chevron_left द्रोण पर्व अध्याय १३७
सञ्जय़ उवाच:
सोमदत्तं तु सम्प्रेक्ष्य विधुन्वानं महद्धनुः |
१ क
सञ्जय़ उवाच:
सात्यकिः प्राह यन्तारं सोमदत्ताय़ मां वह ||
१ ख
सञ्जय़ उवाच:
न ह्यहत्वा रणे शत्रुं वाह्लीकं कौरवाधमम् |
२ क
सञ्जय़ उवाच:
निवर्तिष्ये रणात्सूत सत्यमेतद्वचो मम ||
२ ख
सञ्जय़ उवाच:
ततः सम्प्रेषय़द्यन्ता सैन्धवांस्तान्महाजवान् |
३ क
सञ्जय़ उवाच:
तुरङ्गमाञ्शङ्खवर्णान्सर्वशव्दातिगान्रणे ||
३ ख
सञ्जय़ उवाच:
तेऽवहन्युय़ुधानं तु मनोमारुतरंहसः |
४ क
सञ्जय़ उवाच:
यथेन्द्रं हरय़ो राजन्पुरा दैत्यवधोद्यतम् ||
४ ख
सञ्जय़ उवाच:
तमापतन्तं सम्प्रेक्ष्य सात्वतं रभसं रणे |
५ क
सञ्जय़ उवाच:
सोमदत्तो महावाहुरसम्भ्रान्तोऽभ्यवर्तत ||
५ ख
सञ्जय़ उवाच:
विमुञ्चञ्शरवर्षाणि पर्जन्य इव वृष्टिमान् |
६ क
सञ्जय़ उवाच:
छादय़ामास शैनेय़ं जलदो भास्करं यथा ||
६ ख
सञ्जय़ उवाच:
असम्भ्रान्तश्च समरे सात्यकिः कुरुपुङ्गवम् |
७ क
सञ्जय़ उवाच:
छादय़ामास वाणौघैः समन्ताद्भरतर्षभ ||
७ ख
सञ्जय़ उवाच:
सोमदत्तस्तु तं षष्ट्या विव्याधोरसि माधवम् |
८ क
सञ्जय़ उवाच:
सात्यकिश्चापि तं राजन्नविध्यत्साय़कैः शितैः ||
८ ख
सञ्जय़ उवाच:
तावन्योन्यं शरैः कृत्तौ व्यराजेतां नरर्षभौ |
९ क
सञ्जय़ उवाच:
सुपुष्पौ पुष्पसमय़े पुष्पिताविव किंशुकौ ||
९ ख
सञ्जय़ उवाच:
रुधिरोक्षितसर्वाङ्गौ कुरुवृष्णिय़शस्करौ |
१० क
सञ्जय़ उवाच:
परस्परमवेक्षेतां दहन्ताविव लोचनैः ||
१० ख
सञ्जय़ उवाच:
रथमण्डलमार्गेषु चरन्तावरिमर्दनौ |
११ क
सञ्जय़ उवाच:
घोररूपौ हि तावास्तां वृष्टिमन्ताविवाम्वुदौ ||
११ ख
सञ्जय़ उवाच:
शरसम्भिन्नगात्रौ तौ सर्वतः शकलीकृतौ |
१२ क
सञ्जय़ उवाच:
श्वाविधाविव राजेन्द्र व्यदृष्येतां शरक्षतौ ||
१२ ख
सञ्जय़ उवाच:
सुवर्णपुङ्खैरिषुभिराचितौ तौ व्यरोचताम् |
१३ क
सञ्जय़ उवाच:
खद्योतैरावृतौ राजन्प्रावृषीव वनस्पती ||
१३ ख
सञ्जय़ उवाच:
सम्प्रदीपितसर्वाङ्गौ साय़कैस्तौ महारथौ |
१४ क
सञ्जय़ उवाच:
अदृश्येतां रणे क्रुद्धावुल्काभिरिव कुञ्जरौ ||
१४ ख
सञ्जय़ उवाच:
ततो युधि महाराज सोमदत्तो महारथः |
१५ क
सञ्जय़ उवाच:
अर्धचन्द्रेण चिच्छेद माधवस्य महद्धनुः ||
१५ ख
सञ्जय़ उवाच:
अथैनं पञ्चविंशत्या साय़कानां समार्पय़त् |
१६ क
सञ्जय़ उवाच:
त्वरमाणस्त्वराकाले पुनश्च दशभिः शरैः ||
१६ ख
सञ्जय़ उवाच:
अथान्यद्धनुरादाय़ सात्यकिर्वेगवत्तरम् |
१७ क
सञ्जय़ उवाच:
पञ्चभिः साय़कैस्तूर्णं सोमदत्तमविध्यत ||
१७ ख
सञ्जय़ उवाच:
ततोऽपरेण भल्लेन ध्वजं चिच्छेद काञ्चनम् |
१८ क
सञ्जय़ उवाच:
वाह्लीकस्य रणे राजन्सात्यकिः प्रहसन्निव ||
१८ ख
सञ्जय़ उवाच:
सोमदत्तस्त्वसम्भ्रान्तो दृष्ट्वा केतुं निपातितम् |
१९ क
सञ्जय़ उवाच:
शैनेय़ं पञ्चविंशत्या साय़कानां समाचिनोत् ||
१९ ख
सञ्जय़ उवाच:
सात्वतोऽपि रणे क्रुद्धः सोमदत्तस्य धन्विनः |
२० क
सञ्जय़ उवाच:
धनुश्चिच्छेद समरे क्षुरप्रेण शितेन ह ||
२० ख
सञ्जय़ उवाच:
अथैनं रुक्मपुङ्खानां शतेन नतपर्वणाम् |
२१ क
सञ्जय़ उवाच:
आचिनोद्वहुधा राजन्भग्नदंष्ट्रमिव द्विपम् ||
२१ ख
सञ्जय़ उवाच:
अथान्यद्धनुरादाय़ सोमदत्तो महारथः |
२२ क
सञ्जय़ उवाच:
सात्यकिं छादय़ामास शरवृष्ट्या महावलः ||
२२ ख
सञ्जय़ उवाच:
सोमदत्तं तु सङ्क्रुद्धो रणे विव्याध सात्यकिः |
२३ क
सञ्जय़ उवाच:
सात्यकिं चेषुजालेन सोमदत्तो अपीडय़त् ||
२३ ख
सञ्जय़ उवाच:
दशभिः सात्वतस्यार्थे भीमोऽहन्वाह्लिकात्मजम् |
२४ क
सञ्जय़ उवाच:
सोमदत्तोऽप्यसम्भ्रान्तः शैनेय़मवधीच्छरैः ||
२४ ख
सञ्जय़ उवाच:
ततस्तु सात्वतस्यार्थे भैमसेनिर्नवं दृढम् |
२५ क
सञ्जय़ उवाच:
मुमोच परिघं घोरं सोमदत्तस्य वक्षसि ||
२५ ख
सञ्जय़ उवाच:
तमापतन्तं वेगेन परिघं घोरदर्शनम् |
२६ क
सञ्जय़ उवाच:
द्विधा चिच्छेद समरे प्रहसन्निव कौरवः ||
२६ ख
सञ्जय़ उवाच:
स पपात द्विधा छिन्न आय़सः परिघो महान् |
२७ क
सञ्जय़ उवाच:
महीधरस्येव महच्छिखरं वज्रदारितम् ||
२७ ख
सञ्जय़ उवाच:
ततस्तु सात्यकी राजन्सोमदत्तस्य संय़ुगे |
२८ क
सञ्जय़ उवाच:
धनुश्चिच्छेद भल्लेन हस्तावापं च पञ्चभिः ||
२८ ख
सञ्जय़ उवाच:
चतुर्भिस्तु शरैस्तूर्णं चतुरस्तुरगोत्तमान् |
२९ क
सञ्जय़ उवाच:
समीपं प्रेषय़ामास प्रेतराजस्य भारत ||
२९ ख
सञ्जय़ उवाच:
सारथेश्च शिरः काय़ाद्भल्लेन नतपर्वणा |
३० क
सञ्जय़ उवाच:
जहार रथशार्दूलः प्रहसञ्शिनिपुङ्गवः ||
३० ख
सञ्जय़ उवाच:
ततः शरं महाघोरं ज्वलन्तमिव पावकम् |
३१ क
सञ्जय़ उवाच:
मुमोच सात्वतो राजन्स्वर्णपुङ्खं शिलाशितम् ||
३१ ख
सञ्जय़ उवाच:
स विमुक्तो वलवता शैनेय़ेन शरोत्तमः |
३२ क
सञ्जय़ उवाच:
घोरस्तस्योरसि विभो निपपाताशु भारत ||
३२ ख
सञ्जय़ उवाच:
सोऽतिविद्धो वलवता सात्वतेन महारथः |
३३ क
सञ्जय़ उवाच:
सोमदत्तो महावाहुर्निपपात ममार च ||
३३ ख
सञ्जय़ उवाच:
तं दृष्ट्वा निहतं तत्र सोमदत्तं महारथाः |
३४ क
सञ्जय़ उवाच:
महता शरवर्षेण युय़ुधानमुपाद्रवन् ||
३४ ख
सञ्जय़ उवाच:
छाद्यमानं शरैर्दृष्ट्वा युय़ुधानं युधिष्ठिरः |
३५ क
सञ्जय़ उवाच:
महत्या सेनय़ा सार्धं द्रोणानीकमुपाद्रवत् ||
३५ ख
सञ्जय़ उवाच:
ततो युधिष्ठिरः क्रुद्धस्तावकानां महावलम् |
३६ क
सञ्जय़ उवाच:
शरैर्विद्रावय़ामास भारद्वाजस्य पश्यतः ||
३६ ख
सञ्जय़ उवाच:
सैन्यानि द्रावय़न्तं तु द्रोणो दृष्ट्वा युधिष्ठिरम् |
३७ क
सञ्जय़ उवाच:
अभिदुद्राव वेगेन क्रोधसंरक्तलोचनः ||
३७ ख
सञ्जय़ उवाच:
ततः सुनिशितैर्वाणैः पार्थं विव्याध सप्तभिः |
३८ क
सञ्जय़ उवाच:
सोऽतिविद्धो महावाहुः सृक्किणी परिसंलिहन् |
३८ ख
सञ्जय़ उवाच:
युधिष्ठिरस्य चिच्छेद ध्वजं कार्मुकमेव च ||
३८ ग
सञ्जय़ उवाच:
स छिन्नधन्वा त्वरितस्त्वराकाले नृपोत्तमः |
३९ क
सञ्जय़ उवाच:
अन्यदादत्त वेगेन कार्मुकं समरे दृढम् ||
३९ ख
सञ्जय़ उवाच:
ततः शरसहस्रेण द्रोणं विव्याध पार्थिवः |
४० क
सञ्जय़ उवाच:
साश्वसूतध्वजरथं तदद्भुतमिवाभवत् ||
४० ख
सञ्जय़ उवाच:
ततो मुहूर्तं व्यथितः शरघातप्रपीडितः |
४१ क
सञ्जय़ उवाच:
निषसाद रथोपस्थे द्रोणो भरतसत्तम ||
४१ ख
सञ्जय़ उवाच:
प्रतिलभ्य ततः सञ्ज्ञां मुहूर्ताद्द्विजसत्तमः |
४२ क
सञ्जय़ उवाच:
क्रोधेन महताविष्टो वाय़व्यास्त्रमवासृजत् ||
४२ ख
सञ्जय़ उवाच:
असम्भ्रान्तस्ततः पार्थो धनुराकृष्य वीर्यवान् |
४३ क
सञ्जय़ उवाच:
तदस्त्रमस्त्रेण रणे स्तम्भय़ामास भारत ||
४३ ख
सञ्जय़ उवाच:
ततोऽव्रवीद्वासुदेवः कुन्तीपुत्रं युधिष्ठिरम् |
४४ क
सञ्जय़ उवाच:
युधिष्ठिर महावाहो यत्त्वा वक्ष्यामि तच्छृणु ||
४४ ख
सञ्जय़ उवाच:
उपारमस्व युद्धाय़ द्रोणाद्भरतसत्तम |
४५ क
सञ्जय़ उवाच:
गृध्यते हि सदा द्रोणो ग्रहणे तव संय़ुगे ||
४५ ख
सञ्जय़ उवाच:
नानुरूपमहं मन्ये युद्धमस्य त्वय़ा सह |
४६ क
सञ्जय़ उवाच:
योऽस्य सृष्टो विनाशाय़ स एनं श्वो हनिष्यति ||
४६ ख
सञ्जय़ उवाच:
परिवर्ज्य गुरुं याहि यत्र राजा सुय़ोधनः |
४७ क
सञ्जय़ उवाच:
भीमश्च रथशार्दूलो युध्यते कौरवैः सह ||
४७ ख
सञ्जय़ उवाच:
वासुदेववचः श्रुत्वा धर्मराजो युधिष्ठिरः |
४८ क
सञ्जय़ उवाच:
मुहूर्तं चिन्तय़ित्वा तु ततो दारुणमाहवम् ||
४८ ख
सञ्जय़ उवाच:
प्राय़ाद्द्रुतममित्रघ्नो यत्र भीमो व्यवस्थितः |
४९ क
सञ्जय़ उवाच:
विनिघ्नंस्तावकान्योधान्व्यादितास्य इवान्तकः ||
४९ ख
सञ्जय़ उवाच:
रथघोषेण महता नादय़न्वसुधातलम् |
५० क