जनमेजय़ उवाच:
अत्यद्भुतमिदं कर्म पार्थस्यामिततेजसः |
१ क
जनमेजय़ उवाच:
धृतराष्ट्रो महातेजाः श्रुत्वा विप्र किमव्रवीत् ||
१ ख
वैशम्पाय़न उवाच:
शक्रलोकगतं पार्थं श्रुत्वा राजाम्विकासुतः |
२ क
वैशम्पाय़न उवाच:
द्वैपाय़नादृषिश्रेष्ठात्सञ्जय़ं वाक्यमव्रवीत् ||
२ ख
वैशम्पाय़न उवाच:
श्रुतं मे सूत कार्त्स्न्येन कर्म पार्थस्य धीमतः |
३ क
वैशम्पाय़न उवाच:
कच्चित्तवापि विदितं यथातथ्येन सारथे ||
३ ख
वैशम्पाय़न उवाच:
प्रमत्तो ग्राम्यधर्मेषु मन्दात्मा पापनिश्चय़ः |
४ क
वैशम्पाय़न उवाच:
मम पुत्रः सुदुर्वुद्धिः पृथिवीं घातय़िष्यति ||
४ ख
वैशम्पाय़न उवाच:
यस्य नित्यमृता वाचः स्वैरेष्वपि महात्मनः |
५ क
वैशम्पाय़न उवाच:
त्रैलोक्यमपि तस्य स्याद्योद्धा यस्य धनञ्जय़ः ||
५ ख
वैशम्पाय़न उवाच:
अस्यतः कर्णिनाराचांस्तीक्ष्णाग्रांश्च शिलाशितान् |
६ क
वैशम्पाय़न उवाच:
कोऽर्जुनस्याग्रतस्तिष्ठेदपि मृत्युर्जरातिगः ||
६ ख
वैशम्पाय़न उवाच:
मम पुत्रा दुरात्मानः सर्वे मृत्युवशं गताः |
७ क
वैशम्पाय़न उवाच:
येषां युद्धं दुराधर्षैः पाण्डवैः प्रत्युपस्थितम् ||
७ ख
वैशम्पाय़न उवाच:
तस्यैव च न पश्यामि युधि गाण्डीवधन्वनः |
८ क
वैशम्पाय़न उवाच:
अनिशं चिन्तय़ानोऽपि य एनमुदिय़ाद्रथी ||
८ ख
वैशम्पाय़न उवाच:
द्रोणकर्णौ प्रतीय़ातां यदि भीष्मोऽपि वा रणे |
९ क
वैशम्पाय़न उवाच:
महान्स्यात्संशय़ो लोके न तु पश्यामि नो जय़म् ||
९ ख
वैशम्पाय़न उवाच:
घृणी कर्णः प्रमादी च आचार्यः स्थविरो गुरुः |
१० क
वैशम्पाय़न उवाच:
अमर्षी वलवान्पार्थः संरम्भी दृढविक्रमः ||
१० ख
वैशम्पाय़न उवाच:
भवेत्सुतुमुलं युद्धं सर्वशोऽप्यपराजितम् |
११ क
वैशम्पाय़न उवाच:
सर्वे ह्यस्त्रविदः शूराः सर्वे प्राप्ता महद्यशः ||
११ ख
वैशम्पाय़न उवाच:
अपि सर्वेश्वरत्वं हि न वाञ्छेरन्पराजिताः |
१२ क
वैशम्पाय़न उवाच:
वधे नूनं भवेच्छान्तिस्तेषां वा फल्गुनस्य वा ||
१२ ख
वैशम्पाय़न उवाच:
न तु हन्तार्जुनस्यास्ति जेता वास्य न विद्यते |
१३ क
वैशम्पाय़न उवाच:
मन्युस्तस्य कथं शाम्येन्मन्दान्प्रति समुत्थितः ||
१३ ख
वैशम्पाय़न उवाच:
त्रिदशेशसमो वीरः खाण्डवेऽग्निमतर्पय़त् |
