सञ्जय़ उवाच:
हस्तिवद्धस्तिसङ्काशमभिदुद्राव ते सुतम् ||
५० ख
सञ्जय़ उवाच:
ततस्तु रभसो भीमो गदय़ा तनय़ं तव |
५१ क
सञ्जय़ उवाच:
अभिदुद्राव वेगेन सिंहो वनगजं यथा ||
५१ ख
सञ्जय़ उवाच:
उपसृत्य तु राजानं गदामोक्षविशारदः |
५२ क
सञ्जय़ उवाच:
आविध्यत गदां राजन्समुद्दिश्य सुतं तव ||
५२ ख
सञ्जय़ उवाच:
अताडय़द्भीमसेनः पार्श्वे दुर्योधनं तदा |
५३ क
सञ्जय़ उवाच:
स विह्वलः प्रहारेण जानुभ्यामगमन्महीम् ||
५३ ख
सञ्जय़ उवाच:
तस्मिंस्तु भरतश्रेष्ठे जानुभ्यामवनीं गते |
५४ क
सञ्जय़ उवाच:
उदतिष्ठत्ततो नादः सृञ्जय़ानां जगत्पते ||
५४ ख
सञ्जय़ उवाच:
तेषां तु निनदं श्रुत्वा सृञ्जय़ानां नरर्षभः |
५५ क
सञ्जय़ उवाच:
अमर्षाद्भरतश्रेष्ठ पुत्रस्ते समकुप्यत ||
५५ ख
सञ्जय़ उवाच:
उत्थाय़ तु महावाहुः क्रुद्धो नाग इव श्वसन् |
५६ क
सञ्जय़ उवाच:
दिधक्षन्निव नेत्राभ्यां भीमसेनमवैक्षत ||
५६ ख
सञ्जय़ उवाच:
ततः स भरतश्रेष्ठो गदापाणिरभिद्रवत् |
५७ क
सञ्जय़ उवाच:
प्रमथिष्यन्निव शिरो भीमसेनस्य संय़ुगे ||
५७ ख
सञ्जय़ उवाच:
स महात्मा महात्मानं भीमं भीमपराक्रमः |
५८ क
सञ्जय़ उवाच:
अताडय़च्छङ्खदेशे स चचालाचलोपमः ||
५८ ख
सञ्जय़ उवाच:
स भूय़ः शुशुभे पार्थस्ताडितो गदय़ा रणे |
५९ क
सञ्जय़ उवाच:
उद्भिन्नरुधिरो राजन्प्रभिन्न इव कुञ्जरः ||
५९ ख
सञ्जय़ उवाच:
ततो गदां वीरहणीमय़स्मय़ीं; प्रगृह्य वज्राशनितुल्यनिस्वनाम् |
६० क
सञ्जय़ उवाच:
अताडय़च्छत्रुममित्रकर्शनो; वलेन विक्रम्य धनञ्जय़ाग्रजः ||
६० ख
सञ्जय़ उवाच:
स भीमसेनाभिहतस्तवात्मजः; पपात सङ्कम्पितदेहवन्धनः |
६१ क
सञ्जय़ उवाच:
सुपुष्पितो मारुतवेगताडितो; महावने साल इवावघूर्णितः ||
६१ ख
सञ्जय़ उवाच:
ततः प्रणेदुर्जहृषुश्च पाण्डवाः; समीक्ष्य पुत्रं पतितं क्षितौ तव |
६२ क
सञ्जय़ उवाच:
ततः सुतस्ते प्रतिलभ्य चेतनां; समुत्पपात द्विरदो यथा ह्रदात् ||
६२ ख
सञ्जय़ उवाच:
स पार्थिवो नित्यममर्षितस्तदा; महारथः शिक्षितवत्परिभ्रमन् |
६३ क
सञ्जय़ उवाच:
अताडय़त्पाण्डवमग्रतः स्थितं; स विह्वलाङ्गो जगतीमुपास्पृशत् ||
६३ ख
सञ्जय़ उवाच:
स सिंहनादान्विननाद कौरवो; निपात्य भूमौ युधि भीममोजसा |
६४ क
सञ्जय़ उवाच:
विभेद चैवाशनितुल्यतेजसा; गदानिपातेन शरीररक्षणम् ||
६४ ख
सञ्जय़ उवाच:
ततोऽन्तरिक्षे निनदो महानभू; द्दिवौकसामप्सरसां च नेदुषाम् |
६५ क
सञ्जय़ उवाच:
पपात चोच्चैरमरप्रवेरितं; विचित्रपुष्पोत्करवर्षमुत्तमम् ||
६५ ख
सञ्जय़ उवाच:
ततः परानाविशदुत्तमं भय़ं; समीक्ष्य भूमौ पतितं नरोत्तमम् |
६६ क
सञ्जय़ उवाच:
अहीय़मानं च वलेन कौरवं; निशम्य भेदं च दृढस्य वर्मणः ||
६६ ख
सञ्जय़ उवाच:
ततो मुहूर्तादुपलभ्य चेतनां; प्रमृज्य वक्त्रं रुधिरार्द्रमात्मनः |
६७ क
सञ्जय़ उवाच:
धृतिं समालम्व्य विवृत्तलोचनो; वलेन संस्तभ्य वृकोदरः स्थितः ||
६७ ख