chevron_left सभा पर्व अध्याय ४२
वैशम्पाय़न उवाच:
ततः श्रुत्वैव भीष्मस्य चेदिराडुरुविक्रमः |
१ क
वैशम्पाय़न उवाच:
युय़ुत्सुर्वासुदेवेन वासुदेवमुवाच ह ||
१ ख
वैशम्पाय़न उवाच:
आह्वय़े त्वां रणं गच्छ मय़ा सार्धं जनार्दन |
२ क
वैशम्पाय़न उवाच:
यावदद्य निहन्मि त्वां सहितं सर्वपाण्डवैः ||
२ ख
वैशम्पाय़न उवाच:
सह त्वय़ा हि मे वध्याः पाण्डवाः कृष्ण सर्वथा |
३ क
वैशम्पाय़न उवाच:
नृपतीन्समतिक्रम्य यैरराजा त्वमर्चितः ||
३ ख
वैशम्पाय़न उवाच:
ये त्वां दासमराजानं वाल्यादर्चन्ति दुर्मतिम् |
४ क
वैशम्पाय़न उवाच:
अनर्हमर्हवत्कृष्ण वध्यास्त इति मे मतिः |
४ ख
वैशम्पाय़न उवाच:
इत्युक्त्वा राजशार्दूलस्तस्थौ गर्जन्नमर्षणः ||
४ ग
वैशम्पाय़न उवाच:
एवमुक्ते ततः कृष्णो मृदुपूर्वमिदं वचः |
५ क
वैशम्पाय़न उवाच:
उवाच पार्थिवान्सर्वांस्तत्समक्षं च पाण्डवान् ||
५ ख
वैशम्पाय़न उवाच:
एष नः शत्रुरत्यन्तं पार्थिवाः सात्वतीसुतः |
६ क
वैशम्पाय़न उवाच:
सात्वतानां नृशंसात्मा न हितोऽनपकारिणाम् ||
६ ख
वैशम्पाय़न उवाच:
प्राग्ज्योतिषपुरं यातानस्माञ्ज्ञात्वा नृशंसकृत् |
७ क
वैशम्पाय़न उवाच:
अदहद्द्वारकामेष स्वस्रीय़ः सन्नराधिपाः ||
७ ख
वैशम्पाय़न उवाच:
क्रीडतो भोजराजन्यानेष रैवतके गिरौ |
८ क
वैशम्पाय़न उवाच:
हत्वा वद्ध्वा च तान्सर्वानुपाय़ात्स्वपुरं पुरा ||
८ ख
वैशम्पाय़न उवाच:
अश्वमेधे हय़ं मेध्यमुत्सृष्टं रक्षिभिर्वृतम् |
९ क
वैशम्पाय़न उवाच:
पितुर्मे यज्ञविघ्नार्थमहरत्पापनिश्चय़ः ||
९ ख
वैशम्पाय़न उवाच:
सौवीरान्प्रतिपत्तौ च वभ्रोरेष यशस्विनः |
१० क
वैशम्पाय़न उवाच:
भार्यामभ्यहरन्मोहादकामां तामितो गताम् ||
१० ख
वैशम्पाय़न उवाच:
एष माय़ाप्रतिच्छन्नः करूषार्थे तपस्विनीम् |
११ क
वैशम्पाय़न उवाच:
जहार भद्रां वैशालीं मातुलस्य नृशंसकृत् ||
११ ख
वैशम्पाय़न उवाच:
पितृष्वसुः कृते दुःखं सुमहन्मर्षय़ाम्यहम् |
१२ क
वैशम्पाय़न उवाच:
दिष्ट्या त्विदं सर्वराज्ञां संनिधावद्य वर्तते ||
१२ ख
वैशम्पाय़न उवाच:
पश्यन्ति हि भवन्तोऽद्य मय़्यतीव व्यतिक्रमम् |
१३ क
वैशम्पाय़न उवाच:
कृतानि तु परोक्षं मे यानि तानि निवोधत ||
१३ ख
वैशम्पाय़न उवाच:
इमं त्वस्य न शक्ष्यामि क्षन्तुमद्य व्यतिक्रमम् |
१४ क
वैशम्पाय़न उवाच:
अवलेपाद्वधार्हस्य समग्रे राजमण्डले ||
१४ ख
वैशम्पाय़न उवाच:
रुक्मिण्यामस्य मूढस्य प्रार्थनासीन्मुमूर्षतः |
१५ क
वैशम्पाय़न उवाच:
न च तां प्राप्तवान्मूढः शूद्रो वेदश्रुतिं यथा ||
१५ ख
वैशम्पाय़न उवाच:
एवमादि ततः सर्वे सहितास्ते नराधिपाः |
१६ क
वैशम्पाय़न उवाच:
वासुदेववचः श्रुत्वा चेदिराजं व्यगर्हय़न् ||