१४ क
वैशम्पाय़न उवाच:
जिगाय़ पार्थिवान्सर्वान्राजसूय़े महाक्रतौ ||
१४ ख
वैशम्पाय़न उवाच:
शेषं कुर्याद्गिरेर्वज्रं निपतन्मूर्ध्नि सञ्जय़ |
१५ क
वैशम्पाय़न उवाच:
न तु कुर्युः शराः शेषमस्तास्तात किरीटिना ||
१५ ख
वैशम्पाय़न उवाच:
यथा हि किरणा भानोस्तपन्तीह चराचरम् |
१६ क
वैशम्पाय़न उवाच:
तथा पार्थभुजोत्सृष्टाः शरास्तप्स्यन्ति मे सुतान् ||
१६ ख
वैशम्पाय़न उवाच:
अपि वा रथघोषेण भय़ार्ता सव्यसाचिनः |
१७ क
वैशम्पाय़न उवाच:
प्रतिभाति विदीर्णेव सर्वतो भारती चमूः ||
१७ ख
वैशम्पाय़न उवाच:
यदुद्वपन्प्रवपंश्चैव वाणा; न्स्थातातताय़ी समरे किरीटी |
१८ क
वैशम्पाय़न उवाच:
सृष्टोऽन्तकः सर्वहरो विधात्रा; भवेद्यथा तद्वदपारणीय़ः ||
१८ ख
सञ्जय़ उवाच:
यदेतत्कथितं राजंस्त्वय़ा दुर्योधनं प्रति |
१९ क
सञ्जय़ उवाच:
सर्वमेतद्यथात्थ त्वं नैतन्मिथ्या महीपते ||
१९ ख
सञ्जय़ उवाच:
मन्युना हि समाविष्टाः पाण्डवास्तेऽमितौजसः |
२० क
सञ्जय़ उवाच:
दृष्ट्वा कृष्णां सभां नीतां धर्मपत्नीं यशस्विनीम् ||
२० ख
सञ्जय़ उवाच:
दुःशासनस्य ता वाचः श्रुत्वा ते दारुणोदय़ाः |
२१ क
सञ्जय़ उवाच:
कर्णस्य च महाराज न स्वप्स्यन्तीति मे मतिः ||
२१ ख
सञ्जय़ उवाच:
श्रुतं हि ते महाराज यथा पार्थेन संय़ुगे |
२२ क
सञ्जय़ उवाच:
एकादशतनुः स्थाणुर्धनुषा परितोषितः ||
२२ ख
सञ्जय़ उवाच:
कैरातं वेषमास्थाय़ योधय़ामास फल्गुनम् |
२३ क
सञ्जय़ उवाच:
जिज्ञासुः सर्वदेवेशः कपर्दी भगवान्स्वय़म् ||
२३ ख
सञ्जय़ उवाच:
तत्रैनं लोकपालास्ते दर्शय़ामासुरर्जुनम् |
२४ क
सञ्जय़ उवाच:
अस्त्रहेतोः पराक्रान्तं तपसा कौरवर्षभम् ||
२४ ख
सञ्जय़ उवाच:
नैतदुत्सहतेऽन्यो हि लव्धुमन्यत्र फल्गुनात् |
२५ क
सञ्जय़ उवाच:
साक्षाद्दर्शनमेतेषामीश्वराणां नरो भुवि ||
२५ ख
सञ्जय़ उवाच:
महेश्वरेण यो राजन्न जीर्णो ग्रस्तमूर्तिमान् |
२६ क
सञ्जय़ उवाच:
कस्तमुत्सहते वीरं युद्धे जरय़ितुं पुमान् ||
२६ ख
सञ्जय़ उवाच:
आसादितमिदं घोरं तुमुलं लोमहर्षणम् |
२७ क
सञ्जय़ उवाच:
द्रौपदीं परिकर्षद्भिः कोपय़द्भिश्च पाण्डवान् ||
२७ ख
सञ्जय़ उवाच:
