सञ्जय़ उवाच:
उत्तमं यत्नमास्थाय़ प्रत्येहि भरतर्षभ ||
४९ ख
सञ्जय़ उवाच:
असौ कर्णः सुसंरव्धः पाञ्चालानभिधावति |
५० क
सञ्जय़ उवाच:
केतुमस्य हि पश्यामि धृष्टद्युम्नरथं प्रति |
५० ख
सञ्जय़ उवाच:
समुच्छेत्स्यति पाञ्चालानिति मन्ये परन्तप ||
५० ग
सञ्जय़ उवाच:
आचक्षे ते प्रिय़ं पार्थ तदेवं भरतर्षभ |
५१ क
सञ्जय़ उवाच:
राजा जीवति कौरव्यो धर्मपुत्रो युधिष्ठिरः ||
५१ ख
सञ्जय़ उवाच:
असौ भिमो महावाहुः संनिवृत्तश्चमूमुखे |
५२ क
सञ्जय़ उवाच:
वृतः सृञ्जय़सैन्येन सात्यकेन च भारत ||
५२ ख
सञ्जय़ उवाच:
वध्यन्त एते समरे कौरवा निशितैः शरैः |
५३ क
सञ्जय़ उवाच:
भीमसेनेन कौन्तेय़ पाञ्चालैश्च महात्मभिः ||
५३ ख
सञ्जय़ उवाच:
सेना हि धार्तराष्ट्रस्य विमुखा चाभवद्रणात् |
५४ क
सञ्जय़ उवाच:
विप्रधावति वेगेन भीमस्य निहता शरैः ||
५४ ख
सञ्जय़ उवाच:
विपन्नसस्येव मही रुधिरेण समुक्षिता |
५५ क
सञ्जय़ उवाच:
भारती भरतश्रेष्ठ सेना कृपणदर्शना ||
५५ ख
सञ्जय़ उवाच:
निवृत्तं पश्य कौन्तेय़ भीमसेनं युधां पतिम् |
५६ क
सञ्जय़ उवाच:
आशीविषमिव क्रुद्धं तस्माद्द्रवति वाहिनी ||
५६ ख
सञ्जय़ उवाच:
पीतरक्तासितसितास्ताराचन्द्रार्कमण्डिताः |
५७ क
सञ्जय़ उवाच:
पताका विप्रकीर्यन्ते छत्राण्येतानि चार्जुन ||
५७ ख
सञ्जय़ उवाच:
सौवर्णा राजताश्चैव तैजसाश्च पृथग्विधाः |
५८ क
सञ्जय़ उवाच:
केतवो विनिपात्यन्ते हस्त्यश्वं विप्रकीर्यते ||
५८ ख
सञ्जय़ उवाच:
रथेभ्यः प्रपतन्त्येते रथिनो विगतासवः |
५९ क
सञ्जय़ उवाच:
नानावर्णैर्हता वाणैः पाञ्चालैरपलाय़िभिः ||
५९ ख
सञ्जय़ उवाच:
निर्मनुष्यान्गजानश्वान्रथांश्चैव धनञ्जय़ |
६० क
सञ्जय़ उवाच:
समाद्रवन्ति पाञ्चाला धार्तराष्ट्रांस्तरस्विनः ||
६० ख
सञ्जय़ उवाच:
मृद्नन्ति च नरव्याघ्रा भीमसेनव्यपाश्रय़ात् |
६१ क
सञ्जय़ उवाच:
वलं परेषां दुर्धर्षं त्यक्त्वा प्राणानरिन्दम ||
६१ ख
सञ्जय़ उवाच:
एते नदन्ति पाञ्चाला धमन्त्यपि च वारिजान् |
६२ क
सञ्जय़ उवाच:
अभिद्रवन्ति च रणे निघ्नन्तः साय़कैः परान् ||
६२ ख
सञ्जय़ उवाच:
पश्य स्वर्गस्य माहात्म्यं पाञ्चाला हि परन्तप |
६३ क
सञ्जय़ उवाच:
धार्तराष्ट्रान्विनिघ्नन्ति क्रुद्धाः सिंहा इव द्विपान् ||
६३ ख
सञ्जय़ उवाच:
सर्वतश्चाभिपन्नैषा धार्तराष्ट्री महाचमूः |
६४ क
सञ्जय़ उवाच:
