सञ्जय़ उवाच:
तस्मिन्देशे व्यवस्थाप्य यत्र शारद्वतः स्थितः ||
४७ ख
सञ्जय़ उवाच:
सम्प्रय़ुद्धा वय़ं पञ्च किरीटिशरपीडिताः |
४८ क
सञ्जय़ उवाच:
धृष्टद्युम्नं महानीकं तत्र नोऽभूद्रणो महान् |
४८ ख
सञ्जय़ उवाच:
जितास्तेन वय़ं सर्वे व्यपय़ाम रणात्ततः ||
४८ ग
सञ्जय़ उवाच:
अथापश्यं सात्यकिं तमुपाय़ान्तं महारथम् |
४९ क
सञ्जय़ उवाच:
रथैश्चतुःशतैर्वीरो मां चाभ्यद्रवदाहवे ||
४९ ख
सञ्जय़ उवाच:
धृष्टद्युम्नादहं मुक्तः कथञ्चिच्छ्रान्तवाहनः |
५० क
सञ्जय़ उवाच:
पतितो माधवानीकं दुष्कृती नरकं यथा |
५० ख
सञ्जय़ उवाच:
तत्र युद्धमभूद्घोरं मुहूर्तमतिदारुणम् ||
५० ग
सञ्जय़ उवाच:
सात्यकिस्तु महावाहुर्मम हत्वा परिच्छदम् |
५१ क
सञ्जय़ उवाच:
जीवग्राहमगृह्णान्मां मूर्छितं पतितं भुवि ||
५१ ख
सञ्जय़ उवाच:
ततो मुहूर्तादिव तद्गजानीकमवध्यत |
५२ क
सञ्जय़ उवाच:
गदय़ा भीमसेनेन नाराचैरर्जुनेन च ||
५२ ख
सञ्जय़ उवाच:
प्रतिपिष्टैर्महानागैः समन्तात्पर्वतोपमैः |
५३ क
सञ्जय़ उवाच:
नातिप्रसिद्धेव गतिः पाण्डवानामजाय़त ||
५३ ख
सञ्जय़ उवाच:
रथमार्गांस्ततश्चक्रे भीमसेनो महावलः |
५४ क
सञ्जय़ उवाच:
पाण्डवानां महाराज व्यपकर्षन्महागजान् ||
५४ ख
सञ्जय़ उवाच:
अश्वत्थामा कृपश्चैव कृतवर्मा च सात्वतः |
५५ क
सञ्जय़ उवाच:
अपश्यन्तो रथानीके दुर्योधनमरिन्दमम् |
५५ ख
सञ्जय़ उवाच:
राजानं मृगय़ामासुस्तव पुत्रं महारथम् ||
५५ ग
सञ्जय़ उवाच:
परित्यज्य च पाञ्चालं प्रय़ाता यत्र सौवलः |
५६ क
सञ्जय़ उवाच:
राज्ञोऽदर्शनसंविग्ना वर्तमाने जनक्षय़े ||
५६ ख