chevron_left भीष्म पर्व अध्याय २७
अर्जुन उवाच:
संन्यासं कर्मणां कृष्ण पुनर्योगं च शंससि |
१ क
अर्जुन उवाच:
यच्छ्रेय़ एतय़ोरेकं तन्मे व्रूहि सुनिश्चितम् ||
१ ख
श्रीभगवानु उवाच:
संन्यासः कर्मय़ोगश्च निःश्रेय़सकरावुभौ |
२ क
श्रीभगवानु उवाच:
तय़ोस्तु कर्मसंन्यासात्कर्मय़ोगो विशिष्यते ||
२ ख
श्रीभगवानु उवाच:
ज्ञेय़ः स नित्यसंन्यासी यो न द्वेष्टि न काङ्क्षति |
३ क
श्रीभगवानु उवाच:
निर्द्वन्द्वो हि महावाहो सुखं वन्धात्प्रमुच्यते ||
३ ख
श्रीभगवानु उवाच:
साङ्ख्ययोगौ पृथग्वालाः प्रवदन्ति न पण्डिताः |
४ क
श्रीभगवानु उवाच:
एकमप्यास्थितः सम्यगुभय़ोर्विन्दते फलम् ||
४ ख
श्रीभगवानु उवाच:
यत्साङ्ख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यते |
५ क
श्रीभगवानु उवाच:
एकं साङ्ख्यं च योगं च यः पश्यति स पश्यति ||
५ ख
श्रीभगवानु उवाच:
संन्यासस्तु महावाहो दुःखमाप्तुमय़ोगतः |
६ क
श्रीभगवानु उवाच:
योगय़ुक्तो मुनिर्व्रह्म नचिरेणाधिगच्छति ||
६ ख
श्रीभगवानु उवाच:
योगय़ुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रिय़ः |
७ क
श्रीभगवानु उवाच:
सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते ||
७ ख
श्रीभगवानु उवाच:
नैव किञ्चित्करोमीति युक्तो मन्येत तत्त्ववित् |
८ क
श्रीभगवानु उवाच:
पश्यञ्शृण्वन्स्पृशञ्जिघ्रन्नश्नन्गच्छन्स्वपञ्श्वसन् ||
८ ख
श्रीभगवानु उवाच:
प्रलपन्विसृजन्गृह्णन्नुन्मिषन्निमिषन्नपि |
९ क
श्रीभगवानु उवाच:
इन्द्रिय़ाणीन्द्रिय़ार्थेषु वर्तन्त इति धारय़न् ||
९ ख
श्रीभगवानु उवाच:
व्रह्मण्याधाय़ कर्माणि सङ्गं त्यक्त्वा करोति यः |
१० क
श्रीभगवानु उवाच:
लिप्यते न स पापेन पद्मपत्रमिवाम्भसा ||
१० ख
श्रीभगवानु उवाच:
काय़ेन मनसा वुद्ध्या केवलैरिन्द्रिय़ैरपि |
११ क
श्रीभगवानु उवाच:
योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धय़े ||
११ ख
श्रीभगवानु उवाच:
युक्तः कर्मफलं त्यक्त्वा शान्तिमाप्नोति नैष्ठिकीम् |
१२ क
श्रीभगवानु उवाच:
अय़ुक्तः कामकारेण फले सक्तो निवध्यते ||
१२ ख
श्रीभगवानु उवाच:
सर्वकर्माणि मनसा संन्यस्यास्ते सुखं वशी |
१३ क
श्रीभगवानु उवाच:
नवद्वारे पुरे देही नैव कुर्वन्न कारय़न् ||
१३ ख
श्रीभगवानु उवाच:
न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः |
१४ क
श्रीभगवानु उवाच:
न कर्मफलसंय़ोगं स्वभावस्तु प्रवर्तते ||
१४ ख
श्रीभगवानु उवाच:
नादत्ते कस्यचित्पापं न चैव सुकृतं विभुः |
१५ क
श्रीभगवानु उवाच:
अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः ||
१५ ख
श्रीभगवानु उवाच:
ज्ञानेन तु तदज्ञानं येषां नाशितमात्मनः |
१६ क
श्रीभगवानु उवाच:
तेषामादित्यवज्ज्ञानं प्रकाशय़ति तत्परम् ||
१६ ख
श्रीभगवानु उवाच:
तद्वुद्धय़स्तदात्मानस्तन्निष्ठास्तत्पराय़णाः |
१७ क
श्रीभगवानु उवाच:
गच्छन्त्यपुनरावृत्तिं ज्ञाननिर्धूतकल्मषाः ||
१७ ख
श्रीभगवानु उवाच:
विद्याविनय़सम्पन्ने व्राह्मणे गवि हस्तिनि |
१८ क
श्रीभगवानु उवाच:
शुनि चैव श्वपाके च पण्डिताः समदर्शिनः ||
१८ ख
श्रीभगवानु उवाच:
इहैव तैर्जितः सर्गो येषां साम्ये स्थितं मनः |
१९ क
श्रीभगवानु उवाच:
निर्दोषं हि समं व्रह्म तस्माद्व्रह्मणि ते स्थिताः ||
१९ ख
श्रीभगवानु उवाच:
न प्रहृष्येत्प्रिय़ं प्राप्य नोद्विजेत्प्राप्य चाप्रिय़म् |
२० क
श्रीभगवानु उवाच:
स्थिरवुद्धिरसंमूढो व्रह्मविद्व्रह्मणि स्थितः ||
२० ख
श्रीभगवानु उवाच:
वाह्यस्पर्शेष्वसक्तात्मा विन्दत्यात्मनि यत्सुखम् |
२१ क
श्रीभगवानु उवाच:
स व्रह्मय़ोगय़ुक्तात्मा सुखमक्षय़मश्नुते ||
२१ ख
श्रीभगवानु उवाच:
ये हि संस्पर्शजा भोगा दुःखय़ोनय़ एव ते |
२२ क
श्रीभगवानु उवाच:
आद्यन्तवन्तः कौन्तेय़ न तेषु रमते वुधः ||
२२ ख
श्रीभगवानु उवाच:
शक्नोतीहैव यः सोढुं प्राक्षरीरविमोक्षणात् |
२३ क
श्रीभगवानु उवाच:
कामक्रोधोद्भवं वेगं स युक्तः स सुखी नरः ||
२३ ख
श्रीभगवानु उवाच:
योऽन्तःसुखोऽन्तरारामस्तथान्तर्ज्योतिरेव यः |
२४ क
श्रीभगवानु उवाच:
स योगी व्रह्मनिर्वाणं व्रह्मभूतोऽधिगच्छति ||
२४ ख
श्रीभगवानु उवाच:
लभन्ते व्रह्मनिर्वाणमृषय़ः क्षीणकल्मषाः |
२५ क
श्रीभगवानु उवाच:
छिन्नद्वैधा यतात्मानः सर्वभूतहिते रताः ||
२५ ख
श्रीभगवानु उवाच:
कामक्रोधविय़ुक्तानां यतीनां यतचेतसाम् |
२६ क
श्रीभगवानु उवाच:
अभितो व्रह्मनिर्वाणं वर्तते विदितात्मनाम् ||
२६ ख
श्रीभगवानु उवाच:
स्पर्शान्कृत्वा वहिर्वाह्यांश्चक्षुश्चैवान्तरे भ्रुवोः |
२७ क
श्रीभगवानु उवाच:
प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ ||
२७ ख
श्रीभगवानु उवाच:
यतेन्द्रिय़मनोवुद्धिर्मुनिर्मोक्षपराय़णः |
२८ क
श्रीभगवानु उवाच:
विगतेच्छाभय़क्रोधो यः सदा मुक्त एव सः ||
२८ ख
श्रीभगवानु उवाच:
भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् |
२९ क
श्रीभगवानु उवाच:
सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति ||
२९ ख