chevron_left भीष्म पर्व अध्याय ५७
सञ्जय़ उवाच:
द्रौणिर्भूरिश्रवाः शल्यश्चित्रसेनश्च मारिष |
१ क
सञ्जय़ उवाच:
पुत्रः सांय़मनेश्चैव सौभद्रं समय़ोधय़न् ||
१ ख
सञ्जय़ उवाच:
संसक्तमतितेजोभिस्तमेकं ददृशुर्जनाः |
२ क
सञ्जय़ उवाच:
पञ्चभिर्मनुजव्याघ्रैर्गजैः सिंहशिशुं यथा ||
२ ख
सञ्जय़ उवाच:
नाभिलक्ष्यतय़ा कश्चिन्न शौर्ये न पराक्रमे |
३ क
सञ्जय़ उवाच:
वभूव सदृशः कार्ष्णेर्नास्त्रे नापि च लाघवे ||
३ ख
सञ्जय़ उवाच:
तथा तमात्मजं युद्धे विक्रमन्तमरिन्दमम् |
४ क
सञ्जय़ उवाच:
दृष्ट्वा पार्थो रणे यत्तः सिंहनादमथोऽनदत् ||
४ ख
सञ्जय़ उवाच:
पीडय़ानं च तत्सैन्यं पौत्रं तव विशां पते |
५ क
सञ्जय़ उवाच:
दृष्ट्वा त्वदीय़ा राजेन्द्र समन्तात्पर्यवारय़न् ||
५ ख
सञ्जय़ उवाच:
ध्वजिनीं धार्तराष्ट्राणां दीनशत्रुरदीनवत् |
६ क
सञ्जय़ उवाच:
प्रत्युद्ययौ स सौभद्रस्तेजसा च वलेन च ||
६ ख
सञ्जय़ उवाच:
तस्य लाघवमार्गस्थमादित्यसदृशप्रभम् |
७ क
सञ्जय़ उवाच:
व्यदृश्यत महच्चापं समरे युध्यतः परैः ||
७ ख
सञ्जय़ उवाच:
स द्रौणिमिषुणैकेन विद्ध्वा शल्यं च पञ्चभिः |
८ क
सञ्जय़ उवाच:
ध्वजं सांय़मनेश्चापि सोऽष्टाभिरपवर्जय़त् ||
८ ख
सञ्जय़ उवाच:
रुक्मदण्डां महाशक्तिं प्रेषितां सौमदत्तिना |
९ क
सञ्जय़ उवाच:
शितेनोरगसङ्काशां पत्रिणा विजहार ताम् ||
९ ख
सञ्जय़ उवाच:
शल्यस्य च महाघोरानस्यतः शतशः शरान् |
१० क
सञ्जय़ उवाच:
निवार्यार्जुनदाय़ादो जघान समरे हय़ान् ||
१० ख
सञ्जय़ उवाच:
भूरिश्रवाश्च शल्यश्च द्रौणिः सांय़मनिः शलः |
११ क
सञ्जय़ उवाच:
नाभ्यवर्तन्त संरव्धाः कार्ष्णेर्वाहुवलाश्रय़ात् ||
११ ख
सञ्जय़ उवाच:
ततस्त्रिगर्ता राजेन्द्र मद्राश्च सह केकय़ैः |
१२ क
सञ्जय़ उवाच:
पञ्चत्रिंशतिसाहस्रास्तव पुत्रेण चोदिताः ||
१२ ख
सञ्जय़ उवाच:
धनुर्वेदविदो मुख्या अजेय़ाः शत्रुभिर्युधि |
१३ क
सञ्जय़ उवाच:
सहपुत्रं जिघांसन्तं परिवव्रुः किरीटिनम् ||
१३ ख
सञ्जय़ उवाच:
तौ तु तत्र पितापुत्रौ परिक्षिप्तौ रथर्षभौ |
१४ क
सञ्जय़ उवाच:
ददर्श राजन्पाञ्चाल्यः सेनापतिरमित्रजित् ||
१४ ख
सञ्जय़ उवाच:
स वारणरथौघानां सहस्रैर्वहुभिर्वृतः |
१५ क
सञ्जय़ उवाच:
वाजिभिः पत्तिभिश्चैव वृतः शतसहस्रशः ||
१५ ख
सञ्जय़ उवाच:
धनुर्विस्फार्य सङ्क्रुद्धश्चोदय़ित्वा वरूथिनीम् |
१६ क
सञ्जय़ उवाच:
यय़ौ तन्मद्रकानीकं केकय़ांश्च परन्तपः ||
१६ ख
सञ्जय़ उवाच:
तेन कीर्तिमता गुप्तमनीकं दृढधन्वना |
१७ क
सञ्जय़ उवाच:
प्रय़ुक्तरथनागाश्वं योत्स्यमानमशोभत ||
१७ ख
सञ्जय़ उवाच:
सोऽर्जुनं प्रमुखे यान्तं पाञ्चाल्यः कुरुनन्दन |
१८ क
सञ्जय़ उवाच:
त्रिभिः शारद्वतं वाणैर्जत्रुदेशे समर्पय़त् ||
१८ ख
सञ्जय़ उवाच:
ततः स मद्रकान्हत्वा दशभिर्दशभिः शरैः |
१९ क
सञ्जय़ उवाच:
हृष्ट एको जघानाश्वं भल्लेन कृतवर्मणः ||
१९ ख
सञ्जय़ उवाच:
दमनं चापि दाय़ादं पौरवस्य महात्मनः |
२० क
सञ्जय़ उवाच:
जघान विपुलाग्रेण नाराचेन परन्तपः ||
२० ख
सञ्जय़ उवाच:
ततः सांय़मनेः पुत्रः पाञ्चाल्यं युद्धदुर्मदम् |
२१ क
सञ्जय़ उवाच:
अविध्यत्त्रिंशता वाणैर्दशभिश्चास्य सारथिम् ||
२१ ख
सञ्जय़ उवाच:
सोऽतिविद्धो महेष्वासः सृक्किणी परिसंलिहन् |
२२ क
सञ्जय़ उवाच:
भल्लेन भृशतीक्ष्णेन निचकर्तास्य कार्मुकम् ||
२२ ख
सञ्जय़ उवाच:
अथैनं पञ्चविंशत्या क्षिप्रमेव समर्पय़त् |
२३ क
सञ्जय़ उवाच:
अश्वांश्चास्यावधीद्राजन्नुभौ तौ पार्ष्णिसारथी ||
२३ ख
सञ्जय़ उवाच:
स हताश्वे रथे तिष्ठन्ददर्श भरतर्षभ |
२४ क
सञ्जय़ उवाच:
पुत्रः सांय़मनेः पुत्रं पाञ्चाल्यस्य महात्मनः ||
२४ ख
सञ्जय़ उवाच:
स सङ्गृह्य महाघोरं निस्त्रिंशवरमाय़सम् |
२५ क
सञ्जय़ उवाच:
पदातिस्तूर्णमभ्यर्छद्रथस्थं द्रुपदात्मजम् ||
२५ ख
सञ्जय़ उवाच:
तं महौघमिवाय़ान्तं खात्पतन्तमिवोरगम् |
२६ क
सञ्जय़ उवाच:
भ्रान्तावरणनिस्त्रिंशं कालोत्सृष्टमिवान्तकम् ||
२६ ख
सञ्जय़ उवाच:
दीप्यन्तमिव शस्त्रार्च्या मत्तवारणविक्रमम् |
२७ क
सञ्जय़ उवाच:
अपश्यन्पाण्डवास्तत्र धृष्टद्युम्नश्च पार्षतः ||
२७ ख
सञ्जय़ उवाच:
तस्य पाञ्चालपुत्रस्तु प्रतीपमभिधावतः |
२८ क
सञ्जय़ उवाच:
शितनिस्त्रिंशहस्तस्य शरावरणधारिणः ||
२८ ख
सञ्जय़ उवाच:
वाणवेगमतीतस्य रथाभ्याशमुपेय़ुषः |
२९ क
सञ्जय़ उवाच:
त्वरन्सेनापतिः क्रुद्धो विभेद गदय़ा शिरः ||
२९ ख
सञ्जय़ उवाच:
तस्य राजन्सनिस्त्रिंशं सुप्रभं च शरावरम् |
३० क
सञ्जय़ उवाच:
हतस्य पततो हस्ताद्वेगेन न्यपतद्भुवि ||
३० ख
सञ्जय़ उवाच:
तं निहत्य गदाग्रेण लेभे स परमं यशः |
३१ क
सञ्जय़ उवाच:
पुत्रः पाञ्चालराजस्य महात्मा भीमविक्रमः ||
३१ ख
सञ्जय़ उवाच:
तस्मिन्हते महेष्वासे राजपुत्रे महारथे |
३२ क
सञ्जय़ उवाच:
हाहाकारो महानासीत्तव सैन्यस्य मारिष ||
३२ ख
सञ्जय़ उवाच:
ततः सांय़मनिः क्रुद्धो दृष्ट्वा निहतमात्मजम् |
३३ क
सञ्जय़ उवाच:
अभिदुद्राव वेगेन पाञ्चाल्यं युद्धदुर्मदम् ||
३३ ख
सञ्जय़ उवाच:
तौ तत्र समरे वीरौ समेतौ रथिनां वरौ |
३४ क
सञ्जय़ उवाच:
ददृशुः सर्वराजानः कुरवः पाण्डवास्तथा ||
३४ ख
सञ्जय़ उवाच:
ततः सांय़मनिः क्रुद्धः पार्षतं परवीरहा |
३५ क
सञ्जय़ उवाच:
आजघान त्रिभिर्वाणैस्तोत्त्रैरिव महाद्विपम् ||
३५ ख
सञ्जय़ उवाच:
तथैव पार्षतं शूरं शल्यः समितिशोभनः |
३६ क
सञ्जय़ उवाच:
आजघानोरसि क्रुद्धस्ततो युद्धमवर्तत ||
३६ ख