सञ्जय़ उवाच:
श्रुत्वा तु तं महाशव्दं पाण्डूनां पुत्रगृद्धिनाम् |
१ क
सञ्जय़ उवाच:
चारैः प्रवेदिते तत्र समुत्थाय़ जय़द्रथः ||
१ ख
सञ्जय़ उवाच:
शोकसंमूढहृदय़ो दुःखेनाभिहतो भृशम् |
२ क
सञ्जय़ उवाच:
मज्जमान इवागाधे विपुले शोकसागरे ||
२ ख
सञ्जय़ उवाच:
जगाम समितिं राज्ञां सैन्धवो विमृशन्वहु |
३ क
सञ्जय़ उवाच:
स तेषां नरदेवानां सकाशे परिदेवय़न् ||
३ ख
सञ्जय़ उवाच:
अभिमन्योः पितुर्भीतः सव्रीडो वाक्यमव्रवीत् |
४ क
सञ्जय़ उवाच:
योऽसौ पाण्डोः किल क्षेत्रे जातः शक्रेण कामिना ||
४ ख
सञ्जय़ उवाच:
स निनीषति दुर्वुद्धिर्मां किलैकं यमक्षय़म् |
५ क
सञ्जय़ उवाच:
तत्स्वस्ति वोऽस्तु यास्यामि स्वगृहं जीवितेप्सय़ा ||
५ ख
सञ्जय़ उवाच:
अथ वा स्थ प्रतिवलास्त्रातुं मां क्षत्रिय़र्षभाः |
६ क
सञ्जय़ उवाच:
पार्थेन प्रार्थितं वीरास्ते ददन्तु ममाभय़म् ||
६ ख
सञ्जय़ उवाच:
द्रोणदुर्योधनकृपाः कर्णमद्रेशवाह्लिकाः |
७ क
सञ्जय़ उवाच:
दुःशासनादय़ः शक्तास्त्रातुमप्यन्तकाद्रितम् ||
७ ख
सञ्जय़ उवाच:
किमङ्ग पुनरेकेन फल्गुनेन जिघांसता |
८ क
सञ्जय़ उवाच:
न त्राय़ेय़ुर्भवन्तो मां समस्ताः पतय़ः क्षितेः ||
८ ख
सञ्जय़ उवाच:
प्रहर्षं पाण्डवेय़ानां श्रुत्वा मम महद्भय़म् |
९ क
सञ्जय़ उवाच:
सीदन्तीव च मेऽङ्गानि मुमूर्षोरिव पार्थिवाः ||
९ ख
सञ्जय़ उवाच:
वधो नूनं प्रतिज्ञातो मम गाण्डीवधन्वना |
१० क
सञ्जय़ उवाच:
तथा हि हृष्टाः क्रोशन्ति शोककालेऽपि पाण्डवाः ||
१० ख
सञ्जय़ उवाच:
न देवा न च गन्धर्वा नासुरोरगराक्षसाः |
११ क
सञ्जय़ उवाच:
उत्सहन्तेऽन्यथा कर्तुं कुत एव नराधिपाः ||
११ ख
सञ्जय़ उवाच:
तस्मान्मामनुजानीत भद्रं वोऽस्तु नरर्षभाः |
१२ क
सञ्जय़ उवाच:
अदर्शनं गमिष्यामि न मां द्रक्ष्यन्ति पाण्डवाः ||
१२ ख
सञ्जय़ उवाच:
एवं विलपमानं तं भय़ाद्व्याकुलचेतसम् |
१३ क
सञ्जय़ उवाच:
आत्मकार्यगरीय़स्त्वाद्राजा दुर्योधनोऽव्रवीत् ||
१३ ख
सञ्जय़ उवाच:
न भेतव्यं नरव्याघ्र को हि त्वा पुरुषर्षभ |
१४ क
सञ्जय़ उवाच:
मध्ये क्षत्रिय़वीराणां तिष्ठन्तं प्रार्थय़ेद्युधि ||
१४ ख
सञ्जय़ उवाच:
अहं वैकर्तनः कर्णश्चित्रसेनो विविंशतिः |
१५ क
सञ्जय़ उवाच:
भूरिश्रवाः शलः शल्यो वृषसेनो दुरासदः ||
१५ ख
सञ्जय़ उवाच:
पुरुमित्रो जय़ो भोजः काम्वोजश्च सुदक्षिणः |
१६ क
सञ्जय़ उवाच:
सत्यव्रतो महावाहुर्विकर्णो दुर्मुखः सहः ||
१६ ख
सञ्जय़ उवाच:
दुःशासनः सुवाहुश्च कलिङ्गश्चाप्युदाय़ुधः |
१७ क
सञ्जय़ उवाच:
विन्दानुविन्दावावन्त्यौ द्रोणो द्रौणिः ससौवलः ||
१७ ख
सञ्जय़ उवाच:
त्वं चापि रथिनां श्रेष्ठः स्वय़ं शूरोऽमितद्युतिः |
१८ क
सञ्जय़ उवाच:
स कथं पाण्डवेय़ेभ्यो भय़ं पश्यसि सैन्धव ||
१८ ख
सञ्जय़ उवाच:
अक्षौहिण्यो दशैका च मदीय़ास्तव रक्षणे |
१९ क
सञ्जय़ उवाच:
यत्ता योत्स्यन्ति मा भैस्त्वं सैन्धव व्येतु ते भय़म् ||
१९ ख
सञ्जय़ उवाच:
एवमाश्वासितो राजन्पुत्रेण तव सैन्धवः |
२० क
सञ्जय़ उवाच:
दुर्योधनेन सहितो द्रोणं रात्रावुपागमत् ||
२० ख
सञ्जय़ उवाच:
उपसङ्ग्रहणं कृत्वा द्रोणाय़ स विशां पते |
२१ क
सञ्जय़ उवाच:
उपोपविश्य प्रणतः पर्यपृच्छदिदं तदा ||
२१ ख
सञ्जय़ उवाच:
निमित्ते दूरपातित्वे लघुत्वे दृढवेधने |
२२ क
सञ्जय़ उवाच:
मम व्रवीतु भगवान्विशेषं फल्गुनस्य च ||
२२ ख
सञ्जय़ उवाच:
विद्याविशेषमिच्छामि ज्ञातुमाचार्य तत्त्वतः |
२३ क
सञ्जय़ उवाच:
ममार्जुनस्य च विभो यथातत्त्वं प्रचक्ष्व मे ||
२३ ख
द्रोण उवाच:
सममाचार्यकं तात तव चैवार्जुनस्य च |
२४ क
द्रोण उवाच:
योगाद्दुःखोचितत्वाच्च तस्मात्त्वत्तोऽधिकोऽर्जुनः ||
२४ ख
द्रोण उवाच:
न तु ते युधि सन्त्रासः कार्यः पार्थात्कथञ्चन |
२५ क
द्रोण उवाच:
अहं हि रक्षिता तात भय़ात्त्वां नात्र संशय़ः ||
२५ ख
द्रोण उवाच:
न हि मद्वाहुगुप्तस्य प्रभवन्त्यमरा अपि |
२६ क
द्रोण उवाच:
व्यूहिष्यामि च तं व्यूहं यं पार्थो न तरिष्यति ||
२६ ख
द्रोण उवाच:
तस्माद्युध्यस्व मा भैस्त्वं स्वधर्ममनुपालय़ |
२७ क
द्रोण उवाच:
पितृपैतामहं मार्गमनुय़ाहि नराधिप ||
२७ ख
द्रोण उवाच:
अधीत्य विधिवद्वेदानग्नय़ः सुहुतास्त्वय़ा |
२८ क
द्रोण उवाच:
इष्टं च वहुभिर्यज्ञैर्न ते मृत्युभय़ाद्भय़म् ||
२८ ख
द्रोण उवाच:
दुर्लभं मानुषैर्मन्दैर्महाभाग्यमवाप्य तु |
२९ क
द्रोण उवाच:
भुजवीर्यार्जिताँल्लोकान्दिव्यान्प्राप्स्यस्यनुत्तमान् ||
२९ ख
द्रोण उवाच:
कुरवः पाण्डवाश्चैव वृष्णय़ोऽन्ये च मानवाः |
३० क
द्रोण उवाच:
अहं च सह पुत्रेण अध्रुवा इति चिन्त्यताम् ||
३० ख
द्रोण उवाच:
पर्याय़ेण वय़ं सर्वे कालेन वलिना हताः |
३१ क
द्रोण उवाच:
परलोकं गमिष्यामः स्वैः स्वैः कर्मभिरन्विताः ||
३१ ख
द्रोण उवाच:
तपस्तप्त्वा तु याँल्लोकान्प्राप्नुवन्ति तपस्विनः |
३२ क
द्रोण उवाच:
क्षत्रधर्माश्रिताः शूराः क्षत्रिय़ाः प्राप्नुवन्ति तान् ||
३२ ख
सञ्जय़ उवाच:
एवमाश्वासितो राजन्भारद्वाजेन सैन्धवः |
३३ क
सञ्जय़ उवाच:
अपानुदद्भय़ं पार्थाद्युद्धाय़ च मनो दधे ||
३३ ख