chevron_left अनुशासन पर्व अध्याय १६
वासुदेव उवाच:
सामभिर्यं च गाय़न्ति सामगाः शुद्धवुद्धय़ः |
४९ क
वासुदेव उवाच:
यज्ञस्य परमा योनिः पतिश्चाय़ं परः स्मृतः ||
४९ ख
वासुदेव उवाच:
रात्र्यहःश्रोत्रनय़नः पक्षमासशिरोभुजः |
५० क
वासुदेव उवाच:
ऋतुवीर्यस्तपोधैर्यो ह्यव्दगुह्योरुपादवान् ||
५० ख
वासुदेव उवाच:
मृत्युर्यमो हुताशश्च कालः संहारवेगवान् |
५१ क
वासुदेव उवाच:
कालस्य परमा योनिः कालश्चाय़ं सनातनः ||
५१ ख
वासुदेव उवाच:
चन्द्रादित्यौ सनक्षत्रौ सग्रहौ सह वाय़ुना |
५२ क
वासुदेव उवाच:
ध्रुवः सप्तर्षय़श्चैव भुवनाः सप्त एव च ||
५२ ख
वासुदेव उवाच:
प्रधानं महदव्यक्तं विशेषान्तं सवैकृतम् |
५३ क
वासुदेव उवाच:
व्रह्मादि स्तम्वपर्यन्तं भूतादि सदसच्च यत् ||
५३ ख
वासुदेव उवाच:
अष्टौ प्रकृतय़श्चैव प्रकृतिभ्यश्च यत्परम् |
५४ क
वासुदेव उवाच:
अस्य देवस्य यद्भागं कृत्स्नं सम्परिवर्तते ||
५४ ख
वासुदेव उवाच:
एतत्परममानन्दं यत्तच्छाश्वतमेव च |
५५ क
वासुदेव उवाच:
एषा गतिर्विरक्तानामेष भावः परः सताम् ||
५५ ख
वासुदेव उवाच:
एतत्पदमनुद्विग्नमेतद्व्रह्म सनातनम् |
५६ क
वासुदेव उवाच:
शास्त्रवेदाङ्गविदुषामेतद्ध्यानं परं पदम् ||
५६ ख
वासुदेव उवाच:
इय़ं सा परमा काष्ठा इय़ं सा परमा कला |
५७ क
वासुदेव उवाच:
इय़ं सा परमा सिद्धिरिय़ं सा परमा गतिः ||
५७ ख
वासुदेव उवाच:
इय़ं सा परमा शान्तिरिय़ं सा निर्वृतिः परा |
५८ क
वासुदेव उवाच:
यं प्राप्य कृतकृत्याः स्म इत्यमन्यन्त वेधसः ||
५८ ख
वासुदेव उवाच:
इय़ं तुष्टिरिय़ं सिद्धिरिय़ं श्रुतिरिय़ं स्मृतिः |
५९ क
वासुदेव उवाच:
अध्यात्मगतिनिष्ठानां विदुषां प्राप्तिरव्यया ||
५९ ख
वासुदेव उवाच:
यजतां यज्ञकामानां यज्ञैर्विपुलदक्षिणैः |
६० क
वासुदेव उवाच:
या गतिर्दैवतैर्दिव्या सा गतिस्त्वं सनातन ||
६० ख
वासुदेव उवाच:
जप्यहोमव्रतैः कृच्छ्रैर्निय़मैर्देहपातनैः |
६१ क
वासुदेव उवाच:
तप्यतां या गतिर्देव वैराजे सा गतिर्भवान् ||
६१ ख
वासुदेव उवाच:
कर्मन्यासकृतानां च विरक्तानां ततस्ततः |
६२ क
वासुदेव उवाच:
या गतिर्व्रह्मभवने सा गतिस्त्वं सनातन ||
६२ ख
वासुदेव उवाच:
अपुनर्मारकामानां वैराग्ये वर्ततां परे |
६३ क
वासुदेव उवाच:
विकृतीनां लय़ानां च सा गतिस्त्वं सनातन ||
६३ ख
वासुदेव उवाच:
ज्ञानविज्ञाननिष्ठानां निरुपाख्या निरञ्जना |
६४ क
वासुदेव उवाच:
कैवल्या या गतिर्देव परमा सा गतिर्भवान् ||
६४ ख
वासुदेव उवाच:
वेदशास्त्रपुराणोक्ताः पञ्चैता गतय़ः स्मृताः |
६५ क
वासुदेव उवाच:
त्वत्प्रसादाद्धि लभ्यन्ते न लभ्यन्तेऽन्यथा विभो ||
६५ ख
वासुदेव उवाच:
इति तण्डिस्तपोय़ोगात्तुष्टावेशानमव्ययम् |
६६ क
वासुदेव उवाच:
जगौ च परमं व्रह्म यत्पुरा लोककृज्जगौ ||
६६ ख
वासुदेव उवाच:
व्रह्मा शतक्रतुर्विष्णुर्विश्वेदेवा महर्षय़ः |
६७ क
वासुदेव उवाच:
न विदुस्त्वामिति ततस्तुष्टः प्रोवाच तं शिवः ||
६७ ख
वासुदेव उवाच:
अक्षय़श्चाव्ययश्चैव भविता दुःखवर्जितः |
६८ क
वासुदेव उवाच:
यशस्वी तेजसा युक्तो दिव्यज्ञानसमन्वितः ||
६८ ख
वासुदेव उवाच:
ऋषीणामभिगम्यश्च सूत्रकर्ता सुतस्तव |
६९ क
वासुदेव उवाच:
मत्प्रसादाद्द्विजश्रेष्ठ भविष्यति न संशय़ः ||
६९ ख
वासुदेव उवाच:
कं वा कामं ददाम्यद्य व्रूहि यद्वत्स काङ्क्षसे |
७० क
वासुदेव उवाच:
प्राञ्जलिः स उवाचेदं त्वय़ि भक्तिर्दृढास्तु मे ||
७० ख
वासुदेव उवाच:
एवं दत्त्वा वरं देवो वन्द्यमानः सुरर्षिभिः |
७१ क
वासुदेव उवाच:
स्तूय़मानश्च विवुधैस्तत्रैवान्तरधीय़त ||
७१ ख
वासुदेव उवाच:
अन्तर्हिते भगवति सानुगे यादवेश्वर |
७२ क
वासुदेव उवाच:
ऋषिराश्रममागम्य ममैतत्प्रोक्तवानिह ||
७२ ख
वासुदेव उवाच:
यानि च प्रथितान्यादौ तण्डिराख्यातवान्मम |
७३ क
वासुदेव उवाच:
नामानि मानवश्रेष्ठ तानि त्वं शृणु सिद्धय़े ||
७३ ख
वासुदेव उवाच:
दश नामसहस्राणि वेदेष्वाह पितामहः |
७४ क
वासुदेव उवाच:
शर्वस्य शास्त्रेषु तथा दश नामशतानि वै ||
७४ ख
वासुदेव उवाच:
गुह्यानीमानि नामानि तण्डिर्भगवतोऽच्युत |
७५ क
वासुदेव उवाच:
देवप्रसादाद्देवेश पुरा प्राह महात्मने ||
७५ ख