१६ ख
वैशम्पाय़न उवाच:
ततस्तद्वचनं श्रुत्वा शिशुपालः प्रतापवान् |
१७ क
वैशम्पाय़न उवाच:
जहास स्वनवद्धासं प्रहस्येदमुवाच ह ||
१७ ख
वैशम्पाय़न उवाच:
मत्पूर्वां रुक्मिणीं कृष्ण संसत्सु परिकीर्तय़न् |
१८ क
वैशम्पाय़न उवाच:
विशेषतः पार्थिवेषु व्रीडां न कुरुषे कथम् ||
१८ ख
वैशम्पाय़न उवाच:
मन्यमानो हि कः सत्सु पुरुषः परिकीर्तय़ेत् |
१९ क
वैशम्पाय़न उवाच:
अन्यपूर्वां स्त्रिय़ं जातु त्वदन्यो मधुसूदन ||
१९ ख
वैशम्पाय़न उवाच:
क्षम वा यदि ते श्रद्धा मा वा कृष्ण मम क्षम |
२० क
वैशम्पाय़न उवाच:
क्रुद्धाद्वापि प्रसन्नाद्वा किं मे त्वत्तो भविष्यति ||
२० ख
वैशम्पाय़न उवाच:
तथा व्रुवत एवास्य भगवान्मधुसूदनः |
२१ क
वैशम्पाय़न उवाच:
व्यपाहरच्छिरः क्रुद्धश्चक्रेणामित्रकर्षणः |
२१ ख
वैशम्पाय़न उवाच:
स पपात महावाहुर्वज्राहत इवाचलः ||
२१ ग
वैशम्पाय़न उवाच:
ततश्चेदिपतेर्देहात्तेजोऽग्र्यं ददृशुर्नृपाः |
२२ क
वैशम्पाय़न उवाच:
उत्पतन्तं महाराज गगनादिव भास्करम् ||
२२ ख
वैशम्पाय़न उवाच:
ततः कमलपत्राक्षं कृष्णं लोकनमस्कृतम् |
२३ क
वैशम्पाय़न उवाच:
ववन्दे तत्तदा तेजो विवेश च नराधिप ||
२३ ख
वैशम्पाय़न उवाच:
तदद्भुतममन्यन्त दृष्ट्वा सर्वे महीक्षितः |
२४ क
वैशम्पाय़न उवाच:
यद्विवेश महावाहुं तत्तेजः पुरुषोत्तमम् ||
२४ ख
वैशम्पाय़न उवाच:
अनभ्रे प्रववर्ष द्यौः पपात ज्वलिताशनिः |
२५ क
वैशम्पाय़न उवाच:
कृष्णेन निहते चैद्ये चचाल च वसुन्धरा ||
२५ ख
वैशम्पाय़न उवाच:
ततः केचिन्महीपाला नाव्रुवंस्तत्र किञ्चन |
२६ क
वैशम्पाय़न उवाच:
अतीतवाक्पथे काले प्रेक्षमाणा जनार्दनम् ||
२६ ख
वैशम्पाय़न उवाच:
हस्तैर्हस्ताग्रमपरे प्रत्यपीषन्नमर्षिताः |
२७ क
वैशम्पाय़न उवाच:
अपरे दशनैरोष्ठानदशन्क्रोधमूर्छिताः ||
२७ ख
वैशम्पाय़न उवाच:
रहस्तु केचिद्वार्ष्णेय़ं प्रशशंसुर्नराधिपाः |
२८ क
वैशम्पाय़न उवाच:
केचिदेव तु संरव्धा मध्यस्थास्त्वपरेऽभवन् ||
२८ ख
वैशम्पाय़न उवाच:
प्रहृष्टाः केशवं जग्मुः संस्तुवन्तो महर्षय़ः |
२९ क
वैशम्पाय़न उवाच:
व्राह्मणाश्च महात्मानः पार्थिवाश्च महावलाः ||
२९ ख
वैशम्पाय़न उवाच:
पाण्डवस्त्वव्रवीद्भ्रातॄन्सत्कारेण महीपतिम् |
३० क
वैशम्पाय़न उवाच:
दमघोषात्मजं वीरं संसाधय़त मा चिरम् |
३० ख
वैशम्पाय़न उवाच:
तथा च कृतवन्तस्ते भ्रातुर्वै शासनं तदा ||
३० ग
वैशम्पाय़न उवाच:
चेदीनामाधिपत्ये च पुत्रमस्य महीपतिम् |
३१ क
वैशम्पाय़न उवाच:
अभ्यषिञ्चत्तदा पार्थः सह तैर्वसुधाधिपैः ||
३१ ख
वैशम्पाय़न उवाच:
ततः स कुरुराजस्य क्रतुः सर्वसमृद्धिमान् |
३२ क
वैशम्पाय़न उवाच:
यूनां प्रीतिकरो राजन्सम्वभौ विपुलौजसः ||
३२ ख
वैशम्पाय़न उवाच:
शान्तविघ्नः सुखारम्भः प्रभूतधनधान्यवान् |
३३ क
वैशम्पाय़न उवाच:
अन्नवान्वहुभक्ष्यश्च केशवेन सुरक्षितः ||
३३ ख
वैशम्पाय़न उवाच:
समापय़ामास च तं राजसूय़ं महाक्रतुम् |
३४ क
वैशम्पाय़न उवाच:
तं तु यज्ञं महावाहुरा समाप्तेर्जनार्दनः |
३४ ख
वैशम्पाय़न उवाच:
ररक्ष भगवाञ्शौरिः शार्ङ्गचक्रगदाधरः ||
३४ ग
वैशम्पाय़न उवाच:
ततस्त्ववभृथस्नातं धर्मराजं युधिष्ठिरम् |
३५ क
वैशम्पाय़न उवाच:
समस्तं पार्थिवं क्षत्रमभिगम्येदमव्रवीत् ||
३५ ख
वैशम्पाय़न उवाच:
दिष्ट्या वर्धसि धर्मज्ञ साम्राज्यं प्राप्तवान्विभो |
३६ क
वैशम्पाय़न उवाच:
आजमीढाजमीढानां यशः संवर्धितं त्वय़ा |
३६ ख
वैशम्पाय़न उवाच:
कर्मणैतेन राजेन्द्र धर्मश्च सुमहान्कृतः ||
३६ ग
वैशम्पाय़न उवाच:
आपृच्छामो नरव्याघ्र सर्वकामैः सुपूजिताः |
३७ क
वैशम्पाय़न उवाच:
स्वराष्ट्राणि गमिष्यामस्तदनुज्ञातुमर्हसि ||
३७ ख
वैशम्पाय़न उवाच:
श्रुत्वा तु वचनं राज्ञां धर्मराजो युधिष्ठिरः |
३८ क
वैशम्पाय़न उवाच:
यथार्हं पूज्य नृपतीन्भ्रातॄन्सर्वानुवाच ह ||
३८ ख
वैशम्पाय़न उवाच:
राजानः सर्व एवैते प्रीत्यास्मान्समुपागताः |
३९ क
वैशम्पाय़न उवाच:
प्रस्थिताः स्वानि राष्ट्राणि मामापृच्छ्य परन्तपाः |
३९ ख
वैशम्पाय़न उवाच:
तेऽनुव्रजत भद्रं वो विषय़ान्तं नृपोत्तमान् ||
३९ ग
वैशम्पाय़न उवाच:
भ्रातुर्वचनमाज्ञाय़ पाण्डवा धर्मचारिणः |
४० क
वैशम्पाय़न उवाच:
यथार्हं नृपमुख्यांस्तानेकैकं समनुव्रजन् ||
४० ख
वैशम्पाय़न उवाच:
विराटमन्वय़ात्तूर्णं धृष्टद्युम्नः प्रतापवान् |
४१ क
वैशम्पाय़न उवाच:
धनञ्जय़ो यज्ञसेनं महात्मानं महारथः ||
४१ ख
वैशम्पाय़न उवाच:
भीष्मं च धृतराष्ट्रं च भीमसेनो महावलः |
४२ क
वैशम्पाय़न उवाच:
द्रोणं च ससुतं वीरं सहदेवो महारथः ||
४२ ख
वैशम्पाय़न उवाच:
नकुलः सुवलं राजन्सहपुत्रं समन्वय़ात् |
४३ क
वैशम्पाय़न उवाच:
द्रौपदेय़ाः ससौभद्राः पार्वतीय़ान्महीपतीन् ||
४३ ख
वैशम्पाय़न उवाच:
अन्वगच्छंस्तथैवान्यान्क्षत्रिय़ान्क्षत्रिय़र्षभाः |
४४ क
वैशम्पाय़न उवाच:
एवं सम्पूजितास्ते वै जग्मुर्विप्राश्च सर्वशः ||
४४ ख
वैशम्पाय़न उवाच:
गतेषु पार्थिवेन्द्रेषु सर्वेषु भरतर्षभ |
४५ क
वैशम्पाय़न उवाच:
युधिष्ठिरमुवाचेदं वासुदेवः प्रतापवान् ||
४५ ख
वैशम्पाय़न उवाच:
आपृच्छे त्वां गमिष्यामि द्वारकां कुरुनन्दन |
४६ क
वैशम्पाय़न उवाच:
राजसूय़ं क्रतुश्रेष्ठं दिष्ट्या त्वं प्राप्तवानसि ||
४६ ख
वैशम्पाय़न उवाच:
तमुवाचैवमुक्तस्तु धर्मराण्मधुसूदनम् |
४७ क
वैशम्पाय़न उवाच:
तव प्रसादाद्गोविन्द प्राप्तवानस्मि वै क्रतुम् ||
४७ ख