अश्व उवाच:
सम्भ्रान्तमनसः सर्वे पूजां चक्रुर्यथाविधि ||
५० ख
अश्व उवाच:
सर्वे प्राञ्जलय़ो नागा वृद्धवालपुरोगमाः |
५१ क
अश्व उवाच:
शिरोभिः प्रणिपत्योचुः प्रसीद भगवन्निति ||
५१ ख
अश्व उवाच:
प्रसाद्य व्राह्मणं ते तु पाद्यमर्घ्यं निवेद्य च |
५२ क
अश्व उवाच:
प्राय़च्छन्कुण्डले दिव्ये पन्नगाः परमार्चिते ||
५२ ख
अश्व उवाच:
ततः सम्पूजितो नागैस्तत्रोत्तङ्कः प्रतापवान् |
५३ क
अश्व उवाच:
अग्निं प्रदक्षिणं कृत्वा जगाम गुरुसद्म तत् ||
५३ ख
अश्व उवाच:
स गत्वा त्वरितो राजन्गौतमस्य निवेशनम् |
५४ क
अश्व उवाच:
प्राय़च्छत्कुण्डले दिव्ये गुरुपत्न्यै तदानघ ||
५४ ख
अश्व उवाच:
एवं महात्मना तेन त्रीँल्लोकाञ्जनमेजय़ |
५५ क
अश्व उवाच:
परिक्रम्याहृते दिव्ये ततस्ते मणिकुण्डले ||
५५ ख
अश्व उवाच:
एवम्प्रभावः स मुनिरुत्तङ्को भरतर्षभ |
५६ क
अश्व उवाच:
परेण तपसा युक्तो यन्मां त्वं परिपृच्छसि ||
५६ ख