नः ||
३२ ख
कर्ण उवाच:
उक्तमेतन्मय़ा पूर्वं गान्धारे तव संनिधौ |
३३ क
कर्ण उवाच:
जेष्यामि पाण्डवान्राजन्सपुत्रान्सजनार्दनान् ||
३३ ख
कर्ण उवाच:
सेनापतिर्भविष्यामि तवाहं नात्र संशय़ः |
३४ क
कर्ण उवाच:
स्थिरो भव महाराज जितान्विद्धि च पाण्डवान् ||
३४ ख
सञ्जय़ उवाच:
एवमुक्तो महातेजास्ततो दुर्योधनो नृपः |
३५ क
सञ्जय़ उवाच:
उत्तस्थौ राजभिः सार्धं देवैरिव शतक्रतुः |
३५ ख
सञ्जय़ उवाच:
सेनापत्येन सत्कर्तुं कर्णं स्कन्दमिवामराः ||
३५ ग
सञ्जय़ उवाच:
ततोऽभिषिषिचुस्तूर्णं विधिदृष्टेन कर्मणा |
३६ क
सञ्जय़ उवाच:
दुर्योधनमुखा राजन्राजानो विजय़ैषिणः |
३६ ख
सञ्जय़ उवाच:
शातकौम्भमय़ैः कुम्भैर्माहेय़ैश्चाभिमन्त्रितैः ||
३६ ग
सञ्जय़ उवाच:
तोय़पूर्णैर्विषाणैश्च द्वीपिखड्गमहर्षभैः |
३७ क
सञ्जय़ उवाच:
मणिमुक्तामय़ैश्चान्यैः पुण्यगन्धैस्तथौषधैः ||
३७ ख
सञ्जय़ उवाच:
औदुम्वरे समासीनमासने क्षौमसंवृतम् |
३८ क
सञ्जय़ उवाच:
शास्त्रदृष्टेन विधिना सम्भारैश्च सुसम्भृतैः ||
३८ ख
सञ्जय़ उवाच:
जय़ पार्थान्सगोविन्दान्सानुगांस्त्वं महाहवे |
३९ क
सञ्जय़ उवाच:
इति तं वन्दिनः प्राहुर्द्विजाश्च भरतर्षभ ||
३९ ख
सञ्जय़ उवाच:
जहि पार्थान्सपाञ्चालान्राधेय़ विजय़ाय़ नः |
४० क
सञ्जय़ उवाच:
उद्यन्निव सदा भानुस्तमांस्युग्रैर्गभस्तिभिः ||
४० ख
सञ्जय़ उवाच:
न ह्यलं त्वद्विसृष्टानां शराणां ते सकेशवाः |
४१ क
सञ्जय़ उवाच:
कृतघ्नाः सूर्यरश्मीनां ज्वलतामिव दर्शने ||
४१ ख
सञ्जय़ उवाच:
न हि पार्थाः सपाञ्चालाः स्थातुं शक्तास्तवाग्रतः |
४२ क
सञ्जय़ उवाच:
आत्तशस्त्रस्य समरे महेन्द्रस्येव दानवाः ||
४२ ख
सञ्जय़ उवाच:
अभिषिक्तस्तु राधेय़ः प्रभय़ा सोऽमितप्रभः |
४३ क
सञ्जय़ उवाच:
व्यत्यरिच्यत रूपेण दिवाकर इवापरः ||
४३ ख
सञ्जय़ उवाच:
सेनापत्येन राधेय़मभिषिच्य सुतस्तव |
४४ क
सञ्जय़ उवाच:
अमन्यत तदात्मानं कृतार्थं कालचोदितः ||
४४ ख
सञ्जय़ उवाच:
कर्णोऽपि राजन्सम्प्राप्य सेनापत्यमरिन्दमः |
४५ क
सञ्जय़ उवाच:
योगमाज्ञापय़ामास सूर्यस्योदय़नं प्रति ||
४५ ख
सञ्जय़ उवाच:
तव पुत्रैर्वृतः कर्णः शुशुभे तत्र भारत |
४६ क
सञ्जय़ उवाच:
देवैरिव यथा स्कन्दः सङ्ग्रामे तारकामय़े ||
४६ ख