पाञ्चालैर्मानसादेत्य हंसैर्गङ्गेव वेगितैः ||
६४ ख
सञ्जय़ उवाच:
सुभृशं च पराक्रान्ताः पाञ्चालानां निवारणे |
६५ क
सञ्जय़ उवाच:
कृपकर्णादय़ो वीरा ऋषभाणामिवर्षभाः ||
६५ ख
सञ्जय़ उवाच:
सुनिमग्नांश्च भीमास्त्रैर्धार्तराष्ट्रान्महारथान् |
६६ क
सञ्जय़ उवाच:
धृष्टद्युम्नमुखा वीरा घ्नन्ति शत्रून्सहस्रशः |
६६ ख
सञ्जय़ उवाच:
विषण्णभूय़िष्ठरथा धार्तराष्ट्री महाचमूः ||
६६ ग
सञ्जय़ उवाच:
पश्य भीमेन नाराचैश्छिन्ना नागाः पतन्त्यमी |
६७ क
सञ्जय़ उवाच:
वज्रिवज्राहतानीव शिखराणि महीभृताम् ||
६७ ख
सञ्जय़ उवाच:
भीमसेनस्य निर्विद्धा वाणैः संनतपर्वभिः |
६८ क
सञ्जय़ उवाच:
स्वान्यनीकानि मृद्नन्तो द्रवन्त्येते महागजाः ||
६८ ख
सञ्जय़ उवाच:
नाभिजानासि भीमस्य सिंहनादं दुरुत्सहम् |
६९ क
सञ्जय़ उवाच:
नदतोऽर्जुन सङ्ग्रामे वीरस्य जितकाशिनः ||
६९ ख
सञ्जय़ उवाच:
एष नैषादिरभ्येति द्विपमुख्येन पाण्डवम् |
७० क
सञ्जय़ उवाच:
जिघांसुस्तोमरैः क्रुद्धो दण्डपाणिरिवान्तकः ||
७० ख
सञ्जय़ उवाच:
सतोमरावस्य भुजौ छिन्नौ भीमेन गर्जतः |
७१ क
सञ्जय़ उवाच:
तीक्ष्णैरग्निशिखाप्रख्यैर्नाराचैर्दशभिर्हतः ||
७१ ख
सञ्जय़ उवाच:
हत्वैनं पुनराय़ाति नागानन्यान्प्रहारिणः |
७२ क
सञ्जय़ उवाच:
पश्य नीलाम्वुदनिभान्महामात्रैरधिष्ठितान् |
७२ ख
सञ्जय़ उवाच:
शक्तितोमरसङ्काशैर्विनिघ्नन्तं वृकोदरम् ||
७२ ग
सञ्जय़ उवाच:
सप्त सप्त च नागांस्तान्वैजय़न्तीश्च सध्वजाः |
७३ क
सञ्जय़ उवाच:
निहत्य निशितैर्वाणैश्छिन्नाः पार्थाग्रजेन ते |
७३ ख
सञ्जय़ उवाच:
दशभिर्दशभिश्चैको नाराचैर्निहतो गजः ||
७३ ग
सञ्जय़ उवाच:
न चासौ धार्तराष्ट्राणां श्रूय़ते निनदस्तथा |
७४ क
सञ्जय़ उवाच:
पुरन्दरसमे क्रुद्धे निवृत्ते भरतर्षभे ||
७४ ख
सञ्जय़ उवाच:
अक्षौहिण्यस्तथा तिस्रो धार्तराष्ट्रस्य संहताः |
७५ क
सञ्जय़ उवाच:
क्रुद्धेन नरसिंहेन भीमसेनेन वारिताः ||
७५ ख
सञ्जय़ उवाच:
भीमसेनेन तत्कर्म कृतं दृष्ट्वा सुदुष्करम् |
७६ क
सञ्जय़ उवाच:
अर्जुनो व्यधमच्छिष्टानहितान्निशितैः शरैः ||
७६ ख
सञ्जय़ उवाच:
ते वध्यमानाः समरे संशप्तकगणाः प्रभो |
७७ क
सञ्जय़ उवाच:
शक्रस्यातिथितां गत्वा विशोका ह्यभवन्मुदा ||
७७ ख
सञ्जय़ उवाच:
पार्थश्च पुरुषव्याघ्रः शरैः संनतपर्वभिः |
७८ क
सञ्जय़ उवाच:
जघान धार्तराष्ट्रस्य चतुर्विधवलां चमूम् ||
७८ ख