जनमेजय़ उवाच:
अस्त्रहेतोर्गते पार्थे शक्रलोकं महात्मनि |
१ क
जनमेजय़ उवाच:
युधिष्ठिरप्रभृतय़ः किमकुर्वन्त पाण्डवाः ||
१ ख
वैशम्पाय़न उवाच:
अस्त्रहेतोर्गते पार्थे शक्रलोकं महात्मनि |
२ क
वैशम्पाय़न उवाच:
न्यवसन्कृष्णय़ा सार्धं काम्यके पुरुषर्षभाः ||
२ ख
वैशम्पाय़न उवाच:
ततः कदाचिदेकान्ते विविक्त इव शाद्वले |
३ क
वैशम्पाय़न उवाच:
दुःखार्ता भरतश्रेष्ठा निषेदुः सह कृष्णय़ा |
३ ख
वैशम्पाय़न उवाच:
धनञ्जय़ं शोचमानाः साश्रुकण्ठाः सुदुःखिताः ||
३ ग
वैशम्पाय़न उवाच:
तद्विय़ोगाद्धि तान्सर्वाञ्शोकः समभिपुप्लुवे |
४ क
वैशम्पाय़न उवाच:
धनञ्जय़विय़ोगाच्च राज्यनाशाच्च दुःखिताः ||
४ ख
वैशम्पाय़न उवाच:
अथ भीमो महावाहुर्युधिष्ठिरमभाषत |
५ क
वैशम्पाय़न उवाच:
निदेशात्ते महाराज गतोऽसौ पुरुषर्षभः |
५ ख
वैशम्पाय़न उवाच:
अर्जुनः पाण्डुपुत्राणां यस्मिन्प्राणाः प्रतिष्ठिताः ||
५ ग
वैशम्पाय़न उवाच:
यस्मिन्विनष्टे पाञ्चालाः सह पुत्रैस्तथा वय़म् |
६ क
वैशम्पाय़न उवाच:
सात्यकिर्वासुदेवश्च विनश्येय़ुरसंशय़म् ||
६ ख
वैशम्पाय़न उवाच:
योऽसौ गच्छति तेजस्वी वहून्क्लेशानचिन्तय़न् |
७ क
वैशम्पाय़न उवाच:
भवन्निय़ोगाद्वीभत्सुस्ततो दुःखतरं नु किम् ||
७ ख
वैशम्पाय़न उवाच:
यस्य वाहू समाश्रित्य वय़ं सर्वे महात्मनः |
८ क
वैशम्पाय़न उवाच:
मन्यामहे जितानाजौ परान्प्राप्तां च मेदिनीम् ||
८ ख
वैशम्पाय़न उवाच:
यस्य प्रभावान्न मय़ा सभामध्ये धनुष्मतः |
९ क
वैशम्पाय़न उवाच:
नीता लोकममुं सर्वे धार्तराष्ट्राः ससौवलाः ||
९ ख
वैशम्पाय़न उवाच:
ते वय़ं वाहुवलिनः क्रोधमुत्थितमात्मनः |
१० क
वैशम्पाय़न उवाच:
सहामहे भवन्मूलं वासुदेवेन पालिताः ||
१० ख
वैशम्पाय़न उवाच:
वय़ं हि सह कृष्णेन हत्वा कर्णमुखान्परान् |
११ क
वैशम्पाय़न उवाच:
स्ववाहुविजितां कृत्स्नां प्रशासेम वसुन्धराम् ||
११ ख
वैशम्पाय़न उवाच:
भवतो द्यूतदोषेण सर्वे वय़मुपप्लुताः |
१२ क
वैशम्पाय़न उवाच:
अहीनपौरुषा राजन्वलिभिर्वलवत्तमाः ||
१२ ख
वैशम्पाय़न उवाच:
क्षात्रं धर्मं महाराज समवेक्षितुमर्हसि |
१३ क
वैशम्पाय़न उवाच:
न हि धर्मो महाराज क्षत्रिय़स्य वनाश्रय़ः |
१३ ख
वैशम्पाय़न उवाच:
राज्यमेव परं धर्मं क्षत्रिय़स्य विदुर्वुधाः ||
१३ ग
वैशम्पाय़न उवाच:
स क्षत्रधर्मविद्राजन्मा धर्म्यान्नीनशः पथः |
१४ क
वैशम्पाय़न उवाच:
