chevron_left शल्य पर्व अध्याय ४४
वैशम्पाय़न उवाच:
सुविभक्तशरीराश्च दीप्तिमन्तः स्वलङ्कृताः |
९६ क
वैशम्पाय़न उवाच:
पिङ्गाक्षाः शङ्कुकर्णाश्च वक्रनासाश्च भारत ||
९६ ख
वैशम्पाय़न उवाच:
पृथुदंष्ट्रा महादंष्ट्राः स्थूलौष्ठा हरिमूर्धजाः |
९७ क
वैशम्पाय़न उवाच:
नानापादौष्ठदंष्ट्राश्च नानाहस्तशिरोधराः |
९७ ख
वैशम्पाय़न उवाच:
नानावर्मभिराच्छन्ना नानाभाषाश्च भारत ||
९७ ग
वैशम्पाय़न उवाच:
कुशला देशभाषासु जल्पन्तोऽन्योन्यमीश्वराः |
९८ क
वैशम्पाय़न उवाच:
हृष्टाः परिपतन्ति स्म महापारिषदास्तथा ||
९८ ख
वैशम्पाय़न उवाच:
दीर्घग्रीवा दीर्घनखा दीर्घपादशिरोभुजाः |
९९ क
वैशम्पाय़न उवाच:
पिङ्गाक्षा नीलकण्ठाश्च लम्वकर्णाश्च भारत ||
९९ ख
वैशम्पाय़न उवाच:
वृकोदरनिभाश्चैव केचिदञ्जनसंनिभाः |
१०० क
वैशम्पाय़न उवाच:
श्वेताङ्गा लोहितग्रीवाः पिङ्गाक्षाश्च तथापरे |
१०० ख
वैशम्पाय़न उवाच:
कल्माषा वहवो राजंश्चित्रवर्णाश्च भारत ||
१०० ग
वैशम्पाय़न उवाच:
चामरापीडकनिभाः श्वेतलोहितराजय़ः |
१०१ क
वैशम्पाय़न उवाच:
नानावर्णाः सवर्णाश्च मय़ूरसदृशप्रभाः ||
१०१ ख
वैशम्पाय़न उवाच:
पुनः प्रहरणान्येषां कीर्त्यमानानि मे शृणु |
१०२ क
वैशम्पाय़न उवाच:
शेषैः कृतं पारिषदैराय़ुधानां परिग्रहम् ||
१०२ ख
वैशम्पाय़न उवाच:
पाशोद्यतकराः केचिद्व्यादितास्याः खराननाः |
१०३ क
वैशम्पाय़न उवाच:
पृथ्वक्षा नीलकण्ठाश्च तथा परिघवाहवः ||
१०३ ख
वैशम्पाय़न उवाच:
शतघ्नीचक्रहस्ताश्च तथा मुसलपाणय़ः |
१०४ क
वैशम्पाय़न उवाच:
शूलासिहस्ताश्च तथा महाकाय़ा महावलाः ||
१०४ ख
वैशम्पाय़न उवाच:
गदाभुशुण्डिहस्ताश्च तथा तोमरपाणय़ः |
१०५ क
वैशम्पाय़न उवाच:
असिमुद्गरहस्ताश्च दण्डहस्ताश्च भारत ||
१०५ ख
वैशम्पाय़न उवाच:
आय़ुधैर्विविधैर्घोरैर्महात्मानो महाजवाः |
१०६ क
वैशम्पाय़न उवाच:
महावला महावेगा महापारिषदास्तथा ||
१०६ ख
वैशम्पाय़न उवाच:
अभिषेकं कुमारस्य दृष्ट्वा हृष्टा रणप्रिय़ाः |
१०७ क
वैशम्पाय़न उवाच:
घण्टाजालपिनद्धाङ्गा ननृतुस्ते महौजसः ||
१०७ ख
वैशम्पाय़न उवाच:
एते चान्ये च वहवो महापारिषदा नृप |
१०८ क
वैशम्पाय़न उवाच:
उपतस्थुर्महात्मानं कार्त्तिकेय़ं यशस्विनम् ||
१०८ ख
वैशम्पाय़न उवाच:
दिव्याश्चाप्यान्तरिक्षाश्च पार्थिवाश्चानिलोपमाः |
१०९ क
वैशम्पाय़न उवाच:
व्यादिष्टा दैवतैः शूराः स्कन्दस्यानुचराभवन् ||
१०९ ख
वैशम्पाय़न उवाच:
तादृशानां सहस्राणि प्रय़ुतान्यर्वुदानि च |
११० क
वैशम्पाय़न उवाच:
अभिषिक्तं महात्मानं परिवार्योपतस्थिरे ||
११० ख