chevron_left कर्ण पर्व अध्याय २६
सञ्जय़ उवाच:
नय़े वृहस्पत्युशनःसमं सदा; न चैनमस्त्रं तदपात्सुदुःसहम् ||
४९ ख
सञ्जय़ उवाच:
सम्प्रक्रुष्टे रुदितस्त्रीकुमारे; पराभूते पौरुषे धार्तराष्ट्रे |
५० क
सञ्जय़ उवाच:
मय़ा कृत्यमिति जानामि शल्य; प्रय़ाहि तस्माद्द्विषतामनीकम् ||
५० ख
सञ्जय़ उवाच:
यत्र राजा पाण्डवः सत्यसन्धो; व्यवस्थितो भीमसेनार्जुनौ च |
५१ क
सञ्जय़ उवाच:
वासुदेवः सृञ्जय़ाः सात्यकिश्च; यमौ च कस्तौ विषहेन्मदन्यः ||
५१ ख
सञ्जय़ उवाच:
तस्मात्क्षिप्रं मद्रपते प्रय़ाहि; रणे पाञ्चालान्पाण्डवान्सृञ्जय़ांश्च |
५२ क
सञ्जय़ उवाच:
तान्वा हनिष्यामि समेत्य सङ्ख्ये; यास्यामि वा द्रोणमुखाय़ मन्ये ||
५२ ख
सञ्जय़ उवाच:
न त्वेवाहं न गमिष्यामि मध्यं; तेषां शूराणामिति मा शल्य विद्धि |
५३ क
सञ्जय़ उवाच:
मित्रद्रोहो मर्षणीय़ो न मेऽय़ं; त्यक्त्वा प्राणाननुय़ास्यामि द्रोणम् ||
५३ ख
सञ्जय़ उवाच:
प्राज्ञस्य मूढस्य च जीवितान्ते; प्राणप्रमोक्षोऽन्तकवक्त्रगस्य |
५४ क
सञ्जय़ उवाच:
अतो विद्वन्नभिय़ास्यामि पार्थं; दिष्टं न शक्यं व्यतिवर्तितुं वै ||
५४ ख
सञ्जय़ उवाच:
कल्याणवृत्तः सततं हि राज; न्वैचित्रवीर्यस्य सुतो ममासीत् |
५५ क
सञ्जय़ उवाच:
तस्यार्थसिद्ध्यर्थमहं त्यजामि; प्रिय़ान्भोगान्दुस्त्यजं जीवितं च ||
५५ ख
सञ्जय़ उवाच:
वैय़ाघ्रचर्माणमकूजनाक्षं; हैमत्रिकोशं रजतत्रिवेणुम् |
५६ क
सञ्जय़ उवाच:
रथप्रवर्हं तुरगप्रवर्है; र्युक्तं प्रादान्मह्यमिदं हि रामः ||
५६ ख
सञ्जय़ उवाच:
धनूंषि चित्राणि निरीक्ष्य शल्य; ध्वजं गदां साय़कांश्चोग्ररूपान् |
५७ क
सञ्जय़ उवाच:
असिं च दीप्तं परमाय़ुधं च; शङ्खं च शुभ्रं स्वनवन्तमुग्रम् ||
५७ ख
सञ्जय़ उवाच:
पताकिनं वज्रनिपातनिस्वनं; सिताश्वय़ुक्तं शुभतूणशोभितम् |
५८ क
सञ्जय़ उवाच:
इमं समास्थाय़ रथं रथर्षभं; रणे हनिष्याम्यहमर्जुनं वलात् ||
५८ ख
सञ्जय़ उवाच:
तं चेन्मृत्युः सर्वहरोऽभिरक्षते; सदाप्रमत्तः समरे पाण्डुपुत्रम् |
५९ क
सञ्जय़ उवाच:
तं वा हनिष्यामि समेत्य युद्धे; यास्यामि वा भीष्ममुखो यमाय़ ||
५९ ख
सञ्जय़ उवाच:
यमवरुणकुवेरवासवा वा; यदि युगपत्सगणा महाहवे |
६० क
सञ्जय़ उवाच:
जुगुपिषव इहैत्य पाण्डवं; किमु वहुना सह तैर्जय़ामि तम् ||
६० ख
सञ्जय़ उवाच:
इति रणरभसस्य कत्थत; स्तदुपनिशम्य वचः स मद्रराट् |
६१ क
सञ्जय़ उवाच:
अवहसदवमन्य वीर्यवा; न्प्रतिषिषिधे च जगाद चोत्तरम् ||
६१ ख
सञ्जय़ उवाच:
विरम विरम कर्ण कत्थना; दतिरभसोऽस्यति चाप्ययुक्तवाक् |
६२ क
सञ्जय़ उवाच:
क्व च हि नरवरो धनञ्जय़ः; क्व पुनरिह त्वमुपारमावुध ||
६२ ख
सञ्जय़ उवाच:
यदुसदनमुपेन्द्रपालितं; त्रिदिवमिवामरराजरक्षितम् |
६३ क
सञ्जय़ उवाच:
प्रसभमिह विलोक्य को हरे; त्पुरुषवरावरजामृतेऽर्जुनात् ||
६३ ख
सञ्जय़ उवाच:
त्रिभुवनसृजमीश्वरेश्वरं; क इह पुमान्भवमाह्वय़ेद्युधि |
६४ क
सञ्जय़ उवाच:
मृगवधकलहे ऋतेऽर्जुना; त्सुरपतिवीर्यसमप्रभावतः ||
६४ ख
सञ्जय़ उवाच:
असुरसुरमहोरगान्नरा; न्गरुडपिशाचसय़क्षराक्षसान् |
६५ क
सञ्जय़ उवाच:
इषुभिरजय़दग्निगौरवा; त्स्वभिलषितं च हविर्ददौ जय़ः ||
६५ ख
सञ्जय़ उवाच:
स्मरसि ननु यदा परैर्हृतः; स च धृतराष्ट्रसुतो विमोक्षितः |
६६ क
सञ्जय़ उवाच:
दिनकरज नरोत्तमैर्यदा; मरुषु वहून्विनिहत्य तानरीन् ||
६६ ख
सञ्जय़ उवाच:
प्रथममपि पलाय़िते त्वय़ि; प्रिय़कलहा धृतराष्ट्रसूनवः |
६७ क
सञ्जय़ उवाच:
स्मरसि ननु यदा प्रमोचिताः; खचरगणानवजित्य पाण्डवैः ||
६७ ख
सञ्जय़ उवाच:
समुदितवलवाहनाः पुनः; पुरुषवरेण जिताः स्थ गोग्रहे |
६८ क
सञ्जय़ उवाच:
सगुरुगुरुसुताः सभीष्मकाः; किमु न जितः स तदा त्वय़ार्जुनः ||
६८ ख
सञ्जय़ उवाच:
इदमपरमुपस्थितं पुन; स्तव निधनाय़ सुय़ुद्धमद्य वै |
६९ क
सञ्जय़ उवाच:
यदि न रिपुभय़ात्पलाय़से; समरगतोऽद्य हतोऽसि सूतज ||
६९ ख
सञ्जय़ उवाच:
इति वहुपरुषं प्रभाषति; प्रमनसि मद्रपतौ रिपुस्तवम् |
७० क
सञ्जय़ उवाच:
भृशमतिरुषितः परं वृषः; कुरुपृतनापतिराह मद्रपम् ||
७० ख
सञ्जय़ उवाच:
भवतु भवतु किं विकत्थसे; ननु मम तस्य च युद्धमुद्यतम् |
७१ क
सञ्जय़ उवाच:
यदि स जय़ति मां महाहवे; तत इदमस्तु सुकत्थितं तव ||
७१ ख
सञ्जय़ उवाच:
एवमस्त्विति मद्रेश उक्त्वा नोत्तरमुक्तवान् |
७२ क
सञ्जय़ उवाच:
याहि मद्रेश चाप्येनं कर्णः प्राह युय़ुत्सय़ा ||
७२ ख
सञ्जय़ उवाच:
स रथः प्रय़यौ शत्रूञ्श्वेताश्वः शल्यसारथिः |
७३ क
सञ्जय़ उवाच:
निघ्नन्नमित्रान्समरे तमो घ्नन्सविता यथा ||
७३ ख
सञ्जय़ उवाच:
ततः प्राय़ात्प्रीतिमान्वै रथेन; वैय़ाघ्रेण श्वेतय़ुजाथ कर्णः |
७४ क
सञ्जय़ उवाच:
स चालोक्य ध्वजिनीं पाण्डवानां; धनञ्जय़ं त्वरय़ा पर्यपृच्छत् ||
७४ ख