युधिष्ठिर उवाच:
किमुक्तवांश्च भगवन्नेतदिच्छामि वेदितुम् |
५१ क
युधिष्ठिर उवाच:
त्वत्तः श्रोतुमहं सर्वं परं कौतूहलं हि मे ||
५१ ख
नारद उवाच:
यन्मां पृच्छसि राजेन्द्र हरिश्चन्द्रं प्रति प्रभो |
५२ क
नारद उवाच:
तत्तेऽहं सम्प्रवक्ष्यामि माहात्म्यं तस्य धीमतः ||
५२ ख
नारद उवाच:
स राजा वलवानासीत्सम्राट्सर्वमहीक्षिताम् |
५३ क
नारद उवाच:
तस्य सर्वे महीपालाः शासनावनताः स्थिताः ||
५३ ख
नारद उवाच:
तेनैकं रथमास्थाय़ जैत्रं हेमविभूषितम् |
५४ क
नारद उवाच:
शस्त्रप्रतापेन जिता द्वीपाः सप्त नरेश्वर ||
५४ ख
नारद उवाच:
स विजित्य महीं सर्वां सशैलवनकाननाम् |
५५ क
नारद उवाच:
आजहार महाराज राजसूय़ं महाक्रतुम् ||
५५ ख
नारद उवाच:
तस्य सर्वे महीपाला धनान्याजह्रुराज्ञय़ा |
५६ क
नारद उवाच:
द्विजानां परिवेष्टारस्तस्मिन्यज्ञे च तेऽभवन् ||
५६ ख
नारद उवाच:
प्रादाच्च द्रविणं प्रीत्या याजकानां नरेश्वरः |
५७ क
नारद उवाच:
यथोक्तं तत्र तैस्तस्मिंस्ततः पञ्चगुणाधिकम् ||
५७ ख
नारद उवाच:
अतर्पय़च्च विविधैर्वसुभिर्व्राह्मणांस्तथा |
५८ क
नारद उवाच:
प्रासर्पकाले सम्प्राप्ते नानादिग्भ्यः समागतान् ||
५८ ख
नारद उवाच:
भक्ष्यैर्भोज्यैश्च विविधैर्यथाकामपुरस्कृतैः |
५९ क
नारद उवाच:
रत्नौघतर्पितैस्तुष्टैर्द्विजैश्च समुदाहृतम् |
५९ ख
नारद उवाच:
तेजस्वी च यशस्वी च नृपेभ्योऽभ्यधिकोऽभवत् ||
५९ ग
नारद उवाच:
एतस्मात्कारणात्पार्थ हरिश्चन्द्रो विराजते |
६० क
नारद उवाच:
तेभ्यो राजसहस्रेभ्यस्तद्विद्धि भरतर्षभ ||
६० ख
नारद उवाच:
समाप्य च हरिश्चन्द्रो महाय़ज्ञं प्रतापवान् |
६१ क
नारद उवाच:
अभिषिक्तः स शुशुभे साम्राज्येन नराधिप ||
६१ ख
नारद उवाच:
ये चान्येऽपि महीपाला राजसूय़ं महाक्रतुम् |
६२ क
नारद उवाच:
यजन्ते ते महेन्द्रेण मोदन्ते सह भारत ||
६२ ख
नारद उवाच:
ये चापि निधनं प्राप्ताः सङ्ग्रामेष्वपलाय़िनः |
६३ क
नारद उवाच:
ते तत्सदः समासाद्य मोदन्ते भरतर्षभ ||
६३ ख
नारद उवाच:
तपसा ये च तीव्रेण त्यजन्तीह कलेवरम् |
६४ क
नारद उवाच:
तेऽपि तत्स्थानमासाद्य श्रीमन्तो भान्ति नित्यशः ||
६४ ख
नारद उवाच:
पिता च त्वाह कौन्तेय़ पाण्डुः कौरवनन्दनः |
६५ क
नारद उवाच:
हरिश्चन्द्रे श्रिय़ं दृष्ट्वा नृपतौ जातविस्मय़ः ||
६५ ख
नारद उवाच:
समर्थोऽसि महीं जेतुं भ्रातरस्ते वशे स्थिताः |
६६ क
नारद उवाच:
राजसूय़ं क्रतुश्रेष्ठमाहरस्वेति भारत ||
६६ ख
नारद उवाच:
तस्य त्वं पुरुषव्याघ्र सङ्कल्पं कुरु पाण्डव |
६७ क
नारद उवाच:
गन्तारस्ते महेन्द्रस्य पूर्वैः सह सलोकताम् ||
६७ ख
नारद उवाच:
वहुविघ्नश्च नृपते क्रतुरेष स्मृतो महान् |
६८ क
नारद उवाच:
छिद्राण्यत्र हि वाञ्छन्ति यज्ञघ्ना व्रह्मराक्षसाः ||
६८ ख
नारद उवाच:
युद्धं च पृष्ठगमनं पृथिवीक्षय़कारकम् |
६९ क
नारद उवाच:
किञ्चिदेव निमित्तं च भवत्यत्र क्षय़ावहम् ||
६९ ख
नारद उवाच:
एतत्सञ्चिन्त्य राजेन्द्र यत्क्षमं तत्समाचर |
७० क
नारद उवाच:
अप्रमत्तोत्थितो नित्यं चातुर्वर्ण्यस्य रक्षणे |
७० ख
नारद उवाच:
भव एधस्व मोदस्व दानैस्तर्पय़ च द्विजान् ||
७० ग
नारद उवाच:
एतत्ते विस्तरेणोक्तं यन्मां त्वं परिपृच्छसि |
७१ क
नारद उवाच:
आपृच्छे त्वां गमिष्यामि दाशार्हनगरीं प्रति ||
७१ ख
वैशम्पाय़न उवाच:
एवमाख्याय़ पार्थेभ्यो नारदो जनमेजय़ |
७२ क
वैशम्पाय़न उवाच:
जगाम तैर्वृतो राजन्नृषिभिर्यैः समागतः ||
७२ ख
वैशम्पाय़न उवाच:
गते तु नारदे पार्थो भ्रातृभिः सह कौरव |
७३ क
वैशम्पाय़न उवाच:
राजसूय़ं क्रतुश्रेष्ठं चिन्तय़ामास भारत ||
७३ ख