वैशम्पाय़न उवाच:
ततो घोरतरः शव्दो वने समभवत्तदा |
१ क
वैशम्पाय़न उवाच:
भीमसेनार्जुनौ दृष्ट्वा क्षत्रिय़ाणाममर्षिणाम् ||
१ ख
वैशम्पाय़न उवाच:
तेषां ध्वजाग्राण्यभिवीक्ष्य राजा; स्वय़ं दुरात्मा कुरुपुङ्गवानाम् |
२ क
वैशम्पाय़न उवाच:
जय़द्रथो याज्ञसेनीमुवाच; रथे स्थितां भानुमतीं हतौजाः ||
२ ख
वैशम्पाय़न उवाच:
आय़ान्तीमे पञ्च रथा महान्तो; मन्ये च कृष्णे पतय़स्तवैते |
३ क
वैशम्पाय़न उवाच:
सा जानती ख्यापय़ नः सुकेशि; परं परं पाण्डवानां रथस्थम् ||
३ ख
द्रौपद्यु उवाच:
किं ते ज्ञातैर्मूढ महाधनुर्धरै; रनाय़ुष्यं कर्म कृत्वातिघोरम् |
४ क
द्रौपद्यु उवाच:
एते वीराः पतय़ो मे समेता; न वः शेषः कश्चिदिहास्ति युद्धे ||
४ ख
द्रौपद्यु उवाच:
आख्यातव्यं त्वेव सर्वं मुमूर्षो; र्मय़ा तुभ्यं पृष्टय़ा धर्म एषः |
५ क
द्रौपद्यु उवाच:
न मे व्यथा विद्यते त्वद्भय़ं वा; सम्पश्यन्त्याः सानुजं धर्मराजम् ||
५ ख
द्रौपद्यु उवाच:
यस्य ध्वजाग्रे नदतो मृदङ्गौ; नन्दोपनन्दौ मधुरौ युक्तरूपौ |
६ क
द्रौपद्यु उवाच:
एतं स्वधर्मार्थविनिश्चय़ज्ञं; सदा जनाः कृत्यवन्तोऽनुय़ान्ति ||
६ ख
द्रौपद्यु उवाच:
य एष जाम्वूनदशुद्धगौरः; प्रचण्डघोणस्तनुराय़ताक्षः |
७ क
द्रौपद्यु उवाच:
एतं कुरुश्रेष्ठतमं वदन्ति; युधिष्ठिरं धर्मसुतं पतिं मे ||
७ ख
द्रौपद्यु उवाच:
अप्येष शत्रोः शरणागतस्य; दद्यात्प्राणान्धर्मचारी नृवीरः |
८ क
द्रौपद्यु उवाच:
परैह्येनं मूढ जवेन भूतय़े; त्वमात्मनः प्राञ्जलिर्न्यस्तशस्त्रः ||
८ ख
द्रौपद्यु उवाच:
अथाप्येनं पश्यसि यं रथस्थं; महाभुजं शालमिव प्रवृद्धम् |
९ क
द्रौपद्यु उवाच:
सन्दष्टोष्ठं भ्रुकुटीसंहतभ्रुवं; वृकोदरो नाम पतिर्ममैषः ||
९ ख
द्रौपद्यु उवाच:
आजानेय़ा वलिनः साधु दान्ता; महावलाः शूरमुदावहन्ति |
१० क
द्रौपद्यु उवाच:
एतस्य कर्माण्यतिमानुषाणि; भीमेति शव्दोऽस्य गतः पृथिव्याम् ||
१० ख
द्रौपद्यु उवाच:
नास्यापराद्धाः शेषमिहाप्नुवन्ति; नाप्यस्य वैरं विस्मरते कदाचित् |
११ क
द्रौपद्यु उवाच:
वैरस्यान्तं संविधाय़ोपय़ाति; पश्चाच्छान्तिं न च गच्छत्यतीव ||
११ ख
द्रौपद्यु उवाच:
मृदुर्वदान्यो धृतिमान्यशस्वी; जितेन्द्रिय़ो वृद्धसेवी नृवीरः |
१२ क
द्रौपद्यु उवाच:
भ्राता च शिष्यश्च युधिष्ठिरस्य; धनञ्जय़ो नाम पतिर्ममैषः ||
१२ ख
द्रौपद्यु उवाच:
यो वै न कामान्न भय़ान्न लोभा; त्त्यजेद्धर्मं न नृशंसं च कुर्यात् |
१३ क
द्रौपद्यु उवाच:
स एष वैश्वानरतुल्यतेजाः; कुन्तीसुतः शत्रुसहः प्रमाथी ||
१३ ख
द्रौपद्यु उवाच:
यः सर्वधर्मार्थविनिश्चय़ज्ञो; भय़ार्तानां भय़हर्ता मनीषी |
१४ क
द्रौपद्यु उवाच:
यस्योत्तमं रूपमाहुः पृथिव्यां; यं पाण्डवाः परिरक्षन्ति सर्वे ||
१४ ख
द्रौपद्यु उवाच:
प्राणैर्गरीय़ांसमनुव्रतं वै; स एष वीरो नकुलः पतिर्मे |
१५ क
द्रौपद्यु उवाच:
यः खड्गय़ोधी लघुचित्रहस्तो; महांश्च धीमान्सहदेवोऽद्वितीय़ः ||
१५ ख
द्रौपद्यु उवाच:
यस्याद्य कर्म द्रक्ष्यसे मूढसत्त्व; शतक्रतोर्वा दैत्यसेनासु सङ्ख्ये |
१६ क
द्रौपद्यु उवाच:
शूरः कृतास्त्रो मतिमान्मनीषी; प्रिय़ङ्करो धर्मसुतस्य राज्ञः ||
१६ ख
द्रौपद्यु उवाच:
य एष चन्द्रार्कसमानतेजा; जघन्यजः पाण्डवानां प्रिय़श्च |
१७ क
द्रौपद्यु उवाच:
वुद्ध्या समो यस्य नरो न विद्यते; वक्ता तथा सत्सु विनिश्चय़ज्ञः ||
१७ ख
द्रौपद्यु उवाच:
स एष शूरो नित्यममर्षणश्च; धीमान्प्राज्ञः सहदेवः पतिर्मे |
१८ क
द्रौपद्यु उवाच:
त्यजेत्प्राणान्प्रविशेद्धव्यवाहं; न त्वेवैष व्याहरेद्धर्मवाह्यम् |
१८ ख
द्रौपद्यु उवाच:
सदा मनस्वी क्षत्रधर्मे निविष्टः; कुन्त्याः प्राणैरिष्टतमो नृवीरः ||
१८ ग
द्रौपद्यु उवाच:
विशीर्यन्तीं नावमिवार्णवान्ते; रत्नाभिपूर्णां मकरस्य पृष्ठे |
१९ क
द्रौपद्यु उवाच:
सेनां तवेमां हतसर्वय़ोधां; विक्षोभितां द्रक्ष्यसि पाण्डुपुत्रैः ||
१९ ख
द्रौपद्यु उवाच:
इत्येते वै कथिताः पाण्डुपुत्रा; यांस्त्वं मोहादवमन्य प्रवृत्तः |
२० क
द्रौपद्यु उवाच:
यद्येतैस्त्वं मुच्यसेऽरिष्टदेहः; पुनर्जन्म प्राप्स्यसे जीव एव ||
२० ख
वैशम्पाय़न उवाच:
ततः पार्थाः पञ्च पञ्चेन्द्रकल्पा; स्त्यक्त्वा त्रस्तान्प्राञ्जलींस्तान्पदातीन् |
२१ क
वैशम्पाय़न उवाच:
रथानीकं शरवर्षान्धकारं; चक्रुः क्रुद्धाः सर्वतः संनिगृह्य ||
२१ ख