chevron_left आदि पर्व अध्याय १८७
वैशम्पाय़न उवाच:
तत आहूय़ पाञ्चाल्यो राजपुत्रं युधिष्ठिरम् |
१ क
वैशम्पाय़न उवाच:
परिग्रहेण व्राह्मेण परिगृह्य महाद्युतिः ||
१ ख
वैशम्पाय़न उवाच:
पर्यपृच्छददीनात्मा कुन्तीपुत्रं सुवर्चसम् |
२ क
वैशम्पाय़न उवाच:
कथं जानीम भवतः क्षत्रिय़ान्व्राह्मणानुत ||
२ ख
वैशम्पाय़न उवाच:
वैश्यान्वा गुणसम्पन्नानुत वा शूद्रय़ोनिजान् |
३ क
वैशम्पाय़न उवाच:
माय़ामास्थाय़ वा सिद्धांश्चरतः सर्वतोदिशम् ||
३ ख
वैशम्पाय़न उवाच:
कृष्णाहेतोरनुप्राप्तान्दिवः सन्दर्शनार्थिनः |
४ क
वैशम्पाय़न उवाच:
व्रवीतु नो भवान्सत्यं सन्देहो ह्यत्र नो महान् ||
४ ख
वैशम्पाय़न उवाच:
अपि नः संशय़स्यान्ते मनस्तुष्टिरिहाविशेत् |
५ क
वैशम्पाय़न उवाच:
अपि नो भागधेय़ानि शुभानि स्युः परन्तप ||
५ ख
वैशम्पाय़न उवाच:
कामय़ा व्रूहि सत्यं त्वं सत्यं राजसु शोभते |
६ क
वैशम्पाय़न उवाच:
इष्टापूर्तेन च तथा वक्तव्यमनृतं न तु ||
६ ख
वैशम्पाय़न उवाच:
श्रुत्वा ह्यमरसङ्काश तव वाक्यमरिन्दम |
७ क
वैशम्पाय़न उवाच:
ध्रुवं विवाहकरणमास्थास्यामि विधानतः ||
७ ख
युधिष्ठिर उवाच:
मा राजन्विमना भूस्त्वं पाञ्चाल्य प्रीतिरस्तु ते |
८ क
युधिष्ठिर उवाच:
ईप्सितस्ते ध्रुवः कामः संवृत्तोऽय़मसंशय़म् ||
८ ख
युधिष्ठिर उवाच:
वय़ं हि क्षत्रिय़ा राजन्पाण्डोः पुत्रा महात्मनः |
९ क
युधिष्ठिर उवाच:
ज्येष्ठं मां विद्धि कौन्तेय़ं भीमसेनार्जुनाविमौ |
९ ख
युधिष्ठिर उवाच:
याभ्यां तव सुता राजन्निर्जिता राजसंसदि ||
९ ग
युधिष्ठिर उवाच:
यमौ तु तत्र राजेन्द्र यत्र कृष्णा प्रतिष्ठिता |
१० क
युधिष्ठिर उवाच:
व्येतु ते मानसं दुःखं क्षत्रिय़ाः स्मो नरर्षभ |
१० ख
युधिष्ठिर उवाच:
पद्मिनीव सुतेय़ं ते ह्रदादन्यं ह्रदं गता ||
१० ग
युधिष्ठिर उवाच:
इति तथ्यं महाराज सर्वमेतद्व्रवीमि ते |
११ क
युधिष्ठिर उवाच:
भवान्हि गुरुरस्माकं परमं च पराय़णम् ||
११ ख
वैशम्पाय़न उवाच:
ततः स द्रुपदो राजा हर्षव्याकुललोचनः |
१२ क
वैशम्पाय़न उवाच:
प्रतिवक्तुं तदा युक्तं नाशकत्तं युधिष्ठिरम् ||
१२ ख
वैशम्पाय़न उवाच:
यत्नेन तु स तं हर्षं संनिगृह्य परन्तपः |
१३ क
वैशम्पाय़न उवाच:
अनुरूपं ततो राजा प्रत्युवाच युधिष्ठिरम् ||
१३ ख
वैशम्पाय़न उवाच:
पप्रच्छ चैनं धर्मात्मा यथा ते प्रद्रुताः पुरा |
१४ क
वैशम्पाय़न उवाच:
स तस्मै सर्वमाचख्यावानुपूर्व्येण पाण्डवः ||
१४ ख
वैशम्पाय़न उवाच:
तच्छ्रुत्वा द्रुपदो राजा कुन्तीपुत्रस्य भाषितम् |
१५ क
वैशम्पाय़न उवाच:
विगर्हय़ामास तदा धृतराष्ट्रं जनेश्वरम् ||
१५ ख
वैशम्पाय़न उवाच:
आश्वासय़ामास च तं कुन्तीपुत्रं युधिष्ठिरम् |
१६ क
वैशम्पाय़न उवाच:
प्रतिजज्ञे च राज्याय़ द्रुपदो वदतां वरः ||
१६ ख
वैशम्पाय़न उवाच:
ततः कुन्ती च कृष्णा च भीमसेनार्जुनावपि |
१७ क
वैशम्पाय़न उवाच:
यमौ च राज्ञा सन्दिष्टौ विविशुर्भवनं महत् ||
१७ ख
वैशम्पाय़न उवाच:
तत्र ते न्यवसन्राजन्यज्ञसेनेन पूजिताः |
१८ क
वैशम्पाय़न उवाच:
प्रत्याश्वस्तांस्ततो राजा सह पुत्रैरुवाच तान् ||
१८ ख
वैशम्पाय़न उवाच:
गृह्णातु विधिवत्पाणिमद्यैव कुरुनन्दनः |
१९ क
वैशम्पाय़न उवाच:
पुण्येऽहनि महावाहुरर्जुनः कुरुतां क्षणम् ||
१९ ख
वैशम्पाय़न उवाच:
ततस्तमव्रवीद्राजा धर्मपुत्रो युधिष्ठिरः |
२० क
वैशम्पाय़न उवाच:
ममापि दारसम्वन्धः कार्यस्तावद्विशां पते ||
२० ख
द्रुपद उवाच:
भवान्वा विधिवत्पाणिं गृह्णातु दुहितुर्मम |
२१ क
द्रुपद उवाच:
यस्य वा मन्यसे वीर तस्य कृष्णामुपादिश ||
२१ ख
युधिष्ठिर उवाच:
सर्वेषां द्रौपदी राजन्महिषी नो भविष्यति |
२२ क
युधिष्ठिर उवाच:
एवं हि व्याहृतं पूर्वं मम मात्रा विशां पते ||
२२ ख
युधिष्ठिर उवाच:
अहं चाप्यनिविष्टो वै भीमसेनश्च पाण्डवः |
२३ क
युधिष्ठिर उवाच:
पार्थेन विजिता चैषा रत्नभूता च ते सुता ||
२३ ख
युधिष्ठिर उवाच:
एष नः समय़ो राजन्रत्नस्य सहभोजनम् |
२४ क
युधिष्ठिर उवाच:
न च तं हातुमिच्छामः समय़ं राजसत्तम ||
२४ ख
युधिष्ठिर उवाच:
सर्वेषां धर्मतः कृष्णा महिषी नो भविष्यति |
२५ क
युधिष्ठिर उवाच:
आनुपूर्व्येण सर्वेषां गृह्णातु ज्वलने करम् ||
२५ ख
द्रुपद उवाच:
एकस्य वह्व्यो विहिता महिष्यः कुरुनन्दन |
२६ क
द्रुपद उवाच:
नैकस्या वहवः पुंसो विधीय़न्ते कदाचन ||
२६ ख
द्रुपद उवाच:
लोकवेदविरुद्धं त्वं नाधर्मं धार्मिकः शुचिः |
२७ क
द्रुपद उवाच:
कर्तुमर्हसि कौन्तेय़ कस्मात्ते वुद्धिरीदृशी ||
२७ ख
युधिष्ठिर उवाच:
सूक्ष्मो धर्मो महाराज नास्य विद्मो वय़ं गतिम् |
२८ क
युधिष्ठिर उवाच:
पूर्वेषामानुपूर्व्येण यातं वर्त्मानुय़ामहे ||
२८ ख
युधिष्ठिर उवाच:
न मे वागनृतं प्राह नाधर्मे धीय़ते मतिः |
२९ क
युधिष्ठिर उवाच:
एवं चैव वदत्यम्वा मम चैव मनोगतम् ||
२९ ख
युधिष्ठिर उवाच:
एष धर्मो ध्रुवो राजंश्चरैनमविचारय़न् |
३० क
युधिष्ठिर उवाच:
मा च तेऽत्र विशङ्का भूत्कथञ्चिदपि पार्थिव ||
३० ख
द्रुपद उवाच:
त्वं च कुन्ती च कौन्तेय़ धृष्टद्युम्नश्च मे सुतः |
३१ क
द्रुपद उवाच:
कथय़न्त्वितिकर्तव्यं श्वः काले करवामहे ||
३१ ख
वैशम्पाय़न उवाच:
ते समेत्य ततः सर्वे कथय़न्ति स्म भारत |
३२ क
वैशम्पाय़न उवाच:
अथ द्वैपाय़नो राजन्नभ्यागच्छद्यदृच्छय़ा ||
३२ ख