नारद उवाच:
पुरा देवय़ुगे राजन्नादित्यो भगवान्दिवः |
१ क
नारद उवाच:
आगच्छन्मानुषं लोकं दिदृक्षुर्विगतक्लमः ||
१ ख
नारद उवाच:
चरन्मानुषरूपेण सभां दृष्ट्वा स्वय़म्भुवः |
२ क
नारद उवाच:
सभामकथय़न्मह्यं व्राह्मीं तत्त्वेन पाण्डव ||
२ ख
नारद उवाच:
अप्रमेय़प्रभां दिव्यां मानसीं भरतर्षभ |
३ क
नारद उवाच:
अनिर्देश्यां प्रभावेन सर्वभूतमनोरमाम् ||
३ ख
नारद उवाच:
श्रुत्वा गुणानहं तस्याः सभाय़ाः पाण्डुनन्दन |
४ क
नारद उवाच:
दर्शनेप्सुस्तथा राजन्नादित्यमहमव्रुवम् ||
४ ख
नारद उवाच:
भगवन्द्रष्टुमिच्छामि पितामहसभामहम् |
५ क
नारद उवाच:
येन सा तपसा शक्या कर्मणा वापि गोपते ||
५ ख
नारद उवाच:
औषधैर्वा तथा युक्तैरुत वा माय़या यय़ा |
६ क
नारद उवाच:
तन्ममाचक्ष्व भगवन्पश्येय़ं तां सभां कथम् ||
६ ख
नारद उवाच:
ततः स भगवान्सूर्यो मामुपादाय़ वीर्यवान् |
७ क
नारद उवाच:
अगच्छत्तां सभां व्राह्मीं विपापां विगतक्लमाम् ||
७ ख
नारद उवाच:
एवंरूपेति सा शक्या न निर्देष्टुं जनाधिप |
८ क
नारद उवाच:
क्षणेन हि विभर्त्यन्यदनिर्देश्यं वपुस्तथा ||
८ ख
नारद उवाच:
न वेद परिमाणं वा संस्थानं वापि भारत |
९ क
नारद उवाच:
न च रूपं मय़ा तादृग्दृष्टपूर्वं कदाचन ||
९ ख
नारद उवाच:
सुसुखा सा सभा राजन्न शीता न च घर्मदा |
१० क
नारद उवाच:
न क्षुत्पिपासे न ग्लानिं प्राप्य तां प्राप्नुवन्त्युत ||
१० ख
नारद उवाच:
नानारूपैरिव कृता सुविचित्रैः सुभास्वरैः |
११ क
नारद उवाच:
स्तम्भैर्न च धृता सा तु शाश्वती न च सा क्षरा ||
११ ख
नारद उवाच:
अति चन्द्रं च सूर्यं च शिखिनं च स्वय़म्प्रभा |
१२ क
नारद उवाच:
दीप्यते नाकपृष्ठस्था भासय़न्तीव भास्करम् ||
१२ ख
नारद उवाच:
तस्यां स भगवानास्ते विदधद्देवमाय़या |
१३ क
नारद उवाच:
स्वय़मेकोऽनिशं राजँल्लोकाँल्लोकपितामहः ||
१३ ख
नारद उवाच:
उपतिष्ठन्ति चाप्येनं प्रजानां पतय़ः प्रभुम् |
१४ क
नारद उवाच:
दक्षः प्रचेताः पुलहो मरीचिः कश्यपस्तथा ||
१४ ख
नारद उवाच:
भृगुरत्रिर्वसिष्ठश्च गौतमश्च तथाङ्गिराः |
१५ क
नारद उवाच:
मनोऽन्तरिक्षं विद्याश्च वाय़ुस्तेजो जलं मही ||
१५ ख
नारद उवाच:
शव्दः स्पर्शस्तथा रूपं रसो गन्धश्च भारत |
१६ क
नारद उवाच:
प्रकृतिश्च विकारश्च यच्चान्यत्कारणं भुवः ||
१६ ख
नारद उवाच:
चन्द्रमाः सह नक्षत्रैरादित्यश्च गभस्तिमान् |
१७ क
नारद उवाच:
वाय़वः क्रतवश्चैव सङ्कल्पः प्राण एव च ||
१७ ख
नारद उवाच:
एते चान्ये च वहवः स्वय़म्भुवमुपस्थिताः |
१८ क
नारद उवाच:
अर्थो धर्मश्च कामश्च हर्षो द्वेषस्तपो दमः ||
१८ ख
नारद उवाच:
आय़ान्ति तस्यां सहिता गन्धर्वाप्सरसस्तथा |
१९ क
नारद उवाच:
विंशतिः सप्त चैवान्ये लोकपालाश्च सर्वशः ||
१९ ख
नारद उवाच:
शुक्रो वृहस्पतिश्चैव वुधोऽङ्गारक एव च |
२० क
नारद उवाच:
शनैश्चरश्च राहुश्च ग्रहाः सर्वे तथैव च ||
२० ख
नारद उवाच:
मन्त्रो रथन्तरश्चैव हरिमान्वसुमानपि |
२१ क
नारद उवाच:
आदित्याः साधिराजानो नानाद्वन्द्वैरुदाहृताः ||
२१ ख
नारद उवाच:
मरुतो विश्वकर्मा च वसवश्चैव भारत |
२२ क
नारद उवाच:
तथा पितृगणाः सर्वे सर्वाणि च हवींष्यथ ||
२२ ख
नारद उवाच:
ऋग्वेदः सामवेदश्च यजुर्वेदश्च पाण्डव |
२३ क
नारद उवाच:
अथर्ववेदश्च तथा पर्वाणि च विशां पते ||
२३ ख
नारद उवाच:
इतिहासोपवेदाश्च वेदाङ्गानि च सर्वशः |
२४ क
नारद उवाच:
ग्रहा यज्ञाश्च सोमश्च दैवतानि च सर्वशः ||
२४ ख
नारद उवाच:
सावित्री दुर्गतरणी वाणी सप्तविधा तथा |
२५ क
नारद उवाच:
मेधा धृतिः श्रुतिश्चैव प्रज्ञा वुद्धिर्यशः क्षमा ||
२५ ख
नारद उवाच:
सामानि स्तुतिशस्त्राणि गाथाश्च विविधास्तथा |
२६ क
नारद उवाच:
भाष्याणि तर्कय़ुक्तानि देहवन्ति विशां पते ||
२६ ख
नारद उवाच:
क्षणा लवा मुहूर्ताश्च दिवा रात्रिस्तथैव च |
२७ क
नारद उवाच:
अर्धमासाश्च मासाश्च ऋतवः षट्च भारत ||
२७ ख
नारद उवाच:
संवत्सराः पञ्चय़ुगमहोरात्राश्चतुर्विधाः |
२८ क
नारद उवाच:
कालचक्रं च यद्दिव्यं नित्यमक्षय़मव्ययम् ||
२८ ख
नारद उवाच:
अदितिर्दितिर्दनुश्चैव सुरसा विनता इरा |
२९ क
नारद उवाच:
कालका सुरभिर्देवी सरमा चाथ गौतमी ||
२९ ख
नारद उवाच:
आदित्या वसवो रुद्रा मरुतश्चाश्विनावपि |
३० क
नारद उवाच:
विश्वेदेवाश्च साध्याश्च पितरश्च मनोजवाः ||
३० ख
नारद उवाच:
राक्षसाश्च पिशाचाश्च दानवा गुह्यकास्तथा |
३१ क
नारद उवाच:
सुपर्णनागपशवः पितामहमुपासते ||
३१ ख
नारद उवाच:
देवो नाराय़णस्तस्यां तथा देवर्षय़श्च ये |
३२ क
नारद उवाच:
ऋषय़ो वालखिल्याश्च योनिजाय़ोनिजास्तथा ||
३२ ख
नारद उवाच:
यच्च किञ्चित्त्रिलोकेऽस्मिन्दृश्यते स्थाणुजङ्गमम् |
३३ क
नारद उवाच:
सर्वं तस्यां मय़ा दृष्टं तद्विद्धि मनुजाधिप ||
३३ ख
नारद उवाच:
अष्टाशीतिसहस्राणि यतीनामूर्ध्वरेतसाम् |
३४ क
नारद उवाच:
प्रजावतां च पञ्चाशदृषीणामपि पाण्डव ||
३४ ख
नारद उवाच:
ते स्म तत्र यथाकामं दृष्ट्वा सर्वे दिवौकसः |
३५ क
नारद उवाच:
प्रणम्य शिरसा तस्मै प्रतिय़ान्ति यथागतम् ||
३५ ख
नारद उवाच:
अतिथीनागतान्देवान्दैत्यान्नागान्मुनींस्तथा |
३६ क
नारद उवाच:
यक्षान्सुपर्णान्कालेय़ान्गन्धर्वाप्सरसस्तथा ||
३६ ख
नारद उवाच:
महाभागानमितधीर्व्रह्मा लोकपितामहः |
३७ क
नारद उवाच:
दय़ावान्सर्वभूतेषु यथार्हं प्रतिपद्यते ||
३७ ख
नारद उवाच:
प्रतिगृह्य च विश्वात्मा स्वय़म्भूरमितप्रभः |
३८ क
नारद उवाच:
सान्त्वमानार्थसम्भोगैर्युनक्ति मनुजाधिप ||
३८ ख
नारद उवाच:
तथा तैरुपय़ातैश्च प्रतिय़ातैश्च भारत |
३९ क
नारद उवाच:
आकुला सा सभा तात भवति स्म सुखप्रदा ||
३९ ख
नारद उवाच:
सर्वतेजोमय़ी दिव्या व्रह्मर्षिगणसेविता |
४० क
नारद उवाच:
व्राह्म्या श्रिय़ा दीप्यमाना शुशुभे विगतक्लमा ||
४० ख
नारद उवाच:
सा सभा तादृशी दृष्टा सर्वलोकेषु दुर्लभा |
४१ क
नारद उवाच:
सभेय़ं राजशार्दूल मनुष्येषु यथा तव ||
४१ ख
नारद उवाच:
एता मय़ा दृष्टपूर्वाः सभा देवेषु पाण्डव |
४२ क
नारद उवाच:
तवेय़ं मानुषे लोके सर्वश्रेष्ठतमा सभा ||
४२ ख
युधिष्ठिर उवाच:
प्राय़शो राजलोकस्ते कथितो वदतां वर |
४३ क
युधिष्ठिर उवाच:
वैवस्वतसभाय़ां तु यथा वदसि वै प्रभो ||
४३ ख
युधिष्ठिर उवाच:
वरुणस्य सभाय़ां तु नागास्ते कथिता विभो |
४४ क
युधिष्ठिर उवाच:
दैत्येन्द्राश्चैव भूय़िष्ठाः सरितः सागरास्तथा ||
४४ ख
युधिष्ठिर उवाच:
तथा धनपतेर्यक्षा गुह्यका राक्षसास्तथा |
४५ क
युधिष्ठिर उवाच:
गन्धर्वाप्सरसश्चैव भगवांश्च वृषध्वजः ||
४५ ख
युधिष्ठिर उवाच:
पितामहसभाय़ां तु कथितास्ते महर्षय़ः |
४६ क
युधिष्ठिर उवाच:
सर्वदेवनिकाय़ाश्च सर्वशास्त्राणि चैव हि ||
४६ ख
युधिष्ठिर उवाच:
शतक्रतुसभाय़ां तु देवाः सङ्कीर्तिता मुने |
४७ क
युधिष्ठिर उवाच:
उद्देशतश्च गन्धर्वा विविधाश्च महर्षय़ः ||
४७ ख
युधिष्ठिर उवाच:
एक एव तु राजर्षिर्हरिश्चन्द्रो महामुने |
४८ क
युधिष्ठिर उवाच:
कथितस्ते सभानित्यो देवेन्द्रस्य महात्मनः ||
४८ ख
युधिष्ठिर उवाच:
किं कर्म तेनाचरितं तपो वा निय़तव्रतम् |
४९ क
युधिष्ठिर उवाच:
येनासौ सह शक्रेण स्पर्धते स्म महाय़शाः ||
४९ ख
युधिष्ठिर उवाच:
पितृलोकगतश्चापि त्वय़ा विप्र पिता मम |
५० क
युधिष्ठिर उवाच:
दृष्टः पाण्डुर्महाभागः कथं चासि समागतः ||
५० ख