प्राग्द्वादश समा राजन्धार्तराष्ट्रान्निहन्महि ||
१४ ख
वैशम्पाय़न उवाच:
निवर्त्य च वनात्पार्थमानाय़्य च जनार्दनम् |
१५ क
वैशम्पाय़न उवाच:
व्यूढानीकान्महाराज जवेनैव महाहवे |
१५ ख
वैशम्पाय़न उवाच:
धार्तराष्ट्रानमुं लोकं गमय़ामि विशां पते ||
१५ ग
वैशम्पाय़न उवाच:
सर्वानहं हनिष्यामि धार्तराष्ट्रान्ससौवलान् |
१६ क
वैशम्पाय़न उवाच:
दुर्योधनं च कर्णं च यो वान्यः प्रतिय़ोत्स्यते ||
१६ ख
वैशम्पाय़न उवाच:
मय़ा प्रशमिते पश्चात्त्वमेष्यसि वनात्पुनः |
१७ क
वैशम्पाय़न उवाच:
एवं कृते न ते दोषो भविष्यति विशां पते ||
१७ ख
वैशम्पाय़न उवाच:
यज्ञैश्च विविधैस्तात कृतं पापमरिन्दम |
१८ क
वैशम्पाय़न उवाच:
अवधूय़ महाराज गच्छेम स्वर्गमुत्तमम् ||
१८ ख
वैशम्पाय़न उवाच:
एवमेतद्भवेद्राजन्यदि राजा न वालिशः |
१९ क
वैशम्पाय़न उवाच:
अस्माकं दीर्घसूत्रः स्याद्भवान्धर्मपराय़णः ||
१९ ख
वैशम्पाय़न उवाच:
निकृत्या निकृतिप्रज्ञा हन्तव्या इति निश्चय़ः |
२० क
वैशम्पाय़न उवाच:
न हि नैकृतिकं हत्वा निकृत्या पापमुच्यते ||
२० ख
वैशम्पाय़न उवाच:
तथा भारत धर्मेषु धर्मज्ञैरिह दृश्यते |
२१ क
वैशम्पाय़न उवाच:
अहोरात्रं महाराज तुल्यं संवत्सरेण हि ||
२१ ख
वैशम्पाय़न उवाच:
तथैव वेदवचनं श्रूय़ते नित्यदा विभो |
२२ क
वैशम्पाय़न उवाच:
संवत्सरो महाराज पूर्णो भवति कृच्छ्रतः ||
२२ ख
वैशम्पाय़न उवाच:
यदि वेदाः प्रमाणं ते दिवसादूर्ध्वमच्युत |
२३ क
वैशम्पाय़न उवाच:
त्रय़ोदश समाः कालो ज्ञाय़तां परिनिष्ठितः ||
२३ ख
वैशम्पाय़न उवाच:
कालो दुर्योधनं हन्तुं सानुवन्धमरिन्दम |
२४ क
वैशम्पाय़न उवाच:
एकाग्रां पृथिवीं सर्वां पुरा राजन्करोति सः ||
२४ ख
वैशम्पाय़न उवाच:
एवं व्रुवाणं भीमं तु धर्मराजो युधिष्ठिरः |
२५ क
वैशम्पाय़न उवाच:
उवाच सान्त्वय़न्राजा मूर्ध्न्युपाघ्राय़ पाण्डवम् ||
२५ ख
वैशम्पाय़न उवाच:
असंशय़ं महावाहो हनिष्यसि सुय़ोधनम् |
२६ क
वैशम्पाय़न उवाच:
वर्षात्त्रय़ोदशादूर्ध्वं सह गाण्डीवधन्वना ||
२६ ख
वैशम्पाय़न उवाच:
यच्च मा भाषसे पार्थ प्राप्तः काल इति प्रभो |
२७ क
वैशम्पाय़न उवाच:
अनृतं नोत्सहे वक्तुं न ह्येतन्मय़ि विद्यते ||
२७ ख
वैशम्पाय़न उवाच:
अन्तरेणापि कौन्तेय़ निकृतिं पापनिश्चय़म् |
२८ क
वैशम्पाय़न उवाच:
हन्ता त्वमसि दुर्धर्ष सानुवन्धं सुय़ोधनम् ||
२८ ख
