chevron_left आदि पर्व अध्याय १४७
वैशम्पाय़न उवाच:
तय़ोर्दुःखितय़ोर्वाक्यमतिमात्रं निशम्य तत् |
१ क
वैशम्पाय़न उवाच:
भृशं दुःखपरीताङ्गी कन्या तावभ्यभाषत ||
१ ख
वैशम्पाय़न उवाच:
किमिदं भृशदुःखार्तौ रोरवीथो अनाथवत् |
२ क
वैशम्पाय़न उवाच:
ममापि श्रूय़तां किञ्चिच्छ्रुत्वा च क्रिय़तां क्षमम् ||
२ ख
वैशम्पाय़न उवाच:
धर्मतोऽहं परित्याज्या युवय़ोर्नात्र संशय़ः |
३ क
वैशम्पाय़न उवाच:
त्यक्तव्यां मां परित्यज्य त्रातं सर्वं मय़ैकय़ा ||
३ ख
वैशम्पाय़न उवाच:
इत्यर्थमिष्यतेऽपत्यं तारय़िष्यति मामिति |
४ क
वैशम्पाय़न उवाच:
तस्मिन्नुपस्थिते काले तरतं प्लववन्मय़ा ||
४ ख
वैशम्पाय़न उवाच:
इह वा तारय़ेद्दुर्गादुत वा प्रेत्य तारय़ेत् |
५ क
वैशम्पाय़न उवाच:
सर्वथा तारय़ेत्पुत्रः पुत्र इत्युच्यते वुधैः ||
५ ख
वैशम्पाय़न उवाच:
आकाङ्क्षन्ते च दौहित्रानपि नित्यं पितामहाः |
६ क
वैशम्पाय़न उवाच:
तान्स्वय़ं वै परित्रास्ये रक्षन्ती जीवितं पितुः ||
६ ख
वैशम्पाय़न उवाच:
भ्राता च मम वालोऽय़ं गते लोकममुं त्वय़ि |
७ क
वैशम्पाय़न उवाच:
अचिरेणैव कालेन विनश्येत न संशय़ः ||
७ ख
वैशम्पाय़न उवाच:
तातेऽपि हि गते स्वर्गं विनष्टे च ममानुजे |
८ क
वैशम्पाय़न उवाच:
पिण्डः पितृणां व्युच्छिद्येत्तत्तेषामप्रिय़ं भवेत् ||
८ ख
वैशम्पाय़न उवाच:
पित्रा त्यक्ता तथा मात्रा भ्रात्रा चाहमसंशय़म् |
९ क
वैशम्पाय़न उवाच:
दुःखाद्दुःखतरं प्राप्य म्रिय़ेय़मतथोचिता ||
९ ख
वैशम्पाय़न उवाच:
त्वय़ि त्वरोगे निर्मुक्ते माता भ्राता च मे शिशुः |
१० क
वैशम्पाय़न उवाच:
सन्तानश्चैव पिण्डश्च प्रतिष्ठास्यत्यसंशय़म् ||
१० ख
वैशम्पाय़न उवाच:
आत्मा पुत्रः सखा भार्या कृच्छ्रं तु दुहिता किल |
११ क
वैशम्पाय़न उवाच:
स कृच्छ्रान्मोचय़ात्मानं मां च धर्मेण योजय़ ||
११ ख
वैशम्पाय़न उवाच:
अनाथा कृपणा वाला यत्रक्वचनगामिनी |
१२ क
वैशम्पाय़न उवाच:
भविष्यामि त्वय़ा तात विहीना कृपणा वत ||
१२ ख
वैशम्पाय़न उवाच:
अथवाहं करिष्यामि कुलस्यास्य विमोक्षणम् |
१३ क
वैशम्पाय़न उवाच:
फलसंस्था भविष्यामि कृत्वा कर्म सुदुष्करम् ||
१३ ख
वैशम्पाय़न उवाच:
अथवा यास्यसे तत्र त्यक्त्वा मां द्विजसत्तम |
१४ क
वैशम्पाय़न उवाच:
पीडिताहं भविष्यामि तदवेक्षस्व मामपि ||
१४ ख
वैशम्पाय़न उवाच:
तदस्मदर्थं धर्मार्थं प्रसवार्थं च सत्तम |
१५ क
वैशम्पाय़न उवाच:
आत्मानं परिरक्षस्व त्यक्तव्यां मां च सन्त्यज ||
१५ ख
वैशम्पाय़न उवाच:
अवश्यकरणीय़ेऽर्थे मा त्वां कालोऽत्यगादय़म् |
१६ क
वैशम्पाय़न उवाच:
त्वय़ा दत्तेन तोय़ेन भविष्यति हितं च मे ||
१६ ख
वैशम्पाय़न उवाच:
किं न्वतः परमं दुःखं यद्वय़ं स्वर्गते त्वय़ि |
१७ क
वैशम्पाय़न उवाच:
याचमानाः परादन्नं परिधावेमहि श्ववत् ||
१७ ख
वैशम्पाय़न उवाच:
त्वय़ि त्वरोगे निर्मुक्ते क्लेशादस्मात्सवान्धवे |
१८ क
वैशम्पाय़न उवाच:
अमृते वसती लोके भविष्यामि सुखान्विता ||
१८ ख
वैशम्पाय़न उवाच:
एवं वहुविधं तस्या निशम्य परिदेवितम् |
१९ क
वैशम्पाय़न उवाच:
पिता माता च सा चैव कन्या प्ररुरुदुस्त्रय़ः ||
१९ ख
वैशम्पाय़न उवाच:
ततः प्ररुदितान्सर्वान्निशम्याथ सुतस्तय़ोः |
२० क
वैशम्पाय़न उवाच:
उत्फुल्लनय़नो वालः कलमव्यक्तमव्रवीत् ||
२० ख
वैशम्पाय़न उवाच:
मा रोदीस्तात मा मातर्मा स्वसस्त्वमिति व्रुवन् |
२१ क
वैशम्पाय़न उवाच:
प्रहसन्निव सर्वांस्तानेकैकं सोऽपसर्पति ||
२१ ख
वैशम्पाय़न उवाच:
ततः स तृणमादाय़ प्रहृष्टः पुनरव्रवीत् |
२२ क
वैशम्पाय़न उवाच:
अनेन तं हनिष्यामि राक्षसं पुरुषादकम् ||
२२ ख
वैशम्पाय़न उवाच:
तथापि तेषां दुःखेन परीतानां निशम्य तत् |
२३ क
वैशम्पाय़न उवाच:
वालस्य वाक्यमव्यक्तं हर्षः समभवन्महान् ||
२३ ख
वैशम्पाय़न उवाच:
अय़ं काल इति ज्ञात्वा कुन्ती समुपसृत्य तान् |
२४ क
वैशम्पाय़न उवाच:
गतासूनमृतेनेव जीवय़न्तीदमव्रवीत् ||
२४ ख