chevron_left विराट पर्व अध्याय ३२
वैशम्पाय़न उवाच:
ततस्तद्वचनान्मत्स्यो दूतान्राजा समादिशत् |
४८ क
वैशम्पाय़न उवाच:
आचक्षध्वं पुरं गत्वा सङ्ग्रामे विजय़ं मम ||
४८ ख
वैशम्पाय़न उवाच:
कुमाराः समलङ्कृत्य पर्यागच्छन्तु मे पुरात् |
४९ क
वैशम्पाय़न उवाच:
वादित्राणि च सर्वाणि गणिकाश्च स्वलङ्कृताः ||
४९ ख
वैशम्पाय़न उवाच:
ते गत्वा केवलां रात्रिमथ सूर्योदय़ं प्रति |
५० क
वैशम्पाय़न उवाच:
विराटस्य पुराभ्याशे दूता जय़मघोषय़न् ||
५० ख