सञ्जय़ उवाच:
एवमुक्तस्ततो राजा गौतमेन यशस्विना |
१ क
सञ्जय़ उवाच:
निःश्वस्य दीर्घमुष्णं च तूष्णीमासीद्विशां पते ||
१ ख
सञ्जय़ उवाच:
ततो मुहूर्तं स ध्यात्वा धार्तराष्ट्रो महामनाः |
२ क
सञ्जय़ उवाच:
कृपं शारद्वतं वाक्यमित्युवाच परन्तपः ||
२ ख
सञ्जय़ उवाच:
यत्किञ्चित्सुहृदा वाच्यं तत्सर्वं श्रावितो ह्यहम् |
३ क
सञ्जय़ उवाच:
कृतं च भवता सर्वं प्राणान्सन्त्यज्य युध्यता ||
३ ख
सञ्जय़ उवाच:
गाहमानमनीकानि युध्यमानं महारथैः |
४ क
सञ्जय़ उवाच:
पाण्डवैरतितेजोभिर्लोकस्त्वामनुदृष्टवान् ||
४ ख
सञ्जय़ उवाच:
सुहृदा यदिदं वाच्यं भवता श्रावितो ह्यहम् |
५ क
सञ्जय़ उवाच:
न मां प्रीणाति तत्सर्वं मुमूर्षोरिव भेषजम् ||
५ ख
सञ्जय़ उवाच:
हेतुकारणसंय़ुक्तं हितं वचनमुत्तमम् |
६ क
सञ्जय़ उवाच:
उच्यमानं महावाहो न मे विप्राग्र्य रोचते ||
६ ख
सञ्जय़ उवाच:
राज्याद्विनिकृतोऽस्माभिः कथं सोऽस्मासु विश्वसेत् |
७ क
सञ्जय़ उवाच:
अक्षद्यूते च नृपतिर्जितोऽस्माभिर्महाधनः |
७ ख
सञ्जय़ उवाच:
स कथं मम वाक्यानि श्रद्दध्याद्भूय़ एव तु ||
७ ग
सञ्जय़ उवाच:
तथा दौत्येन सम्प्राप्तः कृष्णः पार्थहिते रतः |
८ क
सञ्जय़ उवाच:
प्रलव्धश्च हृषीकेशस्तच्च कर्म विरोधितम् |
८ ख
सञ्जय़ उवाच:
स च मे वचनं व्रह्मन्कथमेवाभिमंस्यते ||
८ ग
सञ्जय़ उवाच:
विललाप हि यत्कृष्णा सभामध्ये समेय़ुषी |
९ क
सञ्जय़ उवाच:
न तन्मर्षय़ते कृष्णो न राज्यहरणं तथा ||
९ ख
सञ्जय़ उवाच:
एकप्राणावुभौ कृष्णावन्योन्यं प्रति संहतौ |
१० क
सञ्जय़ उवाच:
पुरा यच्छ्रुतमेवासीदद्य पश्यामि तत्प्रभो ||
१० ख
सञ्जय़ उवाच:
स्वस्रीय़ं च हतं श्रुत्वा दुःखं स्वपिति केशवः |
११ क
सञ्जय़ उवाच:
कृतागसो वय़ं तस्य स मदर्थं कथं क्षमेत् ||
११ ख
सञ्जय़ उवाच:
अभिमन्योर्विनाशेन न शर्म लभतेऽर्जुनः |
१२ क
सञ्जय़ उवाच:
स कथं मद्धिते यत्नं प्रकरिष्यति याचितः ||
१२ ख
सञ्जय़ उवाच:
मध्यमः पाण्डवस्तीक्ष्णो भीमसेनो महावलः |
१३ क
सञ्जय़ उवाच:
प्रतिज्ञातं च तेनोग्रं स भज्येत न संनमेत् ||
१३ ख
सञ्जय़ उवाच:
उभौ तौ वद्धनिस्त्रिंशावुभौ चावद्धकङ्कटौ |
१४ क
सञ्जय़ उवाच:
कृतवैरावुभौ वीरौ यमावपि यमोपमौ ||
१४ ख
सञ्जय़ उवाच:
धृष्टद्युम्नः शिखण्डी च कृतवैरौ मय़ा सह |
१५ क
सञ्जय़ उवाच:
तौ कथं मद्धिते यत्नं प्रकुर्यातां द्विजोत्तम ||
१५ ख
सञ्जय़ उवाच:
दुःशासनेन यत्कृष्णा एकवस्त्रा रजस्वला |
१६ क
सञ्जय़ उवाच:
परिक्लिष्टा सभामध्ये सर्वलोकस्य पश्यतः ||
१६ ख
सञ्जय़ उवाच:
तथा विवसनां दीनां स्मरन्त्यद्यापि पाण्डवाः |
१७ क
सञ्जय़ उवाच:
न निवारय़ितुं शक्याः सङ्ग्रामात्ते परन्तपाः ||
१७ ख
सञ्जय़ उवाच:
यदा च द्रौपदी कृष्णा मद्विनाशाय़ दुःखिता |
१८ क
सञ्जय़ उवाच:
उग्रं तेपे तपः कृष्णा भर्तॄणामर्थसिद्धय़े |
१८ ख
सञ्जय़ उवाच:
स्थण्डिले नित्यदा शेते यावद्वैरस्य यातना ||
१८ ग
सञ्जय़ उवाच:
निक्षिप्य मानं दर्पं च वासुदेवसहोदरा |
१९ क
सञ्जय़ उवाच:
कृष्णाय़ाः प्रेष्यवद्भूत्वा शुश्रूषां कुरुते सदा ||
१९ ख
सञ्जय़ उवाच:
इति सर्वं समुन्नद्धं न निर्वाति कथञ्चन |
२० क
सञ्जय़ उवाच:
अभिमन्योर्विनाशेन स सन्धेय़ः कथं मय़ा ||
२० ख
सञ्जय़ उवाच:
कथं च नाम भुक्त्वेमां पृथिवीं सागराम्वराम् |
२१ क
सञ्जय़ उवाच:
पाण्डवानां प्रसादेन भुञ्जीय़ां राज्यमल्पकम् ||
२१ ख
सञ्जय़ उवाच:
उपर्युपरि राज्ञां वै ज्वलितो भास्करो यथा |
२२ क
सञ्जय़ उवाच:
युधिष्ठिरं कथं पश्चादनुय़ास्यामि दासवत् ||
२२ ख
सञ्जय़ उवाच:
कथं भुक्त्वा स्वय़ं भोगान्दत्त्वा दाय़ांश्च पुष्कलान् |
२३ क
सञ्जय़ उवाच:
कृपणं वर्तय़िष्यामि कृपणैः सह जीविकाम् ||
२३ ख
सञ्जय़ उवाच:
नाभ्यसूय़ामि ते वाक्यमुक्तं स्निग्धं हितं त्वय़ा |
२४ क
सञ्जय़ उवाच:
न तु सन्धिमहं मन्ये प्राप्तकालं कथञ्चन ||
२४ ख
सञ्जय़ उवाच:
सुनीतमनुपश्यामि सुय़ुद्धेन परन्तप |
२५ क
सञ्जय़ उवाच:
नाय़ं क्लीवय़ितुं कालः संय़ोद्धुं काल एव नः ||
२५ ख
सञ्जय़ उवाच:
इष्टं मे वहुभिर्यज्ञैर्दत्ता विप्रेषु दक्षिणाः |
२६ क
सञ्जय़ उवाच:
प्राप्ताः क्रमश्रुता वेदाः शत्रूणां मूर्ध्नि च स्थितम् ||
२६ ख
सञ्जय़ उवाच:
भृत्या मे सुभृतास्तात दीनश्चाभ्युद्धृतो जनः |
२७ क
सञ्जय़ उवाच:
यातानि परराष्ट्राणि स्वराष्ट्रमनुपालितम् ||
२७ ख
सञ्जय़ उवाच:
भुक्ताश्च विविधा भोगास्त्रिवर्गः सेवितो मय़ा |
२८ क
सञ्जय़ उवाच:
पितॄणां गतमानृण्यं क्षत्रधर्मस्य चोभय़ोः ||
२८ ख
सञ्जय़ उवाच:
न ध्रुवं सुखमस्तीह कुतो राज्यं कुतो यशः |
२९ क
सञ्जय़ उवाच:
इह कीर्तिर्विधातव्या सा च युद्धेन नान्यथा ||
२९ ख
सञ्जय़ उवाच:
गृहे यत्क्षत्रिय़स्यापि निधनं तद्विगर्हितम् |
३० क
सञ्जय़ उवाच:
अधर्मः सुमहानेष यच्छय़्यामरणं गृहे ||
३० ख
सञ्जय़ उवाच:
अरण्ये यो विमुञ्चेत सङ्ग्रामे वा तनुं नरः |
३१ क
सञ्जय़ उवाच:
क्रतूनाहृत्य महतो महिमानं स गच्छति ||
३१ ख
सञ्जय़ उवाच:
कृपणं विलपन्नार्तो जरय़ाभिपरिप्लुतः |
३२ क
सञ्जय़ उवाच:
म्रिय़ते रुदतां मध्ये ज्ञातीनां न स पूरुषः ||
३२ ख
सञ्जय़ उवाच:
त्यक्त्वा तु विविधान्भोगान्प्राप्तानां परमां गतिम् |
३३ क
सञ्जय़ उवाच:
अपीदानीं सुय़ुद्धेन गच्छेय़ं सत्सलोकताम् ||
३३ ख
सञ्जय़ उवाच:
शूराणामार्यवृत्तानां सङ्ग्रामेष्वनिवर्तिनाम् |
३४ क
सञ्जय़ उवाच:
धीमतां सत्यसन्धानां सर्वेषां क्रतुय़ाजिनाम् ||
३४ ख
सञ्जय़ उवाच:
शस्त्रावभृथमाप्तानां ध्रुवं वासस्त्रिविष्टपे |
३५ क
सञ्जय़ उवाच:
मुदा नूनं प्रपश्यन्ति शुभ्रा ह्यप्सरसां गणाः ||
३५ ख
सञ्जय़ उवाच:
पश्यन्ति नूनं पितरः पूजिताञ्शक्रसंसदि |
३६ क
सञ्जय़ उवाच:
अप्सरोभिः परिवृतान्मोदमानांस्त्रिविष्टपे ||
३६ ख
सञ्जय़ उवाच:
पन्थानममरैर्यातं शूरैश्चैवानिवर्तिभिः |
३७ क
सञ्जय़ उवाच:
अपि तैः सङ्गतं मार्गं वय़मप्यारुहेमहि ||
३७ ख
सञ्जय़ उवाच:
पितामहेन वृद्धेन तथाचार्येण धीमता |
३८ क
सञ्जय़ उवाच:
जय़द्रथेन कर्णेन तथा दुःशासनेन च ||
३८ ख
सञ्जय़ उवाच:
घटमाना मदर्थेऽस्मिन्हताः शूरा जनाधिपाः |
३९ क
सञ्जय़ उवाच:
शेरते लोहिताक्ताङ्गाः पृथिव्यां शरविक्षताः ||
३९ ख
सञ्जय़ उवाच:
उत्तमास्त्रविदः शूरा यथोक्तक्रतुय़ाजिनः |
४० क
सञ्जय़ उवाच:
त्यक्त्वा प्राणान्यथान्याय़मिन्द्रसद्मसु धिष्ठिताः ||
४० ख
सञ्जय़ उवाच:
तैस्त्वय़ं रचितः पन्था दुर्गमो हि पुनर्भवेत् |
४१ क
सञ्जय़ उवाच:
सम्पतद्भिर्महावेगैरितो याद्भिश्च सद्गतिम् ||
४१ ख
सञ्जय़ उवाच:
ये मदर्थे हताः शूरास्तेषां कृतमनुस्मरन् |
४२ क
सञ्जय़ उवाच:
ऋणं तत्प्रतिमुञ्चानो न राज्ये मन आदधे ||
४२ ख
सञ्जय़ उवाच:
पातय़ित्वा वय़स्यांश्च भ्रातॄनथ पितामहान् |
४३ क
सञ्जय़ उवाच:
जीवितं यदि रक्षेय़ं लोको मां गर्हय़ेद्ध्रुवम् ||
४३ ख
सञ्जय़ उवाच:
कीदृशं च भवेद्राज्यं मम हीनस्य वन्धुभिः |
४४ क
सञ्जय़ उवाच:
सखिभिश्च सुहृद्भिश्च प्रणिपत्य च पाण्डवम् ||
४४ ख
सञ्जय़ उवाच:
सोऽहमेतादृशं कृत्वा जगतोऽस्य पराभवम् |
४५ क
सञ्जय़ उवाच:
सुय़ुद्धेन ततः स्वर्गं प्राप्स्यामि न तदन्यथा ||
४५ ख
सञ्जय़ उवाच:
एवं दुर्योधनेनोक्तं सर्वे सम्पूज्य तद्वचः |
४६ क
सञ्जय़ उवाच:
साधु साध्विति राजानं क्षत्रिय़ाः सम्वभाषिरे ||
४६ ख
सञ्जय़ उवाच:
पराजय़मशोचन्तः कृतचित्ताश्च विक्रमे |
४७ क
सञ्जय़ उवाच:
सर्वे सुनिश्चिता योद्धुमुदग्रमनसोऽभवन् ||
४७ ख
सञ्जय़ उवाच:
ततो वाहान्समाश्वास्य सर्वे युद्धाभिनन्दिनः |
४८ क
सञ्जय़ उवाच:
ऊने द्विय़ोजने गत्वा प्रत्यतिष्ठन्त कौरवाः ||
४८ ख
सञ्जय़ उवाच:
आकाशे विद्रुमे पुण्ये प्रस्थे हिमवतः शुभे |
४९ क