कृष्णां नु शोचामि कथं न साध्वीं; शोकार्णवे साद्य विनङ्क्ष्यतीति | 
२४   क
भ्रातॄंश्च पुत्रांश्च हतान्निशम्य; पाञ्चालराजं पितरं च वृद्धम् | 
२४   ख
ध्रुवं विसञ्ज्ञा पतिता पृथिव्यां; सा शेष्यते शोककृशाङ्गय़ष्टिः || 
२४   ग