वैशम्पाय़न उवाच:
एवं व्रुवति भीमं तु धर्मराजे युधिष्ठिरे |
२९ क
वैशम्पाय़न उवाच:
आजगाम महाभागो वृहदश्वो महानृषिः ||
२९ ख
वैशम्पाय़न उवाच:
तमभिप्रेक्ष्य धर्मात्मा सम्प्राप्तं धर्मचारिणम् |
३० क
वैशम्पाय़न उवाच:
शास्त्रवन्मधुपर्केण पूजय़ामास धर्मराट् ||
३० ख
वैशम्पाय़न उवाच:
आश्वस्तं चैनमासीनमुपासीनो युधिष्ठिरः |
३१ क
वैशम्पाय़न उवाच:
अभिप्रेक्ष्य महावाहुः कृपणं वह्वभाषत ||
३१ ख
वैशम्पाय़न उवाच:
अक्षद्यूतेन भगवन्धनं राज्यं च मे हृतम् |
३२ क
वैशम्पाय़न उवाच:
आहूय़ निकृतिप्रज्ञैः कितवैरक्षकोविदैः ||
३२ ख
वैशम्पाय़न उवाच:
अनक्षज्ञस्य हि सतो निकृत्या पापनिश्चय़ैः |
३३ क
वैशम्पाय़न उवाच:
भार्या च मे सभां नीता प्राणेभ्योऽपि गरीय़सी ||
३३ ख
वैशम्पाय़न उवाच:
अस्ति राजा मय़ा कश्चिदल्पभाग्यतरो भुवि |
३४ क
वैशम्पाय़न उवाच:
भवता दृष्टपूर्वो वा श्रुतपूर्वोऽपि वा भवेत् |
३४ ख
वैशम्पाय़न उवाच:
न मत्तो दुःखिततरः पुमानस्तीति मे मतिः ||
३४ ग
वृहदश्व उवाच:
यद्व्रवीषि महाराज न मत्तो विद्यते क्वचित् |
३५ क
वृहदश्व उवाच:
अल्पभाग्यतरः कश्चित्पुमानस्तीति पाण्डव ||
३५ ख
वृहदश्व उवाच:
अत्र ते कथय़िष्यामि यदि शुश्रूषसेऽनघ |
३६ क
वृहदश्व उवाच:
यस्त्वत्तो दुःखिततरो राजासीत्पृथिवीपते ||
३६ ख
वैशम्पाय़न उवाच:
अथैनमव्रवीद्राजा व्रवीतु भगवानिति |
३७ क
वैशम्पाय़न उवाच:
इमामवस्थां सम्प्राप्तं श्रोतुमिच्छामि पार्थिवम् ||
३७ ख
वृहदश्व उवाच:
शृणु राजन्नवहितः सह भ्रातृभिरच्युत |
३८ क
वृहदश्व उवाच:
यस्त्वत्तो दुःखिततरो राजासीत्पृथिवीपते ||
३८ ख
वृहदश्व उवाच:
निषधेषु महीपालो वीरसेन इति स्म ह |
३९ क
वृहदश्व उवाच:
तस्य पुत्रोऽभवन्नाम्ना नलो धर्मार्थदर्शिवान् ||
३९ ख
वृहदश्व उवाच:
स निकृत्या जितो राजा पुष्करेणेति नः श्रुतम् |
४० क
वृहदश्व उवाच:
वनवासमदुःखार्हो भार्यया न्यवसत्सह ||
४० ख
वृहदश्व उवाच:
न तस्याश्वो न च रथो न भ्राता न च वान्धवाः |
४१ क
वृहदश्व उवाच:
वने निवसतो राजञ्शिष्यन्ते स्म कदाचन ||
४१ ख
वृहदश्व उवाच:
भवान्हि संवृतो वीरैर्भ्रातृभिर्देवसंमितैः |
४२ क
वृहदश्व उवाच:
व्रह्मकल्पैर्द्विजाग्र्यैश्च तस्मान्नार्हसि शोचितुम् ||
४२ ख
युधिष्ठिर उवाच:
विस्तरेणाहमिच्छामि नलस्य सुमहात्मनः |
४३ क
युधिष्ठिर उवाच:
चरितं वदतां श्रेष्ठ तन्ममाख्यातुमर्हसि ||
४३ ख