chevron_left सभा पर्व अध्याय ४२
वैशम्पाय़न उवाच:
समस्तं पार्थिवं क्षत्रं त्वत्प्रसादाद्वशानुगम् |
४८ क
वैशम्पाय़न उवाच:
उपादाय़ वलिं मुख्यं मामेव समुपस्थितम् ||
४८ ख
वैशम्पाय़न उवाच:
न वय़ं त्वामृते वीर रंस्यामेह कथञ्चन |
४९ क
वैशम्पाय़न उवाच:
अवश्यं चापि गन्तव्या त्वय़ा द्वारवती पुरी ||
४९ ख
वैशम्पाय़न उवाच:
एवमुक्तः स धर्मात्मा युधिष्ठिरसहाय़वान् |
५० क
वैशम्पाय़न उवाच:
अभिगम्याव्रवीत्प्रीतः पृथां पृथुय़शा हरिः ||
५० ख
वैशम्पाय़न उवाच:
साम्राज्यं समनुप्राप्ताः पुत्रास्तेऽद्य पितृष्वसः |
५१ क
वैशम्पाय़न उवाच:
सिद्धार्था वसुमन्तश्च सा त्वं प्रीतिमवाप्नुहि ||
५१ ख
वैशम्पाय़न उवाच:
अनुज्ञातस्त्वय़ा चाहं द्वारकां गन्तुमुत्सहे |
५२ क
वैशम्पाय़न उवाच:
सुभद्रां द्रौपदीं चैव सभाजय़त केशवः ||
५२ ख
वैशम्पाय़न उवाच:
निष्क्रम्यान्तःपुराच्चैव युधिष्ठिरसहाय़वान् |
५३ क
वैशम्पाय़न उवाच:
स्नातश्च कृतजप्यश्च व्राह्मणान्स्वस्ति वाच्य च ||
५३ ख
वैशम्पाय़न उवाच:
ततो मेघवरप्रख्यं स्यन्दनं वै सुकल्पितम् |
५४ क
वैशम्पाय़न उवाच:
योजय़ित्वा महाराज दारुकः प्रत्युपस्थितः ||
५४ ख
वैशम्पाय़न उवाच:
उपस्थितं रथं दृष्ट्वा तार्क्ष्यप्रवरकेतनम् |
५५ क
वैशम्पाय़न उवाच:
प्रदक्षिणमुपावृत्य समारुह्य महामनाः |
५५ ख
वैशम्पाय़न उवाच:
प्रय़यौ पुण्डरीकाक्षस्ततो द्वारवतीं पुरीम् ||
५५ ग
वैशम्पाय़न उवाच:
तं पद्भ्यामनुवव्राज धर्मराजो युधिष्ठिरः |
५६ क
वैशम्पाय़न उवाच:
भ्रातृभिः सहितः श्रीमान्वासुदेवं महावलम् ||
५६ ख
वैशम्पाय़न उवाच:
ततो मुहूर्तं सङ्गृह्य स्यन्दनप्रवरं हरिः |
५७ क
वैशम्पाय़न उवाच:
अव्रवीत्पुण्डरीकाक्षः कुन्तीपुत्रं युधिष्ठिरम् ||
५७ ख
वैशम्पाय़न उवाच:
अप्रमत्तः स्थितो नित्यं प्रजाः पाहि विशां पते |
५८ क
वैशम्पाय़न उवाच:
पर्जन्यमिव भूतानि महाद्रुममिवाण्डजाः |
५८ ख
वैशम्पाय़न उवाच:
वान्धवास्त्वोपजीवन्तु सहस्राक्षमिवामराः ||
५८ ग
वैशम्पाय़न उवाच:
कृत्वा परस्परेणैवं संविदं कृष्णपाण्डवौ |
५९ क
वैशम्पाय़न उवाच:
अन्योन्यं समनुज्ञाप्य जग्मतुः स्वगृहान्प्रति ||
५९ ख
वैशम्पाय़न उवाच:
गते द्वारवतीं कृष्णे सात्वतप्रवरे नृप |
६० क
वैशम्पाय़न उवाच:
एको दुर्योधनो राजा शकुनिश्चापि सौवलः |
६० ख
वैशम्पाय़न उवाच:
तस्यां सभाय़ां दिव्याय़ामूषतुस्तौ नरर्षभौ ||
६० ग