यत्र विस्फुरमाणोष्ठो भीमः प्राह वचो महत् |
२८ क
सञ्जय़ उवाच:
दृष्ट्वा दुर्योधनेनोरू द्रौपद्या दर्शितावुभौ ||
२८ ख
सञ्जय़ उवाच:
ऊरू भेत्स्यामि ते पाप गदय़ा वज्रकल्पय़ा |
२९ क
सञ्जय़ उवाच:
त्रय़ोदशानां वर्षाणामन्ते दुर्द्यूतदेविनः ||
२९ ख
सञ्जय़ उवाच:
सर्वे प्रहरतां श्रेष्ठाः सर्वे चामिततेजसः |
३० क
सञ्जय़ उवाच:
सर्वे सर्वास्त्रविद्वांसो देवैरपि सुदुर्जय़ाः ||
३० ख
सञ्जय़ उवाच:
मन्ये मन्युसमुद्धूताः पुत्राणां तव संय़ुगे |
३१ क
सञ्जय़ उवाच:
अन्तं पार्थाः करिष्यन्ति वीर्यामर्षसमन्विताः ||
३१ ख
धृतराष्ट्र उवाच:
किं कृतं सूत कर्णेन वदता परुषं वचः |
३२ क
धृतराष्ट्र उवाच:
पर्याप्तं वैरमेतावद्यत्कृष्णा सा सभां गता ||
३२ ख
धृतराष्ट्र उवाच:
अपीदानीं मम सुतास्तिष्ठेरन्मन्दचेतसः |
३३ क
धृतराष्ट्र उवाच:
येषां भ्राता गुरुर्ज्येष्ठो विनय़े नावतिष्ठते ||
३३ ख
धृतराष्ट्र उवाच:
ममापि वचनं सूत न शुश्रूषति मन्दभाक् |
३४ क
धृतराष्ट्र उवाच:
दृष्ट्वा मां चक्षुषा हीनं निर्विचेष्टमचेतनम् ||
३४ ख
धृतराष्ट्र उवाच:
ये चास्य सचिवा मन्दाः कर्णसौवलकादय़ः |
३५ क
धृतराष्ट्र उवाच:
तेऽप्यस्य भूय़सो दोषान्वर्धय़न्ति विचेतसः ||
३५ ख
धृतराष्ट्र उवाच:
स्वैरमुक्ता अपि शराः पार्थेनामिततेजसा |
३६ क
धृतराष्ट्र उवाच:
निर्दहेय़ुर्मम सुतान्किं पुनर्मन्युनेरिताः ||
३६ ख
धृतराष्ट्र उवाच:
पार्थवाहुवलोत्सृष्टा महाचापविनिःसृताः |
३७ क
धृतराष्ट्र उवाच:
दिव्यास्त्रमन्त्रमुदिताः सादय़ेय़ुः सुरानपि ||
३७ ख
धृतराष्ट्र उवाच:
यस्य मन्त्री च गोप्ता च सुहृच्चैव जनार्दनः |
३८ क
धृतराष्ट्र उवाच:
हरिस्त्रैलोक्यनाथः स किं नु तस्य न निर्जितम् ||
३८ ख
धृतराष्ट्र उवाच:
इदं च सुमहच्चित्रमर्जुनस्येह सञ्जय़ |
३९ क
धृतराष्ट्र उवाच:
महादेवेन वाहुभ्यां यत्समेत इति श्रुतिः ||
३९ ख
धृतराष्ट्र उवाच:
प्रत्यक्षं सर्वलोकस्य खाण्डवे यत्कृतं पुरा |
४० क
धृतराष्ट्र उवाच:
फल्गुनेन सहाय़ार्थे वह्नेर्दामोदरेण च ||
४० ख
धृतराष्ट्र उवाच:
सर्वथा नास्ति मे पुत्रः सामात्यः सहवान्धवः |
४१ क
धृतराष्ट्र उवाच:
क्रुद्धे पार्थे च भीमे च वासुदेवे च सात्वते ||
४१ ख