chevron_left आदि पर्व अध्याय १११
वैशम्पाय़न उवाच:
तत्रापि तपसि श्रेष्ठे वर्तमानः स वीर्यवान् |
१ क
वैशम्पाय़न उवाच:
सिद्धचारणसङ्घानां वभूव प्रिय़दर्शनः ||
१ ख
वैशम्पाय़न उवाच:
शुश्रूषुरनहंवादी संय़तात्मा जितेन्द्रिय़ः |
२ क
वैशम्पाय़न उवाच:
स्वर्गं गन्तुं पराक्रान्तः स्वेन वीर्येण भारत ||
२ ख
वैशम्पाय़न उवाच:
केषाञ्चिदभवद्भ्राता केषाञ्चिदभवत्सखा |
३ क
वैशम्पाय़न उवाच:
ऋषय़स्त्वपरे चैनं पुत्रवत्पर्यपालय़न् ||
३ ख
वैशम्पाय़न उवाच:
स तु कालेन महता प्राप्य निष्कल्मषं तपः |
४ क
वैशम्पाय़न उवाच:
व्रह्मर्षिसदृशः पाण्डुर्वभूव भरतर्षभ ||
४ ख
वैशम्पाय़न उवाच:
स्वर्गपारं तितीर्षन्स शतशृङ्गादुदङ्मुखः |
५ क
वैशम्पाय़न उवाच:
प्रतस्थे सह पत्नीभ्यामव्रुवंस्तत्र तापसाः |
५ ख
वैशम्पाय़न उवाच:
उपर्युपरि गच्छन्तः शैलराजमुदङ्मुखाः ||
५ ग
वैशम्पाय़न उवाच:
दृष्टवन्तो गिरेरस्य दुर्गान्देशान्वहून्वय़म् |
६ क
वैशम्पाय़न उवाच:
आक्रीडभूतान्देवानां गन्धर्वाप्सरसां तथा ||
६ ख
वैशम्पाय़न उवाच:
उद्यानानि कुवेरस्य समानि विषमाणि च |
७ क
वैशम्पाय़न उवाच:
महानदीनितम्वांश्च दुर्गांश्च गिरिगह्वरान् ||
७ ख
वैशम्पाय़न उवाच:
सन्ति नित्यहिमा देशा निर्वृक्षमृगपक्षिणः |
८ क
वैशम्पाय़न उवाच:
सन्ति केचिन्महावर्षा दुर्गाः केचिद्दुरासदाः ||
८ ख
वैशम्पाय़न उवाच:
अतिक्रामेन्न पक्षी यान्कुत एवेतरे मृगाः |
९ क
वैशम्पाय़न उवाच:
वाय़ुरेकोऽतिगाद्यत्र सिद्धाश्च परमर्षय़ः ||
९ ख
वैशम्पाय़न उवाच:
गच्छन्त्यौ शैलराजेऽस्मिन्राजपुत्र्यौ कथं त्विमे |
१० क
वैशम्पाय़न उवाच:
न सीदेतामदुःखार्हे मा गमो भरतर्षभ ||
१० ख
पाण्डुरु उवाच:
अप्रजस्य महाभागा न द्वारं परिचक्षते |
११ क
पाण्डुरु उवाच:
स्वर्गे तेनाभितप्तोऽहमप्रजस्तद्व्रवीमि वः ||
११ ख
पाण्डुरु उवाच:
ऋणैश्चतुर्भिः संय़ुक्ता जाय़न्ते मनुजा भुवि |
१२ क
पाण्डुरु उवाच:
पितृदेवर्षिमनुजदेय़ैः शतसहस्रशः ||
१२ ख
पाण्डुरु उवाच:
एतानि तु यथाकालं यो न वुध्यति मानवः |
१३ क
पाण्डुरु उवाच:
न तस्य लोकाः सन्तीति धर्मविद्भिः प्रतिष्ठितम् ||
१३ ख
पाण्डुरु उवाच:
यज्ञैश्च देवान्प्रीणाति स्वाध्याय़तपसा मुनीन् |
१४ क
पाण्डुरु उवाच:
पुत्रैः श्राद्धैः पितृंश्चापि आनृशंस्येन मानवान् ||
१४ ख
पाण्डुरु उवाच:
ऋषिदेवमनुष्याणां परिमुक्तोऽस्मि धर्मतः |
१५ क
पाण्डुरु उवाच:
पित्र्यादृणादनिर्मुक्तस्तेन तप्ये तपोधनाः ||
१५ ख
पाण्डुरु उवाच:
देहनाशे ध्रुवो नाशः पितृणामेष निश्चय़ः |
१६ क
पाण्डुरु उवाच:
इह तस्मात्प्रजाहेतोः प्रजाय़न्ते नरोत्तमाः ||
१६ ख
पाण्डुरु उवाच:
यथैवाहं पितुः क्षेत्रे सृष्टस्तेन महात्मना |
१७ क
पाण्डुरु उवाच:
तथैवास्मिन्मम क्षेत्रे कथं वै सम्भवेत्प्रजा ||
१७ ख
तापसा ऊचुः:
अस्ति वै तव धर्मात्मन्विद्म देवोपमं शुभम् |
१८ क
तापसा ऊचुः:
अपत्यमनघं राजन्वय़ं दिव्येन चक्षुषा ||
१८ ख
तापसा ऊचुः:
दैवदिष्टं नरव्याघ्र कर्मणेहोपपादय़ |
१९ क
तापसा ऊचुः:
अक्लिष्टं फलमव्यग्रो विन्दते वुद्धिमान्नरः ||
१९ ख
तापसा ऊचुः:
तस्मिन्दृष्टे फले तात प्रय़त्नं कर्तुमर्हसि |
२० क
तापसा ऊचुः:
अपत्यं गुणसम्पन्नं लव्ध्वा प्रीतिमवाप्स्यसि ||
२० ख
वैशम्पाय़न उवाच:
तच्छ्रुत्वा तापसवचः पाण्डुश्चिन्तापरोऽभवत् |
२१ क
वैशम्पाय़न उवाच:
आत्मनो मृगशापेन जानन्नुपहतां क्रिय़ाम् ||
२१ ख
वैशम्पाय़न उवाच:
सोऽव्रवीद्विजने कुन्तीं धर्मपत्नीं यशस्विनीम् |
२२ क
वैशम्पाय़न उवाच:
अपत्योत्पादने योगमापदि प्रसमर्थय़न् ||
२२ ख
वैशम्पाय़न उवाच:
अपत्यं नाम लोकेषु प्रतिष्ठा धर्मसंहिता |
२३ क
वैशम्पाय़न उवाच:
इति कुन्ति विदुर्धीराः शाश्वतं धर्ममादितः ||
२३ ख
वैशम्पाय़न उवाच:
इष्टं दत्तं तपस्तप्तं निय़मश्च स्वनुष्ठितः |
२४ क
वैशम्पाय़न उवाच:
सर्वमेवानपत्यस्य न पावनमिहोच्यते ||
२४ ख
वैशम्पाय़न उवाच:
सोऽहमेवं विदित्वैतत्प्रपश्यामि शुचिस्मिते |
२५ क
वैशम्पाय़न उवाच:
अनपत्यः शुभाँल्लोकान्नावाप्स्यामीति चिन्तय़न् ||
२५ ख
वैशम्पाय़न उवाच:
मृगाभिशापान्नष्टं मे प्रजनं ह्यकृतात्मनः |
२६ क
वैशम्पाय़न उवाच:
नृशंसकारिणो भीरु यथैवोपहतं तथा ||
२६ ख
वैशम्पाय़न उवाच:
इमे वै वन्धुदाय़ादाः षट्पुत्रा धर्मदर्शने |
२७ क
वैशम्पाय़न उवाच:
षडेवावन्धुदाय़ादाः पुत्रास्ताञ्शृणु मे पृथे ||
२७ ख
वैशम्पाय़न उवाच:
स्वय़ञ्जातः प्रणीतश्च परिक्रीतश्च यः सुतः |
२८ क
वैशम्पाय़न उवाच:
पौनर्भवश्च कानीनः स्वैरिण्यां यश्च जाय़ते ||
२८ ख
वैशम्पाय़न उवाच:
दत्तः क्रीतः कृत्रिमश्च उपगच्छेत्स्वय़ं च यः |
२९ क
वैशम्पाय़न उवाच:
सहोढो जातरेताश्च हीनय़ोनिधृतश्च यः ||
२९ ख
वैशम्पाय़न उवाच:
पूर्वपूर्वतमाभावे मत्वा लिप्सेत वै सुतम् |
३० क
वैशम्पाय़न उवाच:
उत्तमादवराः पुंसः काङ्क्षन्ते पुत्रमापदि ||
३० ख
वैशम्पाय़न उवाच:
अपत्यं धर्मफलदं श्रेष्ठं विन्दन्ति साधवः |
३१ क
वैशम्पाय़न उवाच:
आत्मशुक्रादपि पृथे मनुः स्वाय़म्भुवोऽव्रवीत् ||
३१ ख
वैशम्पाय़न उवाच:
तस्मात्प्रहेष्याम्यद्य त्वां हीनः प्रजननात्स्वय़म् |
३२ क
वैशम्पाय़न उवाच:
सदृशाच्छ्रेय़सो वा त्वं विद्ध्यपत्यं यशस्विनि ||
३२ ख
वैशम्पाय़न उवाच:
शृणु कुन्ति कथां चेमां शारदण्डाय़नीं प्रति |
३३ क
वैशम्पाय़न उवाच:
या वीरपत्नी गुरुभिर्निय़ुक्तापत्यजन्मनि ||
३३ ख
वैशम्पाय़न उवाच:
पुष्पेण प्रय़ता स्नाता निशि कुन्ति चतुष्पथे |
३४ क
वैशम्पाय़न उवाच:
वरय़ित्वा द्विजं सिद्धं हुत्वा पुंसवनेऽनलम् ||
३४ ख
वैशम्पाय़न उवाच:
कर्मण्यवसिते तस्मिन्सा तेनैव सहावसत् |
३५ क
वैशम्पाय़न उवाच:
तत्र त्रीञ्जनय़ामास दुर्जय़ादीन्महारथान् ||
३५ ख
वैशम्पाय़न उवाच:
तथा त्वमपि कल्याणि व्राह्मणात्तपसाधिकात् |
३६ क
वैशम्पाय़न उवाच:
मन्निय़ोगाद्यत क्षिप्रमपत्योत्पादनं प्रति ||
३६ ख