chevron_left स्त्री पर्व अध्याय २७
वैशम्पाय़न उवाच:
ते समासाद्य गङ्गां तु शिवां पुण्यजनोचिताम् |
१ क
वैशम्पाय़न उवाच:
ह्रदिनीं वप्रसम्पन्नां महानूपां महावनाम् ||
१ ख
वैशम्पाय़न उवाच:
भूषणान्युत्तरीय़ाणि वेष्टनान्यवमुच्य च |
२ क
वैशम्पाय़न उवाच:
ततः पितॄणां पौत्राणां भ्रातॄणां स्वजनस्य च ||
२ ख
वैशम्पाय़न उवाच:
पुत्राणामार्यकाणां च पतीनां च कुरुस्त्रिय़ः |
३ क
वैशम्पाय़न उवाच:
उदकं चक्रिरे सर्वा रुदन्त्यो भृशदुःखिताः |
३ ख
वैशम्पाय़न उवाच:
सुहृदां चापि धर्मज्ञाः प्रचक्रुः सलिलक्रिय़ाः ||
३ ग
वैशम्पाय़न उवाच:
उदके क्रिय़माणे तु वीराणां वीरपत्निभिः |
४ क
वैशम्पाय़न उवाच:
सूपतीर्थाभवद्गङ्गा भूय़ो विप्रससार च ||
४ ख
वैशम्पाय़न उवाच:
तन्महोदधिसङ्काशं निरानन्दमनुत्सवम् |
५ क
वैशम्पाय़न उवाच:
वीरपत्नीभिराकीर्णं गङ्गातीरमशोभत ||
५ ख
वैशम्पाय़न उवाच:
ततः कुन्ती महाराज सहसा शोककर्शिता |
६ क
वैशम्पाय़न उवाच:
रुदती मन्दय़ा वाचा पुत्रान्वचनमव्रवीत् ||
६ ख
वैशम्पाय़न उवाच:
यः स शूरो महेष्वासो रथय़ूथपय़ूथपः |
७ क
वैशम्पाय़न उवाच:
अर्जुनेन हतः सङ्ख्ये वीरलक्षणलक्षितः ||
७ ख
वैशम्पाय़न उवाच:
यं सूतपुत्रं मन्यध्वं राधेय़मिति पाण्डवाः |
८ क
वैशम्पाय़न उवाच:
यो व्यराजच्चमूमध्ये दिवाकर इव प्रभुः ||
८ ख
वैशम्पाय़न उवाच:
प्रत्ययुध्यत यः सर्वान्पुरा वः सपदानुगान् |
९ क
वैशम्पाय़न उवाच:
दुर्योधनवलं सर्वं यः प्रकर्षन्व्यरोचत ||
९ ख
वैशम्पाय़न उवाच:
यस्य नास्ति समो वीर्ये पृथिव्यामपि कश्चन |
१० क
वैशम्पाय़न उवाच:
सत्यसन्धस्य शूरस्य सङ्ग्रामेष्वपलाय़िनः ||
१० ख
वैशम्पाय़न उवाच:
कुरुध्वमुदकं तस्य भ्रातुरक्लिष्टकर्मणः |
११ क
वैशम्पाय़न उवाच:
स हि वः पूर्वजो भ्राता भास्करान्मय़्यजाय़त |
११ ख
वैशम्पाय़न उवाच:
कुण्डली कवची शूरो दिवाकरसमप्रभः ||
११ ग
वैशम्पाय़न उवाच:
श्रुत्वा तु पाण्डवाः सर्वे मातुर्वचनमप्रिय़म् |
१२ क
वैशम्पाय़न उवाच:
कर्णमेवानुशोचन्त भूय़श्चार्ततराभवन् ||
१२ ख
वैशम्पाय़न उवाच:
ततः स पुरुषव्याघ्रः कुन्तीपुत्रो युधिष्ठिरः |
१३ क
वैशम्पाय़न उवाच:
उवाच मातरं वीरो निःश्वसन्निव पन्नगः ||
१३ ख
वैशम्पाय़न उवाच:
यस्येषुपातमासाद्य नान्यस्तिष्ठेद्धनञ्जय़ात् |
१४ क
वैशम्पाय़न उवाच:
कथं पुत्रो भवत्यां स देवगर्भः पुराभवत् ||
१४ ख
वैशम्पाय़न उवाच:
यस्य वाहुप्रतापेन तापिताः सर्वतो वय़म् |
१५ क
वैशम्पाय़न उवाच:
तमग्निमिव वस्त्रेण कथं छादितवत्यसि |
१५ ख
वैशम्पाय़न उवाच:
यस्य वाहुवलं घोरं धार्तराष्ट्रैरुपासितम् ||
१५ ग
वैशम्पाय़न उवाच:
नान्यः कुन्तीसुतात्कर्णादगृह्णाद्रथिनां रथी |
१६ क
वैशम्पाय़न उवाच:
स नः प्रथमजो भ्राता सर्वशस्त्रभृतां वरः |
१६ ख
वैशम्पाय़न उवाच:
असूत तं भवत्यग्रे कथमद्भुतविक्रमम् ||
१६ ग
वैशम्पाय़न उवाच:
अहो भवत्या मन्त्रस्य पिधानेन वय़ं हताः |
१७ क
वैशम्पाय़न उवाच:
निधनेन हि कर्णस्य पीडिताः स्म सवान्धवाः ||
१७ ख
वैशम्पाय़न उवाच:
अभिमन्योर्विनाशेन द्रौपदेय़वधेन च |
१८ क
वैशम्पाय़न उवाच:
पाञ्चालानां च नाशेन कुरूणां पतनेन च ||
१८ ख
वैशम्पाय़न उवाच:
ततः शतगुणं दुःखमिदं मामस्पृशद्भृशम् |
१९ क
वैशम्पाय़न उवाच:
कर्णमेवानुशोचन्हि दह्याम्यग्नाविवाहितः ||
१९ ख
वैशम्पाय़न उवाच:
न हि स्म किञ्चिदप्राप्यं भवेदपि दिवि स्थितम् |
२० क
वैशम्पाय़न उवाच:
न च स्म वैशसं घोरं कौरवान्तकरं भवेत् ||
२० ख
वैशम्पाय़न उवाच:
एवं विलप्य वहुलं धर्मराजो युधिष्ठिरः |
२१ क
वैशम्पाय़न उवाच:
विनदञ्शनकै राजंश्चकारास्योदकं प्रभुः ||
२१ ख
वैशम्पाय़न उवाच:
ततो विनेदुः सहसा स्त्रीपुंसास्तत्र सर्वशः |
२२ क
वैशम्पाय़न उवाच:
अभितो ये स्थितास्तत्र तस्मिन्नुदककर्मणि ||
२२ ख
वैशम्पाय़न उवाच:
तत आनाय़यामास कर्णस्य सपरिच्छदम् |
२३ क
वैशम्पाय़न उवाच:
स्त्रिय़ः कुरुपतिर्धीमान्भ्रातुः प्रेम्णा युधिष्ठिरः ||
२३ ख
वैशम्पाय़न उवाच:
स ताभिः सह धर्मात्मा प्रेतकृत्यमनन्तरम् |
२४ क
वैशम्पाय़न उवाच:
कृत्वोत्ततार गङ्गाय़ाः सलिलादाकुलेन्द्रिय़ः ||
२४ ख