chevron_left अनुशासन पर्व अध्याय २२
युधिष्ठिर उवाच:
न विभेति कथं सा स्त्री शापस्य परमद्युतेः |
१ क
युधिष्ठिर उवाच:
कथं निवृत्तो भगवांस्तद्भवान्प्रव्रवीतु मे ||
१ ख
भीष्म उवाच:
अष्टावक्रोऽन्वपृच्छत्तां रूपं विकुरुषे कथम् |
२ क
भीष्म उवाच:
न चानृतं ते वक्तव्यं व्रूहि व्राह्मणकाम्यया ||
२ ख
स्त्र्यु उवाच:
द्यावापृथिवीमात्रैषा काम्या व्राह्मणसत्तम |
३ क
स्त्र्यु उवाच:
शृणुष्वावहितः सर्वं यदिदं सत्यविक्रम ||
३ ख
स्त्र्यु उवाच:
उत्तरां मां दिशं विद्धि दृष्टं स्त्रीचापलं च ते |
४ क
स्त्र्यु उवाच:
अव्युत्थानेन ते लोका जिताः सत्यपराक्रम ||
४ ख
स्त्र्यु उवाच:
जिज्ञासेय़ं प्रय़ुक्ता मे स्थिरीकर्तुं तवानघ |
५ क
स्त्र्यु उवाच:
स्थविराणामपि स्त्रीणां वाधते मैथुनज्वरः ||
५ ख
स्त्र्यु उवाच:
तुष्टः पितामहस्तेऽद्य तथा देवाः सवासवाः |
६ क
स्त्र्यु उवाच:
स त्वं येन च कार्येण सम्प्राप्तो भगवानिह ||
६ ख
स्त्र्यु उवाच:
प्रेषितस्तेन विप्रेण कन्यापित्रा द्विजर्षभ |
७ क
स्त्र्यु उवाच:
तवोपदेशं कर्तुं वै तच्च सर्वं कृतं मय़ा ||
७ ख
स्त्र्यु उवाच:
क्षेमी गमिष्यसि गृहाञ्श्रमश्च न भविष्यति |
८ क
स्त्र्यु उवाच:
कन्यां प्राप्स्यसि तां विप्र पुत्रिणी च भविष्यति ||
८ ख
स्त्र्यु उवाच:
काम्यया पृष्टवांस्त्वं मां ततो व्याहृतमुत्तरम् |
९ क
स्त्र्यु उवाच:
अनतिक्रमणीय़ैषा कृत्स्नैर्लोकैस्त्रिभिः सदा ||
९ ख
स्त्र्यु उवाच:
गच्छस्व सुकृतं कृत्वा किं वान्यच्छ्रोतुमिच्छसि |
१० क
स्त्र्यु उवाच:
यावद्व्रवीमि विप्रर्षे अष्टावक्र यथातथम् ||
१० ख
स्त्र्यु उवाच:
ऋषिणा प्रसादिता चास्मि तव हेतोर्द्विजर्षभ |
११ क
स्त्र्यु उवाच:
तस्य संमाननार्थं मे त्वय़ि वाक्यं प्रभाषितम् ||
११ ख
स्त्र्यु उवाच:
श्रुत्वा तु वचनं तस्याः स विप्रः प्राञ्जलिः स्थितः |
१२ क
स्त्र्यु उवाच:
अनुज्ञातस्तय़ा चापि स्वगृहं पुनराव्रजत् ||
१२ ख
स्त्र्यु उवाच:
गृहमागम्य विश्रान्तः स्वजनं प्रतिपूज्य च |
१३ क
स्त्र्यु उवाच:
अभ्यगच्छत तं विप्रं न्याय़तः कुरुनन्दन ||
१३ ख
स्त्र्यु उवाच:
पृष्टश्च तेन विप्रेण दृष्टं त्वेतन्निदर्शनम् |
१४ क
स्त्र्यु उवाच:
प्राह विप्रं तदा विप्रः सुप्रीतेनान्तरात्मना ||
१४ ख
स्त्र्यु उवाच:
भवताहमनुज्ञातः प्रस्थितो गन्धमादनम् |
१५ क
स्त्र्यु उवाच:
तस्य चोत्तरतो देशे दृष्टं तद्दैवतं महत् ||
१५ ख
स्त्र्यु उवाच:
तय़ा चाहमनुज्ञातो भवांश्चापि प्रकीर्तितः |
१६ क
स्त्र्यु उवाच:
श्रावितश्चापि तद्वाक्यं गृहमभ्यागतः प्रभो ||
१६ ख
स्त्र्यु उवाच:
तमुवाच ततो विप्रः प्रतिगृह्णीष्व मे सुताम् |
१७ क
स्त्र्यु उवाच:
नक्षत्रतिथिसंय़ोगे पात्रं हि परमं भवान् ||
१७ ख
भीष्म उवाच:
अष्टावक्रस्तथेत्युक्त्वा प्रतिगृह्य च तां प्रभो |
१८ क
भीष्म उवाच:
कन्यां परमधर्मात्मा प्रीतिमांश्चाभवत्तदा ||
१८ ख
भीष्म उवाच:
कन्यां तां प्रतिगृह्यैव भार्यां परमशोभनाम् |
१९ क
भीष्म उवाच:
उवास मुदितस्तत्र आश्रमे स्वे गतज्वरः ||
१९ ख