युधिष्ठिर उवाच:
मत्तः कैतवकेनैव यज्जितोऽस्मि दुरोदरम् |
१ क
युधिष्ठिर उवाच:
शकुने हन्त दीव्यामो ग्लहमानाः सहस्रशः ||
१ ख
युधिष्ठिर उवाच:
इमे निष्कसहस्रस्य कुण्डिनो भरिताः शतम् |
२ क
युधिष्ठिर उवाच:
कोशो हिरण्यमक्षय़्यं जातरूपमनेकशः |
२ ख
युधिष्ठिर उवाच:
एतद्राजन्धनं मह्यं तेन दीव्याम्यहं त्वय़ा ||
२ ग
वैशम्पाय़न उवाच:
इत्युक्तः शकुनिः प्राह जितमित्येव तं नृपम् |
३ क
युधिष्ठिर उवाच:
अय़ं सहस्रसमितो वैय़ाघ्रः सुप्रवर्तितः |
४ क
युधिष्ठिर उवाच:
सुचक्रोपस्करः श्रीमान्किङ्किणीजालमण्डितः ||
४ ख
युधिष्ठिर उवाच:
संह्रादनो राजरथो य इहास्मानुपावहत् |
५ क
युधिष्ठिर उवाच:
जैत्रो रथवरः पुण्यो मेघसागरनिःस्वनः ||
५ ख
युधिष्ठिर उवाच:
अष्टौ यं कुररच्छाय़ाः सदश्वा राष्ट्रसंमताः |
६ क
युधिष्ठिर उवाच:
वहन्ति नैषामुच्येत पदा भूमिमुपस्पृशन् |
६ ख
युधिष्ठिर उवाच:
एतद्राजन्धनं मह्यं तेन दीव्याम्यहं त्वय़ा ||
६ ग
वैशम्पाय़न उवाच:
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः |
७ क
वैशम्पाय़न उवाच:
जितमित्येव शकुनिर्युधिष्ठिरमभाषत ||
७ ख
युधिष्ठिर उवाच:
सहस्रसङ्ख्या नागा मे मत्तास्तिष्ठन्ति सौवल |
८ क
युधिष्ठिर उवाच:
हेमकक्षाः कृतापीडाः पद्मिनो हेममालिनः ||
८ ख
युधिष्ठिर उवाच:
सुदान्ता राजवहनाः सर्वशव्दक्षमा युधि |
९ क
युधिष्ठिर उवाच:
ईषादन्ता महाकाय़ाः सर्वे चाष्टकरेणवः ||
९ ख
युधिष्ठिर उवाच:
सर्वे च पुरभेत्तारो नगमेघनिभा गजाः |
१० क
युधिष्ठिर उवाच:
एतद्राजन्धनं मह्यं तेन दीव्याम्यहं त्वय़ा ||
१० ख
वैशम्पाय़न उवाच:
तमेवंवादिनं पार्थं प्रहसन्निव सौवलः |
११ क
वैशम्पाय़न उवाच:
जितमित्येव शकुनिर्युधिष्ठिरमभाषत ||
११ ख
युधिष्ठिर उवाच:
शतं दासीसहस्राणि तरुण्यो मे प्रभद्रिकाः |
१२ क
युधिष्ठिर उवाच:
कम्वुकेय़ूरधारिण्यो निष्ककण्ठ्यः स्वलङ्कृताः ||
१२ ख
युधिष्ठिर उवाच:
महार्हमाल्याभरणाः सुवस्त्राश्चन्दनोक्षिताः |
१३ क
युधिष्ठिर उवाच:
मणीन्हेम च विभ्रत्यः सर्वा वै सूक्ष्मवाससः ||
१३ ख
युधिष्ठिर उवाच:
अनुसेवां चरन्तीमाः कुशला नृत्यसामसु |
१४ क
युधिष्ठिर उवाच:
स्नातकानाममात्यानां राज्ञां च मम शासनात् |
१४ ख
युधिष्ठिर उवाच:
एतद्राजन्धनं मह्यं तेन दीव्याम्यहं त्वय़ा ||
१४ ग
वैशम्पाय़न उवाच:
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः |
१५ क
वैशम्पाय़न उवाच:
जितमित्येव शकुनिर्युधिष्ठिरमभाषत ||
१५ ख
युधिष्ठिर उवाच:
एतावन्त्येव दासानां सहस्राण्युत सन्ति मे |
१६ क
युधिष्ठिर उवाच:
प्रदक्षिणानुलोमाश्च प्रावारवसनाः सदा ||
१६ ख
युधिष्ठिर उवाच:
प्राज्ञा मेधाविनो दक्षा युवानो मृष्टकुण्डलाः |
१७ क
युधिष्ठिर उवाच:
पात्रीहस्ता दिवारात्रमतिथीन्भोजय़न्त्युत |
१७ ख
युधिष्ठिर उवाच:
एतद्राजन्धनं मह्यं तेन दीव्याम्यहं त्वय़ा ||
१७ ग
वैशम्पाय़न उवाच:
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः |
१८ क
वैशम्पाय़न उवाच:
जितमित्येव शकुनिर्युधिष्ठिरमभाषत ||
१८ ख
युधिष्ठिर उवाच:
रथास्तावन्त एवेमे हेमभाण्डाः पताकिनः |
१९ क
युधिष्ठिर उवाच:
हय़ैर्विनीतैः सम्पन्ना रथिभिश्चित्रय़ोधिभिः ||
१९ ख
युधिष्ठिर उवाच:
एकैको यत्र लभते सहस्रपरमां भृतिम् |
२० क
युधिष्ठिर उवाच:
युध्यतोऽय़ुध्यतो वापि वेतनं मासकालिकम् |
२० ख
युधिष्ठिर उवाच:
एतद्राजन्धनं मह्यं तेन दीव्याम्यहं त्वय़ा ||
२० ग
वैशम्पाय़न उवाच:
इत्येवमुक्ते पार्थेन कृतवैरो दुरात्मवान् |
२१ क
वैशम्पाय़न उवाच:
जितमित्येव शकुनिर्युधिष्ठिरमभाषत ||
२१ ख
युधिष्ठिर उवाच:
अश्वांस्तित्तिरिकल्माषान्गान्धर्वान्हेममालिनः |
२२ क
युधिष्ठिर उवाच:
ददौ चित्ररथस्तुष्टो यांस्तान्गाण्डीवधन्वने |
२२ ख
युधिष्ठिर उवाच:
एतद्राजन्धनं मह्यं तेन दीव्याम्यहं त्वय़ा ||
२२ ग
वैशम्पाय़न उवाच:
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः |
२३ क
वैशम्पाय़न उवाच:
जितमित्येव शकुनिर्युधिष्ठिरमभाषत ||
२३ ख
युधिष्ठिर उवाच:
रथानां शकटानां च हय़ानां चाय़ुतानि मे |
२४ क
युधिष्ठिर उवाच:
युक्तानामेव तिष्ठन्ति वाहैरुच्चावचैर्वृताः ||
२४ ख
युधिष्ठिर उवाच:
एवं वर्णस्य वर्णस्य समुच्चीय़ सहस्रशः |
२५ क
युधिष्ठिर उवाच:
क्षीरं पिवन्तस्तिष्ठन्ति भुञ्जानाः शालितण्डुलान् ||
२५ ख
युधिष्ठिर उवाच:
षष्टिस्तानि सहस्राणि सर्वे पृथुलवक्षसः |
२६ क
युधिष्ठिर उवाच:
एतद्राजन्धनं मह्यं तेन दीव्याम्यहं त्वय़ा ||
२६ ख
वैशम्पाय़न उवाच:
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः |
२७ क
वैशम्पाय़न उवाच:
जितमित्येव शकुनिर्युधिष्ठिरमभाषत ||
२७ ख
युधिष्ठिर उवाच:
ताम्रलोहैः परिवृता निधय़ो मे चतुःशताः |
२८ क
युधिष्ठिर उवाच:
पञ्चद्रौणिक एकैकः सुवर्णस्याहतस्य वै |
२८ ख
युधिष्ठिर उवाच:
एतद्राजन्धनं मह्यं तेन दीव्याम्यहं त्वय़ा ||
२८ ग
वैशम्पाय़न उवाच:
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः |
२९ क
वैशम्पाय़न उवाच:
जितमित्येव शकुनिर्युधिष्ठिरमभाषत ||
२९ ख