chevron_left शल्य पर्व अध्याय ५७
वासुदेव उवाच:
यक्षाणां राक्षसानां च पिशाचानां तथैव च |
४९ क
वासुदेव उवाच:
अन्तरिक्षे महानादः श्रूय़ते भरतर्षभ ||
४९ ख
वासुदेव उवाच:
तेन शव्देन घोरेण मृगाणामथ पक्षिणाम् |
५० क
वासुदेव उवाच:
जज्ञे घोरतमः शव्दो वहूनां सर्वतोदिशम् ||
५० ख
वासुदेव उवाच:
ये तत्र वाजिनः शेषा गजाश्च मनुजैः सह |
५१ क
वासुदेव उवाच:
मुमुचुस्ते महानादं तव पुत्रे निपातिते ||
५१ ख
वासुदेव उवाच:
भेरीशङ्खमृदङ्गानामभवच्च स्वनो महान् |
५२ क
वासुदेव उवाच:
अन्तर्भूमिगतश्चैव तव पुत्रे निपातिते ||
५२ ख
वासुदेव उवाच:
वहुपादैर्वहुभुजैः कवन्धैर्घोरदर्शनैः |
५३ क
वासुदेव उवाच:
नृत्यद्भिर्भय़दैर्व्याप्ता दिशस्तत्राभवन्नृप ||
५३ ख
वासुदेव उवाच:
ध्वजवन्तोऽस्त्रवन्तश्च शस्त्रवन्तस्तथैव च |
५४ क
वासुदेव उवाच:
प्राकम्पन्त ततो राजंस्तव पुत्रे निपातिते ||
५४ ख
वासुदेव उवाच:
ह्रदाः कूपाश्च रुधिरमुद्वेमुर्नृपसत्तम |
५५ क
वासुदेव उवाच:
नद्यश्च सुमहावेगाः प्रतिस्रोतोवहाभवन् ||
५५ ख
वासुदेव उवाच:
पुल्लिङ्गा इव नार्यस्तु स्त्रीलिङ्गाः पुरुषाभवन् |
५६ क
वासुदेव उवाच:
दुर्योधने तदा राजन्पतिते तनय़े तव ||
५६ ख
वासुदेव उवाच:
दृष्ट्वा तानद्भुतोत्पातान्पाञ्चालाः पाण्डवैः सह |
५७ क
वासुदेव उवाच:
आविग्नमनसः सर्वे वभूवुर्भरतर्षभ ||
५७ ख
वासुदेव उवाच:
यय़ुर्देवा यथाकामं गन्धर्वाप्सरसस्तथा |
५८ क
वासुदेव उवाच:
कथय़न्तोऽद्भुतं युद्धं सुतय़ोस्तव भारत ||
५८ ख
वासुदेव उवाच:
तथैव सिद्धा राजेन्द्र तथा वातिकचारणाः |
५९ क
वासुदेव उवाच:
नरसिंहौ प्रशंसन्तौ विप्रजग्मुर्यथागतम् ||
५९ ख