chevron_left शान्ति पर्व अध्याय ३२८
जनमेजय़ उवाच:
अस्तौषीद्यैरिमं व्यासः सशिष्यो मधुसूदनम् |
१ क
जनमेजय़ उवाच:
नामभिर्विविधैरेषां निरुक्तं भगवन्मम ||
१ ख
जनमेजय़ उवाच:
वक्तुमर्हसि शुश्रूषोः प्रजापतिपतेर्हरेः |
२ क
जनमेजय़ उवाच:
श्रुत्वा भवेय़ं यत्पूतः शरच्चन्द्र इवामलः ||
२ ख
वैशम्पाय़न उवाच:
शृणु राजन्यथाचष्ट फल्गुनस्य हरिर्विभुः |
३ क
वैशम्पाय़न उवाच:
प्रसन्नात्मात्मनो नाम्नां निरुक्तं गुणकर्मजम् ||
३ ख
वैशम्पाय़न उवाच:
नामभिः कीर्तितैस्तस्य केशवस्य महात्मनः |
४ क
वैशम्पाय़न उवाच:
पृष्टवान्केशवं राजन्फल्गुनः परवीरहा ||
४ ख
अर्जुन उवाच:
भगवन्भूतभव्येश सर्वभूतसृगव्यय |
५ क
अर्जुन उवाच:
लोकधाम जगन्नाथ लोकानामभय़प्रद ||
५ ख
अर्जुन उवाच:
यानि नामानि ते देव कीर्तितानि महर्षिभिः |
६ क
अर्जुन उवाच:
वेदेषु सपुराणेषु यानि गुह्यानि कर्मभिः ||
६ ख
अर्जुन उवाच:
तेषां निरुक्तं त्वत्तोऽहं श्रोतुमिच्छामि केशव |
७ क
अर्जुन उवाच:
न ह्यन्यो वर्तय़ेन्नाम्नां निरुक्तं त्वामृते प्रभो ||
७ ख
श्रीभगवानु उवाच:
ऋग्वेदे सय़जुर्वेदे तथैवाथर्वसामसु |
८ क
श्रीभगवानु उवाच:
पुराणे सोपनिषदे तथैव ज्योतिषेऽर्जुन ||
८ ख
श्रीभगवानु उवाच:
साङ्ख्ये च योगशास्त्रे च आय़ुर्वेदे तथैव च |
९ क
श्रीभगवानु उवाच:
वहूनि मम नामानि कीर्तितानि महर्षिभिः ||
९ ख
श्रीभगवानु उवाच:
गौणानि तत्र नामानि कर्मजानि च कानिचित् |
१० क
श्रीभगवानु उवाच:
निरुक्तं कर्मजानां च शृणुष्व प्रय़तोऽनघ |
१० ख
श्रीभगवानु उवाच:
कथ्यमानं मय़ा तात त्वं हि मेऽर्धं स्मृतः पुरा ||
१० ग
श्रीभगवानु उवाच:
नमोऽतिय़शसे तस्मै देहिनां परमात्मने |
११ क
श्रीभगवानु उवाच:
नाराय़णाय़ विश्वाय़ निर्गुणाय़ गुणात्मने ||
११ ख
श्रीभगवानु उवाच:
यस्य प्रसादजो व्रह्मा रुद्रश्च क्रोधसम्भवः |
१२ क
श्रीभगवानु उवाच:
योऽसौ योनिर्हि सर्वस्य स्थावरस्य चरस्य च ||
१२ ख
श्रीभगवानु उवाच:
अष्टादशगुणं यत्तत्सत्त्वं सत्त्ववतां वर |
१३ क
श्रीभगवानु उवाच:
प्रकृतिः सा परा मह्यं रोदसी योगधारिणी |
१३ ख
श्रीभगवानु उवाच:
ऋता सत्यामराजय़्या लोकानामात्मसञ्ज्ञिता ||
१३ ग
श्रीभगवानु उवाच:
तस्मात्सर्वाः प्रवर्तन्ते सर्गप्रलय़विक्रिय़ाः |
१४ क
श्रीभगवानु उवाच:
ततो यज्ञश्च यष्टा च पुराणः पुरुषो विराट् |
१४ ख
श्रीभगवानु उवाच:
अनिरुद्ध इति प्रोक्तो लोकानां प्रभवाप्ययः ||
१४ ग
श्रीभगवानु उवाच:
व्राह्मे रात्रिक्षय़े प्राप्ते तस्य ह्यमिततेजसः |
१५ क
श्रीभगवानु उवाच:
प्रसादात्प्रादुरभवत्पद्मं पद्मनिभेक्षण |
१५ ख
श्रीभगवानु उवाच:
तत्र व्रह्मा समभवत्स तस्यैव प्रसादजः ||
१५ ग
श्रीभगवानु उवाच:
अह्नः क्षय़े ललाटाच्च सुतो देवस्य वै तथा |
१६ क
श्रीभगवानु उवाच:
क्रोधाविष्टस्य सञ्जज्ञे रुद्रः संहारकारकः ||
१६ ख
श्रीभगवानु उवाच:
एतौ द्वौ विवुधश्रेष्ठौ प्रसादक्रोधजौ स्मृतौ |
१७ क
श्रीभगवानु उवाच:
तदादेशितपन्थानौ सृष्टिसंहारकारकौ |
१७ ख
श्रीभगवानु उवाच:
निमित्तमात्रं तावत्र सर्वप्राणिवरप्रदौ ||
१७ ग
श्रीभगवानु उवाच:
कपर्दी जटिलो मुण्डः श्मशानगृहसेवकः |
१८ क
श्रीभगवानु उवाच:
उग्रव्रतधरो रुद्रो योगी त्रिपुरदारुणः ||
१८ ख
श्रीभगवानु उवाच:
दक्षक्रतुहरश्चैव भगनेत्रहरस्तथा |
१९ क
श्रीभगवानु उवाच:
नाराय़णात्मको ज्ञेय़ः पाण्डवेय़ युगे युगे ||
१९ ख
श्रीभगवानु उवाच:
तस्मिन्हि पूज्यमाने वै देवदेवे महेश्वरे |
२० क
श्रीभगवानु उवाच:
सम्पूजितो भवेत्पार्थ देवो नाराय़णः प्रभुः ||
२० ख
श्रीभगवानु उवाच:
अहमात्मा हि लोकानां विश्वानां पाण्डुनन्दन |
२१ क
श्रीभगवानु उवाच:
तस्मादात्मानमेवाग्रे रुद्रं सम्पूजय़ाम्यहम् ||
२१ ख
श्रीभगवानु उवाच:
यद्यहं नार्चय़ेय़ं वै ईशानं वरदं शिवम् |
२२ क
श्रीभगवानु उवाच:
आत्मानं नार्चय़ेत्कश्चिदिति मे भावितं मनः |
२२ ख
श्रीभगवानु उवाच:
मय़ा प्रमाणं हि कृतं लोकः समनुवर्तते ||
२२ ग
श्रीभगवानु उवाच:
प्रमाणानि हि पूज्यानि ततस्तं पूजय़ाम्यहम् |
२३ क
श्रीभगवानु उवाच:
यस्तं वेत्ति स मां वेत्ति योऽनु तं स हि मामनु ||
२३ ख
श्रीभगवानु उवाच:
रुद्रो नाराय़णश्चैव सत्त्वमेकं द्विधाकृतम् |
२४ क
श्रीभगवानु उवाच:
लोके चरति कौन्तेय़ व्यक्तिस्थं सर्वकर्मसु ||
२४ ख
श्रीभगवानु उवाच:
न हि मे केनचिद्देय़ो वरः पाण्डवनन्दन |
२५ क
श्रीभगवानु उवाच:
इति सञ्चिन्त्य मनसा पुराणं विश्वमीश्वरम् |
२५ ख
श्रीभगवानु उवाच:
पुत्रार्थमाराधितवानात्मानमहमात्मना ||
२५ ग
श्रीभगवानु उवाच:
न हि विष्णुः प्रणमति कस्मैचिद्विवुधाय़ तु |
२६ क
श्रीभगवानु उवाच:
ऋत आत्मानमेवेति ततो रुद्रं भजाम्यहम् ||
२६ ख
श्रीभगवानु उवाच:
सव्रह्मकाः सरुद्राश्च सेन्द्रा देवाः सहर्षिभिः |
२७ क
श्रीभगवानु उवाच:
अर्चय़न्ति सुरश्रेष्ठं देवं नाराय़णं हरिम् ||
२७ ख
श्रीभगवानु उवाच:
भविष्यतां वर्ततां च भूतानां चैव भारत |
२८ क
श्रीभगवानु उवाच:
सर्वेषामग्रणीर्विष्णुः सेव्यः पूज्यश्च नित्यशः ||
२८ ख
श्रीभगवानु उवाच:
नमस्व हव्यदं विष्णुं तथा शरणदं नम |
२९ क
श्रीभगवानु उवाच:
वरदं नमस्व कौन्तेय़ हव्यकव्यभुजं नम ||
२९ ख
श्रीभगवानु उवाच:
चतुर्विधा मम जना भक्ता एवं हि ते श्रुतम् |
३० क
श्रीभगवानु उवाच:
तेषामेकान्तिनः श्रेष्ठास्ते चैवानन्यदेवताः |
३० ख
श्रीभगवानु उवाच:
अहमेव गतिस्तेषां निराशीःकर्मकारिणाम् ||
३० ग
श्रीभगवानु उवाच:
ये च शिष्टास्त्रय़ो भक्ताः फलकामा हि ते मताः |
३१ क
श्रीभगवानु उवाच:
सर्वे च्यवनधर्माणः प्रतिवुद्धस्तु श्रेष्ठभाक् ||
३१ ख
श्रीभगवानु उवाच:
व्रह्माणं शितिकण्ठं च याश्चान्या देवताः स्मृताः |
३२ क
श्रीभगवानु उवाच:
प्रवुद्धवर्याः सेवन्ते मामेवैष्यन्ति यत्परम् |
३२ ख
श्रीभगवानु उवाच:
भक्तं प्रति विशेषस्ते एष पार्थानुकीर्तितः ||
३२ ग
श्रीभगवानु उवाच:
त्वं चैवाहं च कौन्तेय़ नरनाराय़णौ स्मृतौ |
३३ क
श्रीभगवानु उवाच:
भारावतरणार्थं हि प्रविष्टौ मानुषीं तनुम् ||
३३ ख
श्रीभगवानु उवाच:
जानाम्यध्यात्मय़ोगांश्च योऽहं यस्माच्च भारत |
३४ क
श्रीभगवानु उवाच:
निवृत्तिलक्षणो धर्मस्तथाभ्युदय़िकोऽपि च ||
३४ ख
श्रीभगवानु उवाच:
नराणामय़नं ख्यातमहमेकः सनातनः |
३५ क
श्रीभगवानु उवाच:
आपो नारा इति प्रोक्ता आपो वै नरसूनवः |
३५ ख
श्रीभगवानु उवाच:
अय़नं मम तत्पूर्वमतो नाराय़णो ह्यहम् ||
३५ ग
श्रीभगवानु उवाच:
छादय़ामि जगद्विश्वं भूत्वा सूर्य इवांशुभिः |
३६ क
श्रीभगवानु उवाच:
सर्वभूताधिवासश्च वासुदेवस्ततो ह्यहम् ||
३६ ख
श्रीभगवानु उवाच:
गतिश्च सर्वभूतानां प्रजानां चापि भारत |
३७ क
श्रीभगवानु उवाच:
व्याप्ता मे रोदसी पार्थ कान्तिश्चाभ्यधिका मम ||
३७ ख
श्रीभगवानु उवाच:
अधिभूतानि चान्तेऽहं तदिच्छंश्चास्मि भारत |
३८ क
श्रीभगवानु उवाच:
क्रमणाच्चाप्यहं पार्थ विष्णुरित्यभिसञ्ज्ञितः ||
३८ ख
श्रीभगवानु उवाच:
दमात्सिद्धिं परीप्सन्तो मां जनाः कामय़न्ति हि |
३९ क
श्रीभगवानु उवाच:
दिवं चोर्वीं च मध्यं च तस्माद्दामोदरो ह्यहम् ||
३९ ख
श्रीभगवानु उवाच:
पृश्निरित्युच्यते चान्नं वेदा आपोऽमृतं तथा |
४० क
श्रीभगवानु उवाच:
ममैतानि सदा गर्भे पृश्निगर्भस्ततो ह्यहम् ||
४० ख
श्रीभगवानु उवाच:
ऋषय़ः प्राहुरेवं मां त्रितकूपाभिपातितम् |
४१ क
श्रीभगवानु उवाच:
पृश्निगर्भ त्रितं पाहीत्येकतद्वितपातितम् ||
४१ ख
श्रीभगवानु उवाच:
ततः स व्रह्मणः पुत्र आद्यो ऋषिवरस्त्रितः |
४२ क
श्रीभगवानु उवाच:
उत्ततारोदपानाद्वै पृश्निगर्भानुकीर्तनात् ||
४२ ख
श्रीभगवानु उवाच:
सूर्यस्य तपतो लोकानग्नेः सोमस्य चाप्युत |
४३ क
श्रीभगवानु उवाच:
अंशवो ये प्रकाशन्ते मम ते केशसञ्ज्ञिताः |
४३ ख
श्रीभगवानु उवाच:
सर्वज्ञाः केशवं तस्मान्मामाहुर्द्विजसत्तमाः ||
४३ ग
श्रीभगवानु उवाच:
स्वपत्न्यामाहितो गर्भ उतथ्येन महात्मना |
४४ क
श्रीभगवानु उवाच:
उतथ्येऽन्तर्हिते चैव कदाचिद्देवमाय़या |
४४ ख
श्रीभगवानु उवाच:
वृहस्पतिरथाविन्दत्तां पत्नीं तस्य भारत ||
